भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search

विष्णुस्वामीमध्वाचार्यवर्णनम्

सूत उवाच
इत्युक्त्वा भगवाञ्जीवो देवमाहात्म्यमुत्तमम् ।
स्वमुखात्स्वांशमुत्पाद्य ब्रह्मयोनौ बभूव ह । । १
इष्टिका नगरी रम्या गुरुदत्तस्य वै सुतः ।
रोपणो नाम विख्यातो ब्रह्ममार्गप्रदर्शकः । । २
सूत्रग्रन्थमयीं मालां तिलकं जलनिर्मितम् ।
वासुदेवेति तन्मन्त्रे कलौ कृत्वा जनेजने । । ३
कृष्णचैतन्यमागम्य कम्बलं च तदाज्ञया ।
गृहीत्वा स्वपुरीं प्राप्य कृष्णध्यानपरोभवत् । । ४
अतः परं शृणु मुने चरित्रं च हरेर्मुदा ।
यच्छ्रुत्वा च कलौ घोरे जनो नैव भयं व्रजेत् । । ५
पञ्चाब्दे कृष्णचैतन्ये यज्ञांशे यज्ञकारिणि ।
वङ्गदेशभवो विप्र ईश्वरः शारदाप्रियः । । ६
प्राप्तः शान्तिपुरे ग्रामे वाग्देवीवरदर्पितः ।
सतां दिग्विजयं कृत्वा सर्वशास्त्रविशारदः । । ७
गङ्गाकूले स्तवं दिव्यं रचित्वा १ सोऽपठद्द्विजः ।
एतस्मिन्नन्तरे तत्र यज्ञांशस्समुपागतः । ।
उवाच वचनं रम्यमीश्वरं स्तुतिकारिणम् । । ८
सुकृतं पूर्तमर्णं च श्रुतीनां सारमेव हि ।
इत्युक्तं भवता स्तोत्रे दूषणं भूषणं वद । । ९
तथाह चेश्वरो धीमान्दूषणं नैव दृश्यते ।
इत्युक्त्या प्राह भगवान्भूषणं नैव दृश्यते । । 3.4.19.१०
सुकृतं च स्मृतं धर्मः पूर्तं चैतन्यमुच्यते ।
अर्णं वीर्यमिति ज्ञेयं श्रुतिसारमतस्त्रयम् । ।
गङ्गाजले दूषणोऽयं भूषणोऽयं कलेवरे ११
इति श्रुत्वा स वै भिक्षुर्विस्मितोऽभूच्च गीः प्रियः ।
लज्जितं स्वजनं दृष्ट्वा शारदा सर्वमङ्गला । ।
विहस्येश्वरमित्याह कृष्णश्चैतन्यसंज्ञकः । । १२
इति श्रुत्वा तु तच्छिष्यः कृष्णमन्त्रउपासकः ।
बभूव वैष्णवश्रेष्ठः कृष्णचैतन्यसेवकः । । १३
सूत उवाच
श्रीधरो नाम विख्यातो ब्राह्मणः शिवपूजकः ।
पत्तने नगरे रम्ये तस्य सप्ताहमुत्तमम् । । १४
राज्ञा भागवतं तत्र कारितं सधनं बहु ।
गृहीत्वा श्रीधरो विप्रो जगाम श्वशुरालये । । १५
तत्रोष्य मासमात्रं च स्वपत्न्या सह वै द्विजः ।
स्वगेहमगमन्मार्गे चौराः सप्त तु तं प्रति ।
शपथं रामदेवस्य कृत्वा सार्द्धमुपाययुः । । १६
समाप्ते विपिने रम्ये हत्वा ते श्रीधरं द्विजम् ।
गोरथं सधनं तत्र सभार्यं जगृहुस्तदा । । १७
एतस्मिन्नन्तरे रामः सच्चिदानन्दविग्रहः ।
सप्त तांश्च शरैर्हत्वा पुनरुज्जीव्य तं द्विजम् । । १८
प्रेषयामास भगवांस्तदा वृन्दावने प्रभुः ।
तदा प्रभृति वै विप्रः श्रीधरो वैष्णवोऽभवत् । । १९
सप्ताब्दे चैव यज्ञांशे गत्वा शान्तिपुरीं शुभाम् ।
ब्रह्मज्ञानमुपागम्य यज्ञांशाच्छिष्यतां गतः । ।
टीका भागवतस्यैव कृता तेन महात्मना । । 3.4.19.२०
सूत उवाच
रामशर्मा स्थितः काश्यां शङ्करार्चनतत्परः ।
शिवरात्रे द्विजो धीमानविमुक्तेश्वरस्थले । ।
एकाकी जागरन्ध्यानी जप्त्वा पञ्चाक्षरं शुभम् । । २१
तदा प्रसन्नो भगवाञ्छङ्करो लोकशङ्करः ।
वरं ब्रूहीति वचनं तमाह द्विजसत्तमम् । । २२
रामशर्मा शिवं नत्वा वचनं प्राह नम्रधीः ।
भवान्यस्य समाधिस्थो ध्याने यस्य परो भवान् । । २३
स देवो हृदये मह्यं वसेत्तव वरात्प्रभो ।
इत्युक्तवचने तस्मिन्विहस्याह महेश्वरः । । २४
एका वै प्रकृतिर्माया त्रिधा ब्रह्मस्वरूपिणी ।
शून्यभूताव्यवस्यैव पुरुषस्यार्द्धतैजसम् । ।
गृहीत्वा लोकजननी पुंक्लीबौ सुषुवे सुतौ । । २५
पुमान्नारायणः साक्षाद्गौरश्चाष्टभुजैर्युतः ।
त्रिधा बभूव भगवान्स्वेच्छया विश्वरक्षकः । । २६
अर्धतेजास्स वै विष्णुर्वनमाली चतुर्भुजः ।
क्षीरशायी स आदित्यः स्वयं सद्गुणदेवता । । २७
अर्धतेजा द्विधा सैव नरनारायणावृषी ।
जिष्णुर्विष्णुः स वै ज्ञेयो पर्वते गन्धमादने । । २८
क्लीबः सङ्कर्षणः साक्षाद्ब्रह्मरूपं त्रिधाभवत् ।
पूर्वार्द्धाद्गौरशेषश्च परार्धाद्रामलक्ष्मणौ । । २९
गौरशेषो द्वापरान्ते बलभद्रः स वै स्वयम् ।
रामलक्ष्मणयोर्ध्यानं बलभद्रस्य पूजनम् । ।
सदा मया च कर्तव्यं तत्प्राप्य त्वं सुखी भव । । 3.4.19.३०
इत्युक्त्वान्तर्दधे देवो रामानन्दस्य चाभवत् ।
कृष्णचैतन्यमागम्य द्वादशाब्दवयोवृतम् । । ३१
शिष्यो भूत्वा स्थितस्तत्र कृष्णचैतन्यपूजकः ।
कृतं तदाज्ञया तेनाध्यात्मरामायणं शुभम् । । ३२
सूत उवाच
जीवानन्दस्स वै विप्रो रूपानन्दसमन्वितः ।
श्रुत्वा चैतन्यचरितं पुरीं शान्तिमयीं गतः । । ३३
चैतन्ये षोडशाब्दे च नत्वा तं तौ समास्थितौ ।
ऊचतुः कृष्णचैतन्यं भवता किं मतं स्मृतम् । । ३४
विहस्याह स चैतन्यः शाक्तोऽहं शक्तिपूजकः ।
शैवोऽहं वै द्विजौ १ नित्यं लोकार्थे शङ्करव्रती । ।
वैष्णवोऽहं ध्यानपरो देवदेवस्य भक्तिमान् । । ३५
अहं भक्तिमदं पीत्वा पापपुंसो बलिं शुभम् ।
शक्त्यै समर्प्य होमान्ते ज्ञानाग्नौ यज्ञतत्परः । । ३६
इति श्रुत्वा द्विजौ तौ तु तस्य शिष्यत्वमागतौ ।
आचारमार्गमागम्य सर्वपूज्यौ बभूवतुः । । ३७
तदाज्ञया षट्सन्दर्भं जीवानन्दश्चकार वै ।
उवास तत्र मतिमान्कृष्णचैतन्यसेवकः । । ३८
रूपानन्दो गुरोराज्ञां पुरस्कृत्य महामुनिः ।
कृष्णखण्डं पुराणाङ्गं चक्रे दशसहस्रकम् । ।
तत्रोष्य गुरुसेवाढ्यो राधाकृष्ण प्रपूजकः । । ३९
सूत उवाच
विष्णुस्वामी स वै विप्रो गतः शान्तिपुरीं शुभाम् ।
यज्ञांश ऊनविंशाब्दे नत्वा तं प्राह स द्विजः । । 3.4.19.४०
को देवः सर्वदेवानां पूज्यो ब्रह्माण्डगोचरे ।
इति श्रुत्वा स भगवानुवाच द्विजसत्तमम् । । ४१
सर्वपूज्यो महादेवो भक्तानुग्रहकारकः ।
विष्ण्वीश्वरश्च रुद्रेशो ब्रह्मेशो भगवान्हरः । । ४२
विना तत्पूजकेनैव पदार्था निष्फला हि ते ।
ये तु वै विष्णुभक्ताश्च शङ्करार्चनतत्पराः । । ४३
शिवप्रसादात्सुलभा वैष्णवी भक्तिरुत्तमा ।
वैष्णवः पुरुषो भूत्वा शङ्करं लोकशङ्करम् । । ४४
कर्मभूम्यां समागम्य न पूजयति नारकः ।
विष्णुस्वामीति तच्छ्रुत्वा शिष्यो भूत्वा च तद्गुणैः । । ४५
कृष्णमन्त्रमुपासित्वा १ स बभूव शिवार्चकः । । ४६
वैष्णवी संहिता तेन निर्मिता च तदाज्ञया ।
तत्रोष्य विष्णुभक्तश्च कृष्णचैतन्यपूजकः । । ४७
सूत उवाच
मध्वाचार्यः कृष्णपरो ज्ञात्वा यज्ञांशमुत्तमम् ।
गत्वा शान्तिपुरीं रम्यां नत्वा तं प्राह स द्विजः । । ४८
कृष्णोऽयं भगवान्साक्षात्तदन्ये विश्वकारकाः ।
देवा धात्रादयो ज्ञेयास्तर्हि तत्पूजनेन किम् । । ४९
शक्तिमार्गपरा विप्रा वृथा हिंसामयैर्मखैः ।
अश्वमेधादिभिर्देवान्पूजयन्ति महीतले । 3.4.19.५०
इति श्रुत्वा विहस्याह यज्ञांशश्च शचीसुतः ।
न कृष्णो भगवान्साक्षात्तामसोऽयं च शक्तिजः । । ५१
चौरोऽयं सर्वभोगी च हिंसको मांसभक्षकः ।
परस्त्रियं भजेद्यो वै स गच्छेद्यममन्दिरम् । । ५२
चौरो यमालयं गच्छेज्जीवहन्ता विशेषतः ।
एभिश्च लक्षणैर्हीनो भगवान्प्रकृतेः परः । । ५३
यस्य बुद्धिः स वै ब्रह्माऽहङ्कारो यस्य वै शिवः ।
शब्दमात्रा गणेशश्च स्पर्शमात्रा यमः स्वयम् । । ५४
रूपमात्रा कुमारो वै रसमात्रा च यक्षराट् ।
गन्धमात्रा विश्वकर्मा श्रवणं भगवाच्छनिः । । ५५
यस्य त्वक्स बुधो ज्ञेयश्चक्षुस्सूर्यः सनातनः ।
यज्जित्वा भगवाञ्छुक्रो घ्राणस्तस्याश्विनीसुतौ । । ५६
यन्मुखं भगवाञ्जीवो यस्य हस्तस्तु देवराट् ।
कृष्णोऽयं तस्य चरणौ लिङ्गं दक्षः प्रजापतिः । ।
गुदं तद्भगवान्मृत्युस्तस्मै भगवते नमः । । ५७
हिंसायज्ञैश्च भगवान्स च तृप्तिमवाप्नुयात् ।
स च यज्ञपशुर्वह्नौ ब्रह्मभूयाय कल्पते । ।
तस्य मोक्षप्रभावेन महत्पुण्यमवाप्नुयात् । । ५८
विधिहीनो नरः पापी हिंसायज्ञं करोति यः ।
अन्धतामिस्रनरकं तद्दोषेण वसेच्चिरम् । । ५९
महत्पुण्यं महत्पापं हिंसायज्ञेषु वर्तते ।
अतस्तु भगवान्कृष्णो हिंसायज्ञं कलौ युगे । । 3.4.19.६०
समाप्य कार्तिके मासि प्रतिपच्छुक्लपक्षके ।
अन्नकूटमयं यज्ञं स्थापयामास भूतले । । ६१
देवराजस्तदा क्रुद्धो ह्यनुजं प्रति दुःखितः ।
वज्रं सप्लावयामास तदा कृष्णः सनातनीम् । ।
प्रकृतिं स च तुष्टाव लोकमङ्गलहेतवे । । ६२
तदा सा प्रकृतिर्माता स्वपूर्वाद्दिव्यविग्रहम् ।
राधारूपं महत्कृत्वा हदि कृष्णस्य चागता । । ६३
तच्छक्त्या भगवान्कृष्णो धृत्वा गोवर्धनं गिरिम् ।
नाम्ना गिरिधरो देवः सर्वपूज्यो बभूव ह । । ६४
राधाकृष्णस्स भगवान्पूर्णब्रह्म सनातनः ।
अतः कृष्णो न भगवान्राधाकृष्णः परः प्रभुः । । ६५
इति श्रुत्वा वचस्तस्य मध्वाचार्यो हरिप्रियः ।
शिष्यो भूत्वा स्थितस्तत्र कृष्णचैतन्यपूजकः । । ६६

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्ययज्ञांशशिष्यबलभद्रविष्णुस्वामिमध्वाचार्यादिवृत्तान्तवर्णनं नामैकोनविंशोऽध्यायः । १९