भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

जगन्नाथमाहात्म्यवर्णनम्

सूत उवाच
भट्टोजिस्स च शुद्धात्मा शिवभक्तिपरायणः ।
कृष्णचैतन्यमागम्य नमस्कृत्य वचोऽब्रवीत् । । १
महादेवो गुरुः स वै शिव आत्मा शरीरिणाम् ।
विष्णुर्ब्रह्मा च तद्दासौ तर्हि तत्पूजनेन किम् । । २
इति श्रुत्वा स यज्ञांशो विंशदब्दवयोवृतः ।
विहस्याह स भट्टोजिं नायं शम्भुर्महेश्वरः । । ३
समर्थो भगवाञ्छम्भुः कर्ता किन्न शरीरिणाम् ।
न भर्ता च विना विष्णुं संहर्तायं सदा शिवः । । ४
एकमूर्तिस्त्रिधा जाता ब्रह्मा विष्णुर्महेश्वरः ।
शाक्तमार्गेण भगवान्ब्रह्मा मोक्षप्रदायकः । । ५
विष्णुर्वैष्णवमार्गेण जीवानां मोक्षदायकः ।
शम्भुर्वै शैवमार्गेण मोक्षदाता शरीरिणाम् । । ६
शाक्तः सदाश्रमो गेही यज्ञभुक्पितृदेवगः ।
वानप्रस्थाश्रमी यो वै वैष्णवः कन्दमूलभुक् । । ७
यत्याश्रमः सदा रौद्रौ निर्गुणः शुद्धविग्रहः ।
ब्रह्मचर्याश्रमस्तेषामनुगामी महाश्रमः । । ८
इति श्रुत्वा गुरोर्वाक्यं शिष्यो भूत्वा स वै द्विजः ।
तृतीयाङ्गं च वेदानां व्याचख्यौ पाणिनिकृतम् । । ९
तदाज्ञया च सिद्धान्तकौमुद्यास्स चकार ह ।
तत्रोष्य दीक्षितो धीमान्कृष्णचैतन्यसेवकः । । 3.4.20.१०
सूत उवाच
वराहमिहिरो धीमान्स च सूर्यपरायणः ।
द्वाविंशाब्दे च यज्ञांशे तमागत्य वचोऽब्रवीत् । । ११
सूर्योऽयं भगवात्साक्षात्त्रयो देवा यतोऽभवन् ।
प्रातर्ब्रह्मा च मध्याह्ने विष्णुः सायं सदाशिवः । । १२
अतो रवेः शुभा पूजा त्रिदेवयजनेन किम् ।
इति श्रुत्वा स यज्ञांशो विहस्याह शुभं वचः । । १३
द्विधा बभूव प्रकृतिरपरा च परा तथा ।
नाममात्रा तथा पुष्पमात्रा तन्मात्रिका तथा । । १४
शब्दमात्रा स्पर्शमात्रा रूपमात्रा रसा तथा ।
गंधमात्रा तथा ज्ञेया परा प्रकृतिरष्टधा । । १५
अपरायां जीवभूता नित्यशुद्धा जगन्मयी ।
भूमिरापोऽनलो वायुः खं मनोबुद्धिरेव च । ।
अहङ्कार इति ज्ञेया प्रकृतिश्चापराष्टधा । । १६
विष्णुर्ब्रह्मा महादेवो गणेशो यमराड् गुहः ।
कुबेरो विश्वकर्मा च परा प्रकृतिदेवता । । १७
सुमेरुर्वरुणो वह्निर्वायुश्चैव ध्रुवस्तथा ।
सोमो रविस्तथा शेषोऽपरा प्रकृतिदेवता । । १८
अतः सोमपती रुद्रो रविः स्वामी विधिः स्वयम् ।
शेषस्वामी हरिः साक्षान्नमस्तेभ्यो नमो नमः । । १९
इति श्रुत्वा तदा विप्रः शिष्यो भूत्वा च तद्गुरोः ।
तदाज्ञया चतुर्थाङ्गं ज्योतिःशास्त्रं चकार ह । । 3.4.20.२०
वराहसंहिता नाम बृहज्जातकमेव हि ।
क्षुद्रतन्त्रांस्तथान्यान्वै कृत्वा तत्र स चावसत् । । २१
सूत उवाच
वाणीभूषण एवापि शिवभक्तिपरायणः ।
कृष्णचैतन्यमागम्य वचः प्राह विनम्रधीः । । २२
विष्णुमाया जगद्धात्री सैका प्रकृतिरुत्कृता ।
तया जातमिदं विश्वं विश्वाद्देवसमुद्भवः । । २३
विश्वेदेवस्स पुरुषश्शक्तिजो बहुधाभवत् ।
ब्रह्मा विष्णुर्हरश्चैव देवाः प्रकृतिसम्भवाः । ।
अतो भगवती पूज्या तर्हि तत्पूजनेन किम् । । २४
इति श्रुत्वा स यज्ञांशो विहस्याह द्विजोत्तमम् ।
न वै भगवती श्रेष्ठा जडरूपा गुणात्मिका । । २५
एका सा प्रकृतिर्माया रचितुर्जगतां क्षमा ।
पुरुषस्य सहायेन योषितेव नरस्य च । । २६
देवीभागवते शास्त्रे प्रसिद्धेयं कथा द्विज ।
कदाचित्प्रकृतिर्देवी स्वेच्छयेदं जगत्खलु । । २७
निर्मितं जडभूतं तद्बहुधा बोधितं तदा ।
न चैतन्यमभूद्विप्रा विस्मिता प्रकृतिस्तदा । । २८
शून्यभूतं च पुरुषं चैतन्यं समतोषयत् ।
प्रविष्टो भगवान्देवीमायाजनितगोलके । । २९
स्वप्नवद्वा स्वयं जातश्चैतन्यमभवज्जगत् ।
अतः श्रेष्ठः स भगवान्पुरुषो निर्गुणः परः । । 3.4.20.३०
प्रकृत्यां स्वेच्छया जातो लिङ्गरूपस्तदाऽभवत् ।
पुँल्लिङ्गप्रकृतौ जातः पुँल्लिङ्गोऽयं सनातनः । । ३१
स्त्रील्लिङ्गप्रकृतौ जातः स्त्रील्लिङ्गोऽयं सनातनः ।
नपुंस्कप्रकृतौ जातः क्लीबरूपः स वै प्रभुः । । ३२
अव्ययप्रकृतौ जातौ निर्गुणोऽयमधोक्षजः ।
नमस्तस्मै भगवते शून्यरूपाय साक्षिणे । । ३३
इति श्रुत्वा तु तद्वाक्यं शिष्यो भूत्वा स वै द्विजः ।
त्रिविंशाब्दे च यज्ञांशे तत्र वासमकारयत् । । ३ ४
छन्दोग्रन्थं तु वेदाङ्गं स्वनाम्ना तेन निर्मितम् ।
राधाकृष्णपरं नाम जप्त्वा हर्षमवाप्तवान् । । ३५
सूत उवाच
धन्वन्तरिर्द्विजो नाम ब्रह्मभक्तिपरायणः ।
कृष्णचैतन्यमागम्य नत्वा वचनमब्रवीत् । । ३६
भवांस्तु पुरुषः श्रेष्ठो नित्यशुद्धस्सनातनः ।
जडभूता च तन्माया समर्थो भगवान्स्वयम् । । ३७
नित्योऽव्यक्तः परः सूक्ष्मस्तस्मात्प्रकृतिरुद्भवः ।
अतः पूज्यस्स भगवान्प्रकृत्याः पूजनेन किम् । । ३८
इति श्रुत्वा विहस्याह यज्ञांशस्सर्वशास्त्रगः ।
नायं श्रेष्ठस्स पुरुषो न क्षमः प्रकृतिं विना । । ३९
पुराणे चैव वाराहे प्रसिद्धेयं कथा शुभा ।
कदाचित्पुरुषो नित्यो नाममात्रः स्वकेच्छया । ।
बभूव बहुधा तत्र यथा प्रेतस्तथा स्वयम् । । 3.4.20.४०
असमर्थो विरचितुं जगन्ति पुरुषः परः ।
तुष्टाव प्रकृतिं देवीं चिरकालं सनातनीम् । । ४१
तदा देवी च तं प्राप्य महत्तत्वं चकार ह ।
सोऽहङ्कारश्च महतो जातस्तन्मात्रिकास्ततः । । ४२
महाभूतान्यतोऽप्यासंस्तैः सञ्जातमिदं जगत् । । ४३
अतस्सनातनौ चोभौ पुरुषात्प्रकृतिः परा ।
प्रकृतेः पुरुषश्चैव तस्मात्ताभ्यां नमो नमः । । ४४
इति धन्वन्तरिः श्रुत्वा शिष्यो भूत्वा च तद्गुरोः ।
तत्रोष्य चैव वेदाङ्गं कल्पवेदं चकार ह । ।
सुश्रुतादपरे चापि शिष्या धन्वन्तरेः स्मृतः । । ४५
सूत उवाच
जयदेवस्स वै विप्रो बौद्धमार्गपरायणः ।
कृष्णचैतन्यमागम्य पञ्चविंशवयोवृतम् । ।
नत्वोवाच वचो रम्यं स च श्रेष्ठ उषापतिः । । ४६
यस्य नाभेरभूत्पद्मं ब्रह्मणा सह निर्गतम् ।
अतस्स ब्रह्मसूर्नाम सामवेदेषु गीयते । । ४७
विश्वो नारायणस्साक्षाद्यस्य केतौ समास्थितः ।
विश्व केतुरतो नाम न निरुद्धोऽनिरुद्धकः । । ४८
ब्रह्मवेला च तत्पत्नी नित्या चोषा महोत्तमा ।
स वै लोकहितार्थाय स्वयमर्चावतारकः । । ४९
इति श्रुत्वा विहस्याह यज्ञांशस्तं द्विजोत्तमम् ।
वेदो नारायणः साक्षात्पूजनीयो नरः सदा । । 3.4.20.५०
ततः कालस्ततः कर्म ततो धर्मः प्रवर्तते ।
धर्मात्मकामः समुद्भूतः कामपत्नी रतिः स्वयम् । । ५१
रत्यां कामात्समुद्भूतोऽनिरुद्धो नामदेवता ।
उषा सा तस्य भगिनी तेन सार्द्धं समुद्भवा । । ५२
कालो नाम स वै कृष्णो राधा तस्य सहोदरा ।
कर्मरूपः स वै ब्रह्मा नियतिस्तत्सहोदरा । । ५३
धर्मरूपो महादेवः श्रद्धा तस्य सहोदरा ।
अनिरुद्धः कथं चेशो भवतोक्तः सनातनः । । ५४
त्रिधा सृष्टिश्च ब्रह्माण्डे स्थूला सूक्ष्मा च कारणा ।
स्थूलसृष्ट्यै समुद्भूतो देवो नारायणः स्वयम् । । ५५
नारायणी च तच्छक्तिस्तयोर्जलसमुद्भवः ।
जलाज्जातस्स वै शेषस्तस्योपरि समास्थितौ । । ५६
सुप्ते नारायणे देवे नाभेः पङ्कजमुत्तमम् ।
अनन्तयोजनायाममुदभूच्च ततो विधिः । । ५७
विधेः स्थूलमयी सृष्टिर्देवतिर्य्यङ्नरादिका ।
सूक्ष्मसृष्ट्यै समुद्भूतः सोऽनिरुद्ध उषापतिः । । ५८
ततो वीर्यमयं तोयं जातं ब्रह्माण्डमस्तके ।
वीर्याज्जातस्स वै शेषस्तस्योपरि स चास्थितः । । ५९
तस्य नाभेस्समुद्भूतो ब्रह्मा लोकपितामहः ।
सूक्ष्मसृष्टिस्ततो जाता यथा स्वप्नेऽपि दृश्यते । । 3.4.20.६०
हेतुसृष्ट्यै समुद्भूतो वेदा नारायणः स्वयम् ।
वेदात्कालस्ततः कर्म ततो धर्मादयः स्मृताः । । ६१
त्वद्गुरुश्च जगन्नाथ उड्रदेशनिवासकः ।
मया तत्रैव गन्तव्यं सशिष्येणाद्य भो द्विजाः । । ६२
इति श्रुत्वा तु वचनं कृष्णचैतन्यकिङ्कराः ।
स्वान्स्वाञ्छिष्यान्समाहूय तत्पश्चात्प्रययुश्च ते । । ६३
शाङ्करा द्वादशगणा रामानुजमुपाययुः ।
नामदेवादयस्तत्र गणास्सप्त समागताः । । ६४
रामानन्दं नमस्कृत्य संस्थितास्तस्य सेवका ।
रोपणश्च तदागत्य स्वशिष्यैर्बहुभिर्वृतः । । ६५
कृष्णचैतन्यमागम्य नमस्कृत्य स्थितः स्वयम् ।
जगन्नाथपुरीं ते वै प्रययुर्भक्तितत्पराः । । ६६
निधयः सिद्धयस्तत्र तेषां सेवार्थमागताः ।
सर्वे च दशसाहस्रा वैष्णवाः शैवशाक्तकैः । । ६७
यज्ञांशं च पुरस्कृत्य जगन्नाथपुरीं ययुः ।
अर्चावतारो भगवाननिरुद्ध उषापतिः । । ६८
तदागमनमालोक्य द्विजरूपधरो मुनिः ।
जगन्नाथः स्वयं प्राप्तो यत्र यज्ञांशकादयः । । ६९
यज्ञांशस्तं समालोक्य नत्वा वचनमब्रवीत् ।
किं मतं भवता ज्ञातं कलौ प्राप्ते भयानके । । 3.4.20.७०
तत्सर्वं कृपया ब्रूहि श्रोतुमिच्छामि तत्त्वतः ।
इति श्रुत्वा तु वचनं जगन्नाथो हरिः स्वयम् । ।
उवाच वचनं रम्यं लोकमङ्गलहेतवे । । ७१
मिश्रदेशोद्भवा म्लेच्छाः काश्यपेनैव शासिताः ।
संस्कृता शूद्रवर्णेन ब्रह्मवर्णमुपागताः । । ७२
शिखासूत्रं समाधाय पठित्वा वेदमुत्तमम् ।
यज्ञैश्च पूजयामासुर्देवदेवं शचीपतिम् । । ७३
दुःखितो भगवानिन्द्रः श्वेतद्वीपमुपागतः ।
स्तुत्या मां बोधयामास देवमङ्गलहेतवे । । ७४
प्रबुद्धं मां वचः प्राह शृणु देव दयानिधे ।
शूद्रसंस्कृतमन्नं च खादितुं न द्विजोऽर्हति । । ७५
तथा च शूद्रजनितैर्यज्ञैस्तृप्तिं न चाप्नुयाम् ।
काश्यपे स्वर्गते प्राप्ते मागधे राज्ञि शासति । । ७६
मम शत्रुर्बलिर्दैत्यः कलिपक्षमुपागतः ।
निस्तेजाश्च यथाऽहं स्यां तथा वै कर्तुमुद्यतः । । ७७
मिश्रदेशोद्भवे म्लेच्छे सांस्कृती तेन संस्कृता ।
भाषा देवविनाशाय दैत्यानां वर्द्धनाय च । । ७८
आर्य्येषु प्राकृती भाषा दूषिता तेन वै कृता ।
अतो मां रक्ष भगवन्भवन्तं शरणागतम् । । ७९
इति श्रुत्वा तदाहं वै देवराजमुवाच ह ।
भवन्तो द्वादशादित्या गन्तुमर्हन्ति भूतले । । 3.4.20.८०
अहं लोकहितार्थाय जनिष्यामि कलौ युगे ।
प्रवीणो निपुणोऽभिज्ञः कुशलश्च कृती सुखी । । ८१
निष्णातः शिक्षितश्चैव सर्वज्ञः सुगतस्तथा ।
प्रबुद्धश्च तथा बुद्ध आदित्याः क्रमतो भवाः १ । । ८२
धाता मित्रोऽर्यमा शक्रो मेघः प्रांशुर्भगस्तथा ।
विवस्वांश्च तथा पूषा सविता त्वाष्ट्रविष्णुकौ । ।
कीकटे देश आगत्य ते सुरा जज्ञिरे क्रमात् । । ८३
वेदनिन्दां पुरस्कृत्य बौद्धशास्त्रमचीकरन् ।
तेभ्यो वेदान्समादाय मुनिभ्यः प्रददुस्सुराः । । ८४
वेदनिन्दाप्रभावेण ते सुराः कुष्ठिनोऽभवन् ।
विष्णुदेवमुपागम्य तुष्टुवुर्बौद्धरूपिणम् । । ८५
हरिर्योगबलेनैव तेषां कुष्ठमनाशयत् ।
तद्दोषान्नग्नभूतश्च बौद्धस्स तेजसाऽभवत् । । ८६
पूर्वार्द्धान्नेमिनाथश्च परार्द्धाद्बौद्ध एव च ।
बौद्धराज्यविनाशाय दारुपाषाणरूपवान् । । ८७
अहं सिन्धुतटे जातो लोकमङ्गलहेतवे ।
इन्द्रद्युम्नश्च नृपतिः स्वर्गलोकादुपागतः । ।
मन्दिरं रचितं तेन तत्राहं समुपागतः । । ८८
अत्र स्थितश्च यज्ञांशप्रसादमहिमा महान् ।
सर्ववाञ्छितदं लोके स्थापयामास मोक्षदम् । । ८९
वर्णधर्मश्च नैवात्र वेदधर्मस्तथा न हि ।
व्रतं चात्र न यज्ञांशमण्डले योजनान्तरे । । 3.4.20.९०
येनोक्ता यावनी भाषा येन बौद्धो विलोकितः ।
तस्य प्राप्तं महत्पापं स्थितोऽहं तदघापहः । ।
मां विलोक्य नरः शुद्धः कलिकाले भविष्यति । । ९१

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्यचरित्रे जगन्नाथमाहात्म्यवर्णनं नाम विंशोऽध्यायः । २०