भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search

कलियुगीयेतिहाससमुच्चयवर्णनम्

सूत उवाच
ततस्ते सकला दैत्याः कलिना च पुरस्कृताः ।
कृत्वा च जलयानानि हरिखण्डमुपाययुः । । १
मनुजा हरिखण्डे च देवतुल्या महाबलाः ।
अयुध्यंस्तान्महाशस्त्रैरयुताब्दप्रजीविनः । । २
दशवर्षान्तरे सर्वे मायायुद्धैः पराजिताः ।
महेन्द्रं शरणं जग्मुर्हरिखण्डनिवासिनः । । ३
तदा तु भगवाञ्छक्रो विश्वकर्माणमब्रवीत् ।
भ्रमिश्च नामयन्त्रोऽयं संस्थितः सप्तसिन्धुषु । । ४
त्वया विरचितस्तात तत्प्रभावान्नरा भुवि ।
अन्यखण्डे न गच्छन्ति स च यन्त्रस्तु मायिना । । ५
मयेन भ्रंशितो भ्रात्रा म्लेच्छैः सार्द्धं समन्ततः ।
सप्तद्वीपेषु यास्यन्ति मनुजा मम वैरिणः । । ६
अतो नः पाहि मर्यादां भूमध्ये भवता कृताम् ।
ति श्रुत्वा विश्वकर्मा दिव्ययन्त्रमचीकरत् । । ७
तेन यन्त्रप्रभावेन भ्रमितास्ते बभूविरे ।
भ्रमियन्त्रान्महावायुर्ज्जातो म्लेच्छविनाशकः । । ८
तद्वायोरभवत्पुत्रो वात्यो वात्यासमुद्भवः ।
दैत्ययक्षाँश्च पैशाचाञ्जित्वा ज्ञानमयो बली । । ९
ब्राह्मणाः क्षत्रिया वैश्यास्त्रिवर्णास्तेन सत्कृताः ।
बलान्म्लेच्छान्वर्णमयान्कृत्वा वात्यो महाबलः । । 3.4.24.१०
शतार्द्धाब्दं मण्डलीकं पदं भुवि गृहीतवान् ।
तदन्वये सहस्राश्च नृपाश्चासन्कलौ युगे । । ११
वायुपक्षास्त्रिवर्णाढ्याः षोडशाब्दसहस्रके ।
वायोर्जातः स्वयं ब्रह्मा वायोर्जातः स वै हरिः । । १२
वायोर्जातो महादेवः सर्वं वायुमयं जगत् ।
विना वायुं मृताः सर्वे वायुना भुवि जीविनः । । १३
इति मत्वा तु ते लोका वायुं च समतर्पयन् ।
पुनस्तदा कलिर्घोरो दैत्यराजं बलिं प्रभुम् । । १४
नत्वा निवेदयामास दुःखितोऽभूत्तदा बलिः ।
वामनान्तिकमागम्य कलिमित्रेण संयुतः । । १५
नत्वोवाच स वै राजा देवदेवं जनार्दनम् ।
त्वया कलिः कृतो मह्यं प्रसन्नेन सुरोत्तम । । १६
वात्यैर्द्विजैः कर्मभूमेः कलिस्तु स निराकृतः ।
एकपादो व्यतीतोऽयं किञ्चिदूनं कलेः प्रभोः । । १७
मया सम्यक्तु वै भुक्ता भूमिर्देवेन्द्रमायया ।
सहस्राब्दं कलौ प्राप्ते मया भुक्तं महीतलम् । । १८
ततः सार्द्धं सहस्राब्दं देवैर्भुक्तं सुरस्थलम् ।
ततः पंचशतं वर्षं किञ्चिदधिकमेव च । । १९
मया भुक्ता कर्मभूमिः सर्वलोकस्य कारणात् ।
ततः सार्द्धं सहस्राब्दं देवैर्भुक्तेयमुत्तमा । । 3.4.24.२०
ततः सार्द्धसहस्राब्दं किञ्चिदूनं मया धृता ।
सार्द्धत्रिंशत्सहस्राब्दं देवैर्देत्यैस्तथा मही । । २१
भुक्ता दैत्यैः पुनर्देवैः तथा देवैश्च दानवैः । । २२
त्वया दत्तो हि मे देव कलिः कलिविनाशन ।
नाधिकारं कृतं नाथ सत्यं सत्यप्रियक्षम । । २३
इति श्रुत्वा बलेर्वाक्यं भगवान्वामनो हरिः ।
स्वांशान्महीतले प्राप्तो दैत्यपक्षविवर्धनः । । २४
कामशर्मा तदा विप्रो यमुनातटसंस्थितः ।
हरिं तुष्टाव मनसा द्वादशाब्दं प्रयत्नतः । । २५
तदा तु वामनः श्रीमान्वचः प्राह द्विजोत्तमम् ।
वरं ब्रूहि द्विजश्रेष्ठ यत्ते मनसि संस्थितम् । ।
इति श्रुत्वा कामशर्मा तुष्टाव श्लक्ष्णया गिरा । । २६
कामशर्मोवाच
नमो देवाय महते सर्वपूज्याय ते नमः । । २७
धर्मप्रियाय धर्माय देवदैत्यकराय च ।
दैवाधीननृणां भर्त्रे कर्मकर्त्रे नमो नमः । । २८
दैवाधीनाश्च ते देवा दैवोल्लङ्घाश्च दानवाः ।
तेषां भर्त्ता क्रमाद्धर्ता तस्मै देवाय ते नमः । । २९
पुत्रो भव हरे स्वामिन्सफलं वाञ्छितं कुरु ।
इति श्रुत्वा हरिः साक्षाद्वामनो बलिरक्षकः । । 3.4.24.३०
स्वपूर्वार्द्धाद्देवहूत्यां तत्पत्न्यां च समुद्भवः ।
द्विधा भूत्वा मही जातौ दिव्याङ्गौ दिव्यविग्रहौ । । ३१
भोगसिहः केलिसिंह देवपो दैत्यपो हरिः ।
जित्वा वात्योद्भवान्भूपात्कल्पक्षेत्रमुपस्थितः । । ३२
रहः क्रीडावती नाम नगरी मयनिर्मिता ।
तत्रोष्य बलवन्तौ तौ दधतुश्च कलेर्धुरम् । । ३३
पत्नीयं सर्वधर्माणां सारभूता सनातनी ।
पतिव्रतायां ये जाता नरा आर्याः सुरप्रियाः । । ३४
दूषितायां नरा जातास्ते सर्वे वर्णसङ्कराः ।
इति सञ्चिन्त्य भगवान्कृत्वा काममयं वपुः । । ३५
दिने दिने सहस्राणि योषितो बुभुजे हरिः ।
ताः सर्वा गर्भमाधाय यमौ सुषुविरे मुदा । । ३६
नार्या तया सहोदर्या रेमिरे ते सहोदराः ।
एवं च बहुधा सृष्टिस्तेषां जाता कलौ युगे । । ३७
पूर्वजातास्त्रिवर्णाश्च भक्षयित्वा दिनेदिने ।
कर्मभूम्यां ववृधिरे पक्षिणश्च यथा द्रुमे । । ३८
उभयाब्दसहस्रान्ते तैरन्नाः पूर्वमानवाः ।
तदा कलेश्च चरणो द्वितीयो भुवि चागमत् । । ३९
साम्प्रतं वर्तते वार्ता किन्नराणां च भूतले ।
द्विकिष्कुमात्राश्च नराः सार्द्धा दैत्यमयाः स्मृताः । । 3.4.24.४०
यथा खगाः कर्महीनाश्चत्वारिंशाब्दजीविनः ।
भूमिगाश्च तथा ते वै भेदं तेष्वेषु नैव भोः । । ४१
दृश्यन्ते चाद्य युष्माभिर्भूतले किन्नरा नराः ।
द्वितीयचरणान्ते च भविष्यन्त्येवमेव हि । ।४ २
न विवाहो न भूपश्च नोद्यमो न हि कर्मकृत् ।
भविता च तदा तेषां द्वितीयचरणान्तिके । ।४ ३
सपादलक्षाब्दमितमद्यप्रभृति भो द्विजाः ।
भोगकेल्यन्वयोद्भूता भविष्यन्ति महीतले । । ४४
अतो मया च सहिता भवन्तो मुनिसत्तमाः ।
कृष्णचैतन्यमागम्य गमिष्यामस्तदाज्ञया । । ४५
व्यास उवाच
इति श्रुत्वा तु मुनयो विशालापूर्निवासिनः ।
भो नमस्ते गमिष्यन्ति यज्ञांशं प्रति हर्षिताः । ।४६
नत्वा सर्वे मुनिश्रेष्ठा यज्ञांशं यज्ञरूपिणम् ।
वचनं च वदिष्यन्ति देह्याज्ञां भगवन्प्रभो । । ४७
इन्द्रलोके गमिष्यामो नाकमध्यं मनोहरम् ।
इति श्रुत्वा तु यज्ञांशः सर्वशिष्यसमन्वितः । ।४८
तैः सर्वैः सह स्वर्लोकं गमिष्यति सुरप्रियः ।
तदा कलिः समं दैत्यैर्भजिष्यति महीतलम् । ।
किमन्यच्छ्रोतुमिच्छा ते हृषीकोत्तम तद्वद । ।४९
मनुरुवाच
भगवन्विस्तराद्ब्रूहि भोगकेलिचरित्रकम् ।
कलौ यथा भविष्यन्ति मनुजास्तत्तथा प्रभो । । 3.4.24.५०
व्यास उवाच
भोगसिंहे केलिसिंहे वामनांशसमुद्भवे । । ५१
जित्वा दैत्यान्नरमयान्नरान्वात्योद्भवान्भुवि ।
वामनांशमुपागम्य हर्षिताः सम्बभूविरे । । ५२
तदा तु दुःखिता देवास्त्यक्त्वा मूर्तीः समन्ततः ।
कृष्णचैतन्यमागम्य नत्वोचुर्नतकन्धराः । । ५३
भगवंस्त्वत्प्रसादेन चरणं प्रथमं कलेः ।
भुक्ता तथा मही स्वामिञ्जित्वा वै दैत्यप्रपूजकान् । । ५४
किं कर्तव्यं च यज्ञांश नमस्ते करुणाकर ।
इति श्रुत्वा हरिः प्राह तदा शृणुध्वं सुरसत्तमाः । । ५५
अहं स्वर्गं गमिष्यामि भवद्भिः सह हर्षितः ।
अतो यूयं सुराः सर्वे देववंशान्नरान्सदा । । ५६
उत्थाप्य शीघ्रमागम्य गच्छध्वं च त्रिविष्टपम् ।
इति सूतेन कथिते मुनीन्प्रति सुमण्डलम् । । ५७
देवा विमानमादाय तत्र यास्यन्ति भो मनः ।
सूतादींश्च मुनीन्सर्वान्समारुह्य सुरास्तदा । । ५८
यज्ञांशं च गमिष्यन्ति नदीहोपवने तदा ।
अह्लादश्च तदा योगी गोरखाद्यास्तथैव च । । ५९
शङ्कराद्याश्च रुद्रांशा नृपो भर्तृहरिस्तदा ।
अन्ये तु योगनिष्ठाश्च गमिष्यन्ति हितप्रदाः । । 3.4.24.६०
तैः सार्द्धं कृष्णचैतन्यो देवलोकं गमिष्यति ।
तदा तौ वामनांशौ च द्वितीयचरणे कलौ । । ६१
योगनिष्ठां समाधाय कल्पक्षेत्रे वसिष्यतः ।
तदैव सकला दैत्या हर्षितास्तैर्नृभिर्मुहुः । । ६२
विवरान्वर्द्धयिष्यन्ति पातालाद्यान्समन्ततः ।
कलेस्तुतीयचरणे सम्प्राप्ते किन्नराश्च ते । । ६३
शनैःशनैः क्षयं भूमौ गमिष्यन्ति समन्ततः ।
षड्विंशाब्दसहस्रे च तृतीयचरणे गते । । ६४
रुद्राज्ञया भृङ्गऋषिर्भूतपक्षो गमिष्यति ।
सौरभी नाम तत्पत्नी जनिष्यति महाबलान् । । ६५
कौलकल्पान्नरान्घोरान्सर्वकिन्नरभक्षकान् ।
षड्विंशाब्दवयस्तेषां भविष्यति तदा कलौ । । ६६
शरणं वामनांशं च गमिष्यन्ति सकिन्नराः ।
भोगसिहः केलिसिंहस्तैश्च सार्द्धं महद्रणम् । । ६७
करिष्यति दशाब्दं च पुनस्तैश्च पराजितौ ।
दैत्यैः सार्द्धं च पातालं वामनांशो गमिष्यतः । । ६८
भृङ्गसृष्टिर्महाघोरा भविष्यति तदा कलौ ।
मातृ: स्वसुः सुतास्ते वै नराश्च पशुरूपिणः । । ६९
भुक्त्वा प्रीत्या च कामान्धा जनिष्यन्ति सुतान्बहून् ।
कलेस्तृतीयचरणे समाप्ते तास्तु सृष्टयः । । 3.4.24.७०
तिर्य्यग्योनिधरा घोराः क्षयिष्यन्ति कलौ युगे ।
कलेश्चतुर्थचरणे सम्प्राप्ते तु तदा नराः । । ७१
विंशदब्दवयस्काश्च मरिष्यन्ति च नारकाः ।
यथा जलमनुष्याश्च यथैव वनजा नराः । । ७२
कन्दमूलफलाहारा भविष्यन्ति कलौ तदा ।
आलोका ये तु विख्यातास्तामिस्राद्या भयानकाः । । ७३
ते सर्वे पूर्णमेष्यन्ति कर्मभूमिभवैर्नरैः ।
यथा सत्यस्य प्रथमे चरणे सत्यलोककः । । ७४
द्वितीये च तपोलोके जनलोकस्तृतीयकः ।
चतुर्थे स्वर्गलोकश्च पूरितः कर्मभूमिजैः । । ७५
त्रेतायुगाद्यचरणे भुवर्लोकं भुवास्पदम् ।
स्वर्गलोकं यथा तैश्च मनुजैः पूरितं स्मृतम् । । ७६
द्वितीये ऋषिलोकं च तृतीये ग्रहविष्टपम् ।
चतुर्थे च भुवर्लोकं पूरितं कर्मजैर्नरैः । । ७७
द्वापराद्यपदे पूर्णे भवेद्द्वीपः स पुष्कर ।
द्वितीये शाल्मलः क्रौञ्चस्तृतीये द्वीपशेषकः । । ७८
जम्बूद्वीपश्चतुर्थे च चरणे मुनिभिः स्मृतः ।
कलेश्च चरणे चाद्येधश्चोर्ध्वं पूरितं जगत् । । ७९
द्वितीये सप्तपातालस्तृतीये भूतविष्टपम् ।
पूरितं मनुजैस्तत्र कर्मभूमिसमुद्भवैः । । 3.4.24.८०
तदाद्यनारकास्सर्वे पूर्णमेष्यन्ति तैर्नरैः ।
इति ते कथितं सर्वं यत्पृष्टोऽहं मनो त्वया । । ८१

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयो नाम चतुर्विंशोऽध्यायः । २४