भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कलियुगीयेतिहाससमुच्चयवर्णनम्

सूत उवाच
वैक्रमे राज्यविगते चतुष्षष्ट्युत्तरं मुने ।
द्वाविंशदब्दशतकं भूतनन्दिस्तदा नृपः । । १
कुबेरयक्षकान्मौनान्धनधान्यसमन्वितान् ।
सार्द्धलक्षान्कलैर्घोरैर्जित्वा तान्युद्धकारिणः । । २
किल्किलायां स्वयं राज्यं नागवंशैश्चकार ह ।
आग्नेय्यां दिशि विख्याता पुण्डरीकेण निर्मिता । । ३
पुरी किलकिला नाम तत्र राजा बभूव ह ।
पुण्डरीकादयो नागास्तस्मिन्राज्यं प्रशासति । । ४
गेहे गेहे जनैस्सर्वैः पूजनीया बभूविरे ।
स्वाहा स्वधा वषट्कारो देवपूजा महीतले । । ५
त्यक्त्वा देवानुपागम्य संस्थिता मेरुमूर्द्धनि ।
शक्राज्ञया कुबेरस्तु शूकधान्यं समन्ततः । । ६
यक्षैः षडंशानादाय देवेभ्यः प्रददौ प्रभुः ।
मणिस्वर्णादिवस्तूनि मौनराज्येषु यानि वै । । ७
दत्तानि तानि कोशेषु पुनर्देवश्चकार ह ।
मण्डलीकं पदं तेन सत्कृतं भूतनन्दिना । । ८
शतार्द्धं तु ततो राजा शिशुनन्दिर्बभूव ह ।
नागपूजां पुरस्कृत्य तिरस्कृत्य सुरान्भुवि । । ९
चकार राज्यं विशाब्दं यशोनन्दिस्ततोऽनुजः ।
भ्रात्रासनं स्वयं प्राप्तो नागपूजापरायणः । । 3.4.23.१०
पञ्चविंशतिवर्षाणि स च राज्यमचीकरत् ।
ततस्तत्तनयो राजा स बभूव प्रवीरकः । । ११
एकादशाब्दं तद्राज्यं कर्मभूम्यां प्रकीर्तितम् ।
कदाचित्स च बाह्लीके सेनया सार्द्धमागतः । । १२
तत्र तैरभवद्युद्धं पैशाचैर्म्लेच्छदारुणैः ।
मासमात्रान्तरे म्लेच्छा लक्षसंख्या मृतिं गताः । । १३
तथा षष्टिसहस्राश्च नागभक्ता लयं गताः ।
बादलो नाम तद्राजा रोमजस्थो महाबलः । । १४
यशोनन्दिनमाहूय ददौ जालवतीं सुताम् ।
गृहीत्वा म्लेच्छराजस्य सुतां गेहमुपागतः । । १५
गर्भो जातस्ततस्तस्यां बभूव तनयो बली ।
बाह्लीको नाम विख्यातो नागपूजनतत्परः । । १६
तदन्वये नृपा जाता बाह्लीकाश्च त्रयोदश ।
चतुश्शतानि वर्षाणि कृत्वा राज्यं मृतिं गताः । । १७
अयोमुखे च बाह्लीके राज्यमत्र प्रशासति ।
तदा पितृगणास्सर्वे कृष्णचैतन्यमाययुः । । १८
नत्वोचुर्वचनं तत्र भगवञ्छृणु मे वचः ।
वयं पितृगणा भूपैर्नागवंश्यैर्निराकृताः । । १९
श्राद्धतर्पणकर्माणि तैर्वयं वर्द्धितास्सदा ।
पितृवृद्धात्सोमवृद्धिस्ततो देवाश्च वर्द्धनाः । । 3.4.23.२०
देववृद्धाल्लोकवृद्धिस्तस्माद्ब्रह्मा प्रजापतिः ।
ब्रह्मवृद्धात्परं हर्षं गेहे गेहे जने जने । । २१
अतोऽस्मान्रक्ष भगवन्प्रजाः पाहि सनातनीः ।
इति श्रुत्वा वचस्तेषां यज्ञांशो भगवान्हरिः । । २२
पुष्यमित्रं धर्मपरमार्यवशविवर्द्धनम् । । २३
जातमात्रः स वै बालः षोडशार्द्धवयोऽभवत् ।
अयोनिर्योनिभूतांस्तानयोमुख पुरस्सरान् । । २४
जित्वा देशान्निराकृत्य स्वयं राज्यं गृहीतवान् ।
यथा शिवांशतो जातो विक्रमो नाम भूपतिः । । २५
शकान्गन्धर्वपक्षीयाञ्जित्वा पूज्यो बभूव ह ।
नागपक्षांस्तथा भूपान्गोलकास्यान्भयङ्करान् । । २६
पुष्यमित्रस्तदा जित्वा सर्वपूज्योऽभवद्भुवि ।
सप्तविंशच्छतं वर्षं द्विसप्तत्युत्तरं तथा । । २७
राज्यं विक्रमतो जातं समाप्तिमगमत्तदा ।
पुष्यमित्रे राज्यपदं प्राप्ते समभवत्तदा । । २८
शतवर्षं राज्यपदं तेन धर्मात्मना धृतम् ।
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । । २९
पुरी द्वारवती तेन राज्ञा च पुनरुद्धृताः ।
कुरुसूकरपद्मानि क्षेत्राणि विविधानि च । । 3.4.23.३०
नैमिषोत्पलवृन्दानां वनक्षेत्राणि भूतले ।
नानातीर्थानि तेनैव स्थापितानि समन्ततः । । ३१
तदा कलिः स गन्धर्वो देवतापितृदूषकः ।
ब्राह्मणं वपुरास्थाय पुष्यमित्रमुपागमत् । । ३२
नत्वोवाच प्रियं वाक्यं शृणु भूप दयापर ।
आर्यदेशे पितृगणाः पूजार्हाः श्राद्धतर्पणैः । । ३३
अज्ञानमिति तज्ज्ञेय भुवि यत्पितृपूजनम् ।
मृता ये तु नरा भूमौ पूर्वकर्मवशानुगाः । । ३४
भवन्ति देहवन्तस्ते चतुराशीतिलक्षधा ।
छद्मना मयदेवेन पितृपूजा विनिर्मिता । । ३५
वृथा श्रमं वृथा कर्म नृणां च पितृपूजनम् ।
इति श्रुत्वा वचो घोरं विहस्याह महीपतिः । । ३६
भवान्मूर्खो महामूढो न जानीष परं फलम् ।
भुवर्लोके न ये दृष्टाः शून्यभूताश्च भास्वराः । । ३७
ये तु ते वै पितृगणाः पिण्डरूपविमानगाः ।
सत्पुत्रैश्च विधानेन पिण्डदानं च यत्कृतम् । । ३८
तद्विमानं नभोजातं सर्वानन्दप्रदायकम् ।
अब्दमात्रं स्थितिस्तेषां पिण्डपायसरूपिणाम् । । ३९
गीताष्टादशकाध्यायैः सप्तशत्याश्चरित्रकैः ।
पावितं यत्तु वै पिण्डं त्रिशताब्दं च तत्स्थितिः । । 3.4.23.४०
श्राद्धतर्पणहीना ये दृश्यन्ते मानवा भुवि ।
ते सर्वे नारका ज्ञेयाः कुलमेकोत्तरं शतम् । । ४१
श्राद्धकर्म महान्धर्मः श्राद्धोऽयं सर्वकारणम् ।
इति श्रुत्वा स गन्धर्वः कलीराजोऽत्र देहिनाम् । । ४२
नत्वोवाच नृपश्रेष्ठं प्रसन्नवदनो हि सः ।
सदा भव ममाशु त्वं तवाहं नृप किङ्करः । । ४३
कलिमित्रः पुष्यमित्रो भवान्भुवि भवेत्सदा ।
यथा विक्रमराजस्य वैतालस्य च वै सखा ।।४४
सर्वकार्यकरोऽहं वै तथा तव न संशयः ।
इत्युक्त्या च नृपं धीरं समादाय स वै कलिः ।।४५
सप्तद्वीपांस्तथा खण्डान्नभोमार्गाननेकशः ।
स्वपृष्ठस्थाय राज्ञे च दर्शयामास वीर्यवान् ।।४६
आर्यधर्मं कलौ स्थाप्य नष्टभूतं स वै नृपः ।
त्यक्त्वा प्राणांश्च यज्ञांशे तेजस्तस्य समागमत् ।।४७
आन्ध्रदेशोद्भवो राजा सुगदो नाम वीर्यवान् ।
विना भूपं च तं देशं दृष्ट्वा राज्यमचीकरत् ।।४८
विंशदब्दं पदं तेन कर्मभूम्यां च सत्कृतम् ।
तदन्वये षष्टिनृपा बभूवुर्बहुमार्गिणः ।।४९
पुष्यमित्रगते राज्ये दशोत्तरशतत्रयम् ।
तस्मिन्काले लयं जग्मुश्चान्ध्रदेशनिवासिनः ।।3.4.23.५०
शतार्द्धाब्दं ततो भूमिर्विना राज्ञा बभूव ह ।
तदा क्षुद्रा नरा लुब्धा लुण्ठिताश्चौरदारुणैः ।।५ १
दारिद्रमगमन्घोरं विना स्वर्णं च भूरभूत् ।
पुनर्देवश्च भगवान्प्रार्थितस्तानुवाच ह ।।५२
देशे कौशलके जातः सूर्य्यांशाच्य महीपतिः ।
राक्षसारिरिति ख्यातो देवमार्गपरायणः ।।५३
ममाज्ञया स वै राजा भविष्यति महीतले ।
इत्युक्त्वान्तर्दधे विष्णुर्देवलोकानुपागमत् ।।५४
राक्षसारिमयोध्यायां स्थापयामासुरेव तम् ।
आन्ध्रराष्ट्रे च यद्द्रव्यं राक्षसैश्च समाहृतम् ।।५५
तद्द्रव्यं राक्षसाञ्जित्वा ग्रामे ग्रामे चकार सः ।
तारधातोरष्टमूल्यं सुवर्णं भुवि तत्कृतम् ।।५६
आरधा(ध?)तोः शतं मूल्यं राजतं तेन वै कृतम् ।
ताम्रधातोः पञ्चमूल्यमारधातोश्च तत्कृतम् ।।५७
नागधातोः पञ्चमूल्यं भुवि तेनैव निर्मितम् ।
ताम्रं पवित्रमधिकं नागो वङ्गस्तथोत्तमः । । ५८
लौहधातोः शतं मूल्यं वङ्गोऽसौ तेन सत्कृतः ।
शतार्द्धाब्दं महीं भुक्त्वा सूर्यलोकमुपाययौ । । ५९
तदन्वये षष्टिनृपा जाता वेदपरायणाः ।
पुष्यमित्रगते राज्ये चाब्दे सप्तशते गते । । 3.4.23.६०
कौशलान्वयसम्भूता भूपाः स्वर्गमुपाययुः ।
शतार्द्धाब्दं ततो भूमिर्मण्डलीकं नृपं विना । । ६१
क्षुद्रभूपाश्च बुभुजे देशे देशे च भार्गवः ।
ततो बैदरदेशीयो नाम्ना भूपो विशारदः । । ६२
आर्यदेशमुपागम्य लक्षसैन्यसमन्वितः ।
क्षुद्रभूपान्वशीकृत्य मण्डलीको बभूव ह । । ६३
नानाकलैश्च कर्माणि विचित्राणि महीतले ।
ग्रामे ग्रामे नराश्चकुर्वर्णसङ्करकारकाः । । ६४
ब्रह्मक्षत्रमयो वर्णो नाममात्रेण दृश्यते ।
वैश्यप्राया नरा आर्याः शूद्रप्रायाश्च कारिणः । । ६५
तद्राष्ट्रे मनुजाश्चासन्नाममात्रं सुरार्चकाः ।
षष्टिवर्षं पदं तेन कर्मभूम्यां च सत्कृतम् । । ६६
ततो नृपा महीं प्राप्ताः षट्सङ्ख्यास्तु तदन्वयाः ।
पुष्यमित्रगते राष्ट्रे शतषोडशहायनी । । ६७
वैदूरा निधनं जग्मुः कलिकाले भयानके ।
चतुश्शतानि वर्षाणि क्षुद्ररूपा च भूरभूत् । । ६८
तत्पश्चान्नैषधे राष्ट्रं कालमाली नृपोऽभवत् ।
क्षुद्रभूपान्वशीकृत्य स्वयं राजा बभूव वै । । ६९
यमाभूया भुवि त्वष्ट्रा नगरी यमुनातटे ।
निर्मिता योजनायातु कालकालेति विश्रुता । । 3.4.23.७०
तत्रार्यदेश भूपानां पूज्यो राजा स चाभवत् ।
देवान्पितॄंस्तिरस्कृत्य प्रेतपूजां जने जने । । ७१
कालमाली च कृतवान्देशनैषधसंस्थितः ।
द्वात्रिंशद्वर्षराज्यं तद्बभूव जनपीडनम् । । ७२
तदन्वये षष्टिनृपा बभूवुः प्रेतपूजकाः ।
शताब्दांतमभूद्राज्यं तेषां नैषधदेशिनाम् । । ७३
सहस्राब्दं तु तत्पश्चात्क्षुद्रभूपा मही ह्यभूत् ।
सुरार्चनं वेदमार्गः श्रुतमात्रश्च दृश्यते । । ७४
पुष्यमित्रगते राज्ये चैकत्रिंशच्छते कलौ ।
द्वात्रिंशदुत्तरे चैव तदा देवाश्च दुःखिताः । । ७५
कृष्णचैतन्यमागम्य नत्वोचुर्वचनं प्रियम् ।
भगवन्कलिकालेऽद्य वर्णाश्चत्वारिभूतले १ । । ७६
भ्रष्टाचाराः प्रेतमयाः शतार्द्धाब्दप्रजीविनः ।
देवान्पितॄंस्तिरस्कृत्य पिशाचान्पूजयन्ति वै । । ७७
ग्रामे ग्रामे च कुघ्नानि पूजितानि नरैर्भुवि ।
दृश्यन्तेऽस्माभिरद्यैव दुःखिताश्च नरा भृशम् । । ७८
भूतप्रेतपिशाचाश्च डाकिनीशाकिनीगणाः ।
स्वपूजाभिर्मदान्धाश्च निन्दयन्ति सुरान्पितॄन् । । ७९
अतोऽस्मान्दुर्बलान्विद्धि सबलान्भूतनायकान् ।
कृपया पाहि नः स्वामिञ्छरणागतवत्सल । । 3.4.23.८०
इति श्रुत्वा स यज्ञांशो नदीहोपवने स्थितः ।
नम्रभूतान्सुरान्प्राह मागधे तु महीपतिः । । ८१
पुरञ्जयो ब्रह्मपरस्तस्य पत्नी पुरञ्जनी ।
मदाज्ञया तयोः पुत्रो भविष्यति महाबलः । । ८२
विश्वस्फूर्जिरिति ख्यातो ब्रह्ममार्गपरो गुणी ।
इत्युक्तवचने तस्मिन्गर्भं धत्ते पुरञ्जनी । । ८३
दशमासान्तरे जातो विश्वस्फूर्जिर्महाबलः ।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी । । ८४
पुष्यमित्रो यथा चासीद्वर्णधर्मप्रवर्तकः ।
तथायं बालको जातो ब्रह्ममार्गपरो बली । । ८५
करिष्यति परो वर्णान्कलिन्दयदुमद्रकान् ।
प्रजाश्च ब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । । ८६
वीर्यवान्क्षत्रमुत्साद्य पद्मवत्याः स वै पुरम् ।
इत्याकाशवचः श्रुत्वा स नृपस्तु पुरञ्जयः । । ८७
ददौ दानं क्षुधार्तेभ्योऽतिथिभ्यस्सपरिच्छदः ।
अष्टौ वर्षसहस्राणि चाष्टवर्षशतानि च । । ८८
कर्मभूम्यां कलौ प्राप्ते व्यतीतानि तदा मुने ।
विश्वस्फूर्जिर्नृपश्चासीन्महाबुद्धो महाबलः । । ८९
क्षुद्रभूपान्वशीकृत्य सर्ववर्णान्नरांस्तदा ।
स्थापयामास वै ब्रह्मे वर्णे ब्रह्मपरायणे । । 3.4.23.९०
क्षत्रविट्च्छूद्रका वर्णाः पिशाचा वर्णसङ्कराः ।
गुरुण्डाद्यास्तथा म्लेच्छा ब्राह्मणास्ते बभूविरे । । ९१
सन्ध्यातर्पणदेवानां पूजादिविविधाः क्रियाः ।
चक्रुस्ते वेदविधिना तुल्यभोजनशीलिनः । । ९२
षष्टिवर्षं कृतं राज्यं तेन सम्यक्कृता मुने ।
तदन्वये नृपाश्चासन्सहस्रा भुवि विश्रुताः । । ९३
अयुताब्दान्तरे जाता ब्रह्ममार्गपरायणाः ।
तैश्च दत्तानि भागानि यज्ञमध्ये विधानतः । । ९४
दैत्येभ्यश्च सुरेभ्यश्च तुल्यरूपाणि चागमन् ।
विस्मिताश्च सुरास्सर्वे यज्ञांशं शरणं ययुः । । ९५
तदुक्तं कारणं ज्ञात्वा शक्रपुत्र उवाच तान् ।
वेदो नारायणः साक्षाद्विवेकी हंसरूपवान् । । ९६
नृणां च युगभेदेन वर्णभेदं चकार ह ।
तद्गुणो ब्राह्मणो वर्णः क्षत्रियस्तु रजोगुणः । । ९७
तमोगुणस्तथा वैश्यो गुणसाम्यात्तु शूद्रकः ।
तृप्तिं यान्ति पितुर्वृन्दा ब्राह्मणैः क्षत्रियैः सुराः । । ९८
वैश्यैश्च यक्षरक्षांसि क्षुद्रैर्दैत्याश्च दानवाः ।
एकवर्णे च चत्वारो वर्णाः कायस्थ एव सः । । ९९
भूतप्रेतपिशाचाद्याः कायस्थैस्तर्पितास्सदा ।
ब्रह्मवर्णे तु वर्णाश्च स्थिताश्चत्वारि साम्प्रतम् । । 3.4.23.१००
ब्रह्मशङ्करवर्णोऽयं तेभ्यः पूर्वं हि दानवाः ।
अर्द्धतृप्ता भविष्यन्ति तत्पश्चात्स्वर्गवासिनः ।। १०१
अतोऽहं च कलौ घोरे युष्मदर्थे महीतले ।
सौराष्टनृपतेर्गेहं स्वांशाद्यास्यामि भोः सुराः ।। १०२
इत्युक्त्वा स च यज्ञांशः सोमनाथः कलैकया ।
नाम्ना बभूव तद्गेहे सौराष्ट्रनगरीस्थितः ।। १०३
जित्वा भूपान्स्वयं राज्यं चकाराब्धितटे मुदा ।
क्षत्रवर्णमयी भूमिस्तदा जाता कलौ युगे ।। १०४
सोमनाथः स वै यज्ञैः सुरान्सर्वानतर्पयत् ।
शताब्दं च कृतं राज्यं तेन देवप्रसादतः ।। १०५
तस्य राज्यमयं संवदभवल्लोकविश्रुतम् ।
तदन्वये सार्द्धशतं भूपाश्चासन्सुरप्रियाः ।। १०६
अयुताब्दान्तरे किञ्चिदधिके च सुखप्रदाः ।
कर्मभूम्यां कलौ प्राप्ते हायना अयुतत्रयम् ।। १०७
व्यतीतं च ततो दैत्या दुःखिताः कलिमब्रुवन् ।
पुरास्समाभिः शताब्दं च तपसा वै महेश्वरः ।। १०८
तुष्टीकृतस्तदास्मभ्यं भवान्दत्तो हितेन वै ।
अर्धभागं वज्रमयमर्धभागं च कोमलम् ।। १०९
तवाङ्गं सुन्दरं देव कलेऽस्मान्रक्ष दुःखितान् ।
इति श्रुत्वा च स कलिर्देत्यपक्षविवर्द्धनः ।। 3.4.23.११०
स्वांशाज्जन्म कलौ प्राप्य गुर्जरे देशदारुणे ।
आभीरी सिंहिका नाम सिहमांसाशना खला ।। १११
तस्या योनौ समागम्य राहुर्नाम स चाभवत् ।
यथा राहुर्नभोमार्गे दारुणो हि विधुन्तुदः ।। ११२
तथा राहुः कलेरंशो भुवि जातः सुरन्तुदः ।
जातमात्रे सुते तस्मिन्भूमिकम्पो महानभूत् ।। ११३
विपरीता ग्रहाः सर्वे जनयन्ति महद्भयम् ।
तद्भयात्सकला देवास्त्यक्त्वा मूर्तीः समन्ततः ।। ११४
महेन्द्रं शरणं जग्मुः सुमेरुगिरिमूर्द्धनि ।
तदर्थे भगवाञ्छक्रस्तुष्टाव जगदम्बिकाम् । । ११५
कन्यामूर्तिमयी देवी सुरान्प्राह शिवङ्करी ।
ममाङ्गदर्शनाद्देवाः क्षुत्तृड्भ्यां च विना सदा । । ११६
भवध्वं च ततो यूयं मद्विलोकनतत्पराः ।
इति श्रुत्वा तु ते देवा हर्षिताः सम्बमूविरे । । ११७
आभीरीतनयो राहुः कृत्वा राज्यं शतं समाः ।
त्यक्त्वा प्राणान्कलौ लीनो बभूव मुनिसत्तम । । ११८
तदन्वये सार्द्धशतमयुताब्दान्तरेभवत् ।
महामदमतं घोरं चिरकालाद्विनाशितम् । । ११९
तैः पुनश्चोद्धृतं भूमौ सर्वे म्लेच्छा बभूविरे ।
न वेदाश्च न देवाश्च न वर्णाश्च कलौ युगे । । 3.4.23.१२०
दृश्यन्ते न च मर्यादा कलिकाले तदन्वये ।
द्विजशेषाः सहस्राश्च पुनरर्बुदमूर्द्धनि । । १२१
द्वादशाहं प्रयत्नेन देवानाराधितुं क्षमा ।
अर्बुदाच्च समुद्भूतो राजन्यः खड्गचर्मधृक् । । १२२
जित्वा म्लेच्छान्दुराधर्षान्नाम्ना चार्वबली ह्यभूत् ।
पञ्चयोजनमाना स भूमिरात्मविवृद्धये । । १२३
निर्मिता तेन शुद्धेन नाम्ना चार्वपुरी स्मृता ।
शनैः शनैरार्यकुलं पुनस्तत्र ववर्द्ध ह । । १२४
शतार्द्धाब्दं प्रयत्नेन तेन राज्यं महत्कृतम् ।
तदन्वये सार्द्धशतं नृपाश्चासंस्तदा मुने । । १२५
अयुताब्दान्तरे वीरा म्लेच्छमित्राश्च सङ्कराः ।
म्लेच्छकन्योद्वहा घोरा नाममात्रार्य्यमार्गगाः । । १२६
तदा मलयदेशस्थैर्म्लेच्छैर्लक्षप्रमाणकैः ।
आर्वुदार्यैः समं युद्धमभवल्लोमहर्षणम् । । १२७
वर्षमात्रान्तरे जित्वा मालवस्था महाबलाः ।
मण्डलीकपदातैश्च मुक्तमार्यैः समन्ततः । । १२८
चत्वारिंशत्सहस्राणि वर्षाणि जगतीतले ।
म्लेच्छभूपाश्च शतशो बभूवुः स्वल्पजीविनः । । १२९
पंचविंशत्सहस्राणि तेषां संख्या च भूभुजाम् ।
ये तु पुण्या महीपालाः पूर्वजन्मतपोद्भवाः । । 3.4.23.१३०
तेषां लीला च मुनिभिः पुराणेषु प्रकीर्तिता ।
नानासंवत्कराः सर्वे पैशाचा धर्मदूषकाः । । १३१
नवत्यब्दसहस्राणि व्यतीतानि कलौ युगे ।
जाता म्लेच्छमयी भूमिरलक्ष्मीस्तु जनेजने । । १३२

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयवर्णनं नाम त्रयोविंशोऽध्यायः । २३