भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

कृष्णचैतन्यवर्णनम्

सूत उवाच
इति श्रुत्वा वचस्तस्य जगन्नाथस्य धीमतः ।
कृष्णचैतन्य एवापि तमुवाच प्रसन्नधीः । । १
भगवन्प्राणिनां श्रेयो यदुक्तं भवता मुने ।
विस्तरात्तत्कथां ब्रूहि यथा बौद्धसमुद्भवः । । २
जगन्नाथ उवाच
सहस्राब्दे कलौ प्राप्ते कर्मभूम्यां च भारते ।
कण्वो नाम मुनिश्रेष्ठस्सम्प्राप्तः कश्यपात्मजः । । ३
आर्यावती देवकन्या कण्वस्य दयिता प्रिया ।
शक्राज्ञया च सम्प्राप्तौ दम्पती शारदातटे । । ४
सरस्वतीं नदीरूपां कुरुक्षेत्रनिवासिनीम् ।
चतुर्वेदमयैः स्तोत्रैः कण्वस्तुष्टाव नम्रधीः । । ५
वर्षमात्रान्तरे देवी प्रसन्ना समुपागता ।
आर्यसृष्टिसमृद्धौ सा ददौ तस्मै वरं शुभम् । । ६
दशपुत्रास्तयोर्जाता आर्यबुद्धिकरा हि ते ।
उपाध्यायो दीक्षितश्च पाठकः शुक्लमिश्रकौ । । ७
अग्रिहोत्री द्विवेदी च त्रिवेदी पाण्ड एव च ।
चतुर्वेदीति कथिता यथा नाम तथा गुणाः । । ८
ते वै सरस्वतीं देवीं तुष्टुवुर्नम्रकन्धराः ।
द्वादशाब्दवयोभ्यश्च तेभ्यो देवी स्वशक्तितः । ।
कृत्वा कन्यां ददौ माता शारदा भक्तिवत्सला । । ९
उपाध्यायी दीक्षिता च पाठकी शुक्लिका क्रमात् ।
मिश्राणी च तथा ज्ञेया षष्ठी सा चा(च?)ग्निहोत्रिणी । । 3.4.21.१०
द्विवेदिनी तथा ज्ञेया चाष्टमी च त्रिवेदिनी ।
पाण्डायनी च नवमी दशमी तुर्यवेदिनी । । ११
तासां च स्वपतिभ्यो वै सुताः षोडश षोडश ।
ते तु गोत्रकरा ज्ञेयास्तेषां नामानि मे शृणु । । १२
कश्यपश्च भरद्वाजो विश्वामित्रोऽथ गौतमः ।
जमदग्निर्वशिष्ठश्च वत्सो गौतम एव च । । १३
पराशरस्तथा गर्गोऽत्रिर्भृगुश्चाङ्गिरास्तथा ।
शृङ्गी कात्यायनश्चैव याज्ञवल्क्यः क्रमात्सुताः । ।
इति नाम्ना सुतास्सर्वे ज्ञेयाः षोडश षोडश । । १४
सरस्वत्याज्ञया कण्वो मिश्रदेशमुपाययौ ।
म्लेच्छान्संस्कृतमाभाष्य तदा दशसहस्रकान् । ।
वशीकृत्य स्वयम्प्राप्तो ब्रह्मावर्ते महोत्तमे । । १५
ते सर्वे तपसा देवीं तुष्टुवुश्च सरस्वतीम् ।
पञ्चवर्षान्तरे देवी प्रादुर्भूता सरस्वती । ।
सपत्नीकाँश्च तान्म्लेच्छाञ्छूद्रवर्णाय चाकरोत् । । १६
कारुवृत्तिकरास्सर्वे बभूवुर्बहुपुत्रकाः ।
द्विसहस्रास्तदा तेषां मध्ये वैश्या बभूविरे । । १७
तन्मध्ये चाचार्यपृथुर्नाम्ना कश्यपसेवकः ।
तपसा स च तुष्टाव द्वादशाब्दं महामुनिम् । । १८
तदा प्रसन्नो भगवान्कण्वो देववराद्वरः ।
तेषां चकार राजानं राजपुत्रपुरं ददौ । । १९
राजन्या नाम तत्पत्नी मागधं सुषुवे तदा ।
तस्मै कण्वो ददौ ग्रामं पूर्वस्यां दिशि मागधम् । । 3.4.21.२०
स्वर्गलोकं पुनः प्राप्तः स मुनिः कश्यपात्मजः ।
स्वर्गते काश्यपे विप्रे ते म्लेच्छाः शूद्रवर्णकाः । । २१
यज्ञैस्समर्चयामासुर्देवदेवं शचीपतिम् ।
दुःखितो भगवानिन्द्रस्सबन्धुर्जगतीतले । । २२
वेदानाहर्तुमिच्छन्तो ब्रह्मयोनौ बभूविरे ।
जिनो नाम द्विजः कश्चित्तत्पत्नी जयनी स्मृता । । २३
कश्यपाददितेरंशाज्जातौ तौ कीकटस्थले ।
तयोस्सकाशात्सञ्जाता आदित्या लोकहेतवे । । २४
कर्मनाशानदीतीरे पुरी बोधगया स्मृता ।
तत्रोष्य बौद्धशास्त्राढ्याश्चक्रुः शास्त्रार्थमुत्तमम् । । २५
वेदाञ्छूद्रेभ्य आहृत्य विशालां प्रययुः पुरीम् ।
समाधिस्थान्मुनीन्सर्वान्समुत्थाप्य ददुः स्वयम् । । २६
गतास्सर्वे सुरास्स्वर्गे ततः प्रभृतिभूतले ।
म्लेच्छा बभूविरे बौद्धास्तदन्ये वेदतत्पराः । । २७
सरस्वत्याः प्रभावेण त आर्या बहवोऽभवन् ।
तैश्च देवपितृभ्यश्च हव्यं कव्यं समर्पितम् । । २८
तृप्तिमन्तः सुराश्चासंस्त आर्याणां सहस्रकाः ।
सप्तविंशच्छते भूमौ कलौ संवत्सरे गते । । २९
बलिना प्रेषितो भूमौ मयः प्राप्तो महासुरः ।
शाक्यसिंहगुरुर्गेयो बहुमायाप्रवर्तकः । । 3.4.21.३०
स नाम्ना गौतमाचार्यो दैत्यपक्षविवर्द्धकः ।
सर्वतीर्थेषु तेनैव यन्त्राणि स्थापितानि वै । । ३१
तेषामधो गता ये तु बौद्धाश्चासन्समन्ततः ।
शिखासूत्रविहीनाश्च बभूबुर्वर्णसङ्कराः । । ३२
दश कोट्यः स्मृता आर्या बभूवुर्बौद्धमार्गिणः ।
पञ्चलक्षास्तदा शेषाः प्रययुर्गिरिमूर्द्धनि । । ३३
चतुर्वेदप्रभावेण राजन्या वह्निवंशजाः ।
चत्वारिंशभवा योधास्तैश्च बौद्धास्समुज्झिताः । । ३४
आर्यांस्तांस्ते तु संस्कृत्य विन्ध्याद्रेर्दक्षिणे कृतान् ।
तत्रैव स्थापयामासुर्वर्णरूपान्समन्ततः । । ।
आर्यावर्तः पुण्यभूमिस्तत्रस्थाः पञ्चलक्षकाः । । ३५
सूत उवाच
इति श्रुत्वा वचस्तस्य यज्ञांशो भगवान्हरिः । । ३६
जगन्नाथस्य शिष्योभूद्वेदमार्गपरायणः ।
शुक्लदत्तस्य तनयो नित्यानन्दो द्विजोत्तमः । । ३७
जगन्नाथपदं नत्वा शिष्यो भूत्वा रराज ह ।
तदा प्रसन्नो भगवाननिरुद्ध उषापतिः । । ३८
अभिषेकन्तयोर्भाले महत्तत्वे चकार ह ।
महत्त्वपदवी जाता तदा प्रभृतिभूतले । । ३९
गुरुबन्धू प्रसन्नौ तौ स्वशिष्यान्प्रोचतुर्मुदा ।
जगन्नाथस्य वदनं पद्मनाभेरुषापतेः । ।
दृष्ट्वा यश्चात्र सम्प्राप्य स वै स्वर्गमवाप्नुयात् । । 3.4.21.४०
प्रसादं यश्च भुञ्जीयात्तस्य देवस्य सादरम् ।
कोटिजन्म भवेद्विप्रो वेदपात्रो महाधनी । । ४१
मार्कण्डेय वटे कृष्णं दृष्टवा स्नात्वा महोदधौ ।
इन्द्रद्युम्नसरस्येव पुनर्जन्म न विन्दते । । ४२
इमां गाथां शृणोद्यो वै श्रद्धाभक्तिसमन्वितः ।
यत्पुरीगमने पुण्यं फलं तच्छीघ्रमाप्नुयात् । ।४३
इति यज्ञांशवचनं श्रुत्वा स ह्यवतारकः ।
वैष्णवैश्च तथेत्युक्त्वा तत्रैवान्तरधीयत । । ४४
एतस्मिन्नन्तरे विप्र कलिना प्रार्थितो बलिः ।
मयदैत्यं समाहूय वचनं प्राह दुःखितः । । ४५
सुकन्दरो म्लेच्छपतिः सदा मद्वर्द्धने रतः ।
सहायं तस्य दैत्येन्द्र कुरु शीघ्रं ममाज्ञया । । ४६
इति श्रुत्वा बलेर्वाक्यं शतदैत्यसमन्वितः ।
कर्मभूम्यां मयः प्राप्तः कलविद्याविशारदः । । ४७
म्लेच्छजातीन्नरान्दुष्टान्रेखागणितमुत्तमम् ।
एकविंशतिमध्यायं कलवेदमशिक्षयत् । । ४८
तदा कलान्विता म्लेच्छाः कलाविद्याविशारदाः ।
यन्त्राणि कारयामासुः सप्तस्वेव पुरीषु च । । ४९
तदधो ये गतालोकास्ते सर्वे म्लेच्छतां गताः ।
महत्कोलाहलं जातमार्याणां शोककारिणाम् । । 3.4.21.५०
श्रुत्वा ते वैष्णवाः सर्वे कृष्णचैतन्यसेवकाः ।
दिव्यमन्त्रं गुरोश्चैव पठित्वा प्रययुः पुरीम् । । ५१
रामानन्दस्य शिष्यो वै चायोध्यायामुपागतः ।
कृत्वा विलोमं तं मन्त्रं वैष्णवांस्तानकारयत् । । ५२
भाले त्रिशूलचिह्नं च श्वेतरक्तं तदाभवत् ।
कण्ठे च तुलसी माला जिह्वा राममयी कृता । । ५३
म्लेच्छास्ते वैष्णवाश्चासन्रामानन्दप्रभावतः ।
संयोगिनश्च ते ज्ञेया रामानन्दमते स्थिताः । । ५४
आर्याश्च वैष्णवा मुख्या अयोध्यायां बभूविरे ।
निम्बादित्यो गतो धीमान्सशिष्यः काञ्चिकां पुरीम् । ।
म्लेच्छयन्त्रं राजमार्गे स्थितं तत्र ददर्श ह । । ५५
विलोमं स्वगुरोर्मन्त्रं कृत्वा तत्र स चावसत् ।
वंशपत्रसमा रेखा ललाटे कण्ठमालिका । । ५६
गोपीवल्लभमन्त्रो हि मुखे तेषां रराज ह ।
तदधो ये गता लोका वैष्णवाश्च बभूविरे । । ५७
म्लेच्छाः संयोगिनो ज्ञेया आर्यास्तन्मार्गवैष्णवाः ।
विष्णुस्वामी हरिद्वारे जगाम स्वगणैर्वृतः । । ५८
तत्र स्थितं महायन्त्रं विलोमं तच्चकार ह ।
तदधो ये गता लोका आसन्सर्वे च वैष्णवाः । । ५९
ऊर्ध्वपुण्ड्रं द्विरेखाभं तन्मध्ये बिन्दुरुत्तमः ।
ललाटे च स्थितस्तेषां कण्ठे तुलसिगोलकम् । । 3.4.21.६०
मुखे साधवमन्त्रश्च बभूव हितदायकः ।
मथुरायां समायातो मध्वाचार्यो हरिप्रियः । । ६१
राजमार्गे स्थितं यन्त्रं विलोमं स चकार ह ।
तदधो ये गता लोका वैष्णवास्तस्य पक्षगाः । । ६२
करवीरपत्रसदृशं ललाटे तिलकं शुभम् ।
स्थितम् नासार्द्धभागान्ते कण्ठे तुलसि मालिका । ।
राधाकृष्णशुभं नाम मुखे तेषां बभूव ह । । ६३
शङ्कराचार्य एवापि शैवमार्गपरायणः ।
रामानुजाज्ञया प्राप्तः पुरीं काशीं गणैर्युतः । । ६४
कृत्वा विलोमं तद्यन्त्रं शैवाश्च तदधोऽभवन् ।
त्रिपुण्ड्रं च स्थितं भाले कण्ठे रुद्राक्षमालिका । ।
गोविन्दमन्त्रश्च मुखे तेषां तत्र बभूव ह । । ६५
तोतादर्यां च सम्प्राप्तस्तदा रामानुजः सुखी ।
ऊर्ध्वरेखाद्वयोर्मध्ये सूक्ष्मरेखा च पीतिका । ।
ललाटे तु तथा कण्ठे माला तुलसिका शुभा । । ६६
उज्जयिन्यां च सम्प्राप्तो बराहमिहिरो गुणी ।
तद्यन्त्रं निष्फलं कृत्वा नराञ्छैवांश्चकार ह । । ६७
चिताभस्मस्थितं भाले कण्ठे रुद्राक्षमालिका ।
शिवेति मङ्गलं नाम तेषां तत्र बभूव ह । । ६८
कान्यकुब्जे स्वयं प्राप्तो वाणीभूषण एव हि ।
अर्द्धचन्द्राकृतिं पुण्ड्रं रक्तचन्दनमालिका । ।
देव्याश्च निर्मलं नाम तेषां तत्र बभूव ह । । ६९
धन्वन्तरिः प्रयागे च गत्वा तद्यन्त्रमुत्तमम् ।
विलोमं कृतवांस्तत्र तदधो ये गता नराः । । 3.4.21.७०
अर्द्धपुण्ड्रं स्मृतं रक्तं सबिन्दु च ललाटके ।
रक्तचन्दनजा माला कण्ठे तेषां बभूव ह । । ७१
भट्टोजिः स गतो धीमानुत्पलारण्यमुत्तमम् ।
त्रिपुण्ड्रं च तथा रक्तं कण्ठे रुद्राक्षमालिका । ।
विश्वनाथेतितन्मन्त्रं तेषां तत्र बभूव ह । । ७२
रोपणश्चैष्टिकां प्राप्तस्तद्यन्त्रं चैव निष्फलम् ।
कृत्वा जने जने तत्र ब्रह्म मार्गम् ददर्श ह । । ७३
जयदेव स्वयं प्राप्तो द्वारकां विष्णुभक्तिमान् ।
तद्यन्त्रं निष्फलं यातं तदधो ये गता नराः । । ७४
रक्तरेखा स्थिता भाले चैका कण्ठे तु मालिका ।
पद्माक्षा मन्त्रगोविन्दस्तत्र तेषां बभूव ह । ।
एवं ते वैष्णवाः शैवाः शाक्तका बहुधाऽभवन् । । ७५
निर्गुणाः शाक्तका ज्ञेयाः सगुणा वैष्णवाः स्मृताः ।
निर्गुणाः सगुणा ये तु शैवा ज्ञेया बुधैस्तदा । । ७६
समाधिस्थास्त्रयस्त्रिंशद्देवाः पुण्या बभूविरे ।
नित्यानन्दः शान्तिपुरे नदीहापत्तने हरिः । । ७७
कबीरो मागधे देशे रैदासस्तु कलिञ्जरे ।
सधनो नैमिषारण्ये समाधिस्थो बभूव ह । । ७८
अद्यापि संस्थितो विप्र वैष्णवानां गणो महान् ।
यज्ञभागमहावृद्धिः सञ्जाता मेरुमूर्द्धनि । । ७९
इति ते कथितं विप्र यज्ञांशचरितं शुभम् ।
यच्छ्रुत्वा च नरा नार्यो महत्पुण्यमवाप्नुयुः । ।
मयाद्या निष्फला दैत्या बलिपार्श्वमुपागताः । । 3.4.21.८०

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्यचरित्रं नामैकविंशोऽध्यायः । २१