भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १७

विकिस्रोतः तः

।। बृहस्पतिरुवाच ।। ।।
दितिपुत्रौ महाघोरौ विष्णुना प्रभविष्णुना ।।
संहतौ तु दितिर्ज्ञात्वा कश्यपं समपूजयत्।। १ ।।
द्वादशाब्दांतरे स्वामी कश्यपो भगवानृषिः ।।
उवाच पत्नीं स हि तां वरं ब्रूहि वरानने ।।
सा तु श्रुत्वा नमस्कृत्य वचनं प्राह हर्षिता ।। २ ।।
अदितिर्मम या देवी सपत्नी पुत्रसंयुता ।।
द्वादशतनयास्तस्या मम द्वौ तनयौ स्मृतौ ।। ३ ।।
तदवर्यसुते नैव विष्णुना सुरपालिना ।।
विनाशितौ सुतौ घोरौ ततोऽहं भृशदुःखिता ।। ४ ।।
देहि मे तनयं स्वामिन्द्वादशादित्यनाशनम् ।।
इति श्रुत्वा वचो घोरं दितिं प्राह सुदुःखितः ।। ५ ।।
ब्रह्मणा निर्मितौ लोके धर्माधर्मौ परापरौ ।।
धर्मपक्षास्तु ये लोके नरास्ते ब्रह्मणः प्रियाः ।। ६ ।।
अधर्मपक्षास्तु नरा वैरिणस्तस्य धीमतः ।।
अधर्मपक्षौ तनयौ तस्मान्मृत्युमुपागतौ ।। ७ ।।
अतो धर्मप्रिये शुद्धं कुरु तस्मान्महाबलः ।।
भविष्यति सुतो धीमाँश्चिरजीवी तव प्रियः।। ८ ।।
इति श्रुत्वा दितिर्देवी कश्यपाद्गर्भमुत्तमम् ।।
संप्राप्य सा शुभाचारा बभूव व्रतधारिणी ।। ९ ।।
तस्या गर्भगते पुत्रे महेन्द्रश्च भयान्वितः ।।
दासभूतः स्थितो गेहे स दितेराज्ञया गुरोः ।। 3.4.17.१० ।।
सप्तमासि स्थिते गर्भे शक्रमायाविमोहिता ।।
अशुचिश्च दितिर्देवी सुष्वाप निजमंदिरे ।। ११ ।।
अंगुष्ठमात्रो भगवान्महेन्द्रो वज्रसंयुतः ।।
कुक्षिमध्ये समागम्य चक्रे गर्भं स सप्तधा ।। १२ ।।
जीवभूतानतिबलान्दृष्ट्वा सप्त महारिपून्।।
एकैकः सप्तधा तेन महेन्द्रेण तदा कृतः ।। १३ ।।
नम्रीभूतश्च तान्दृष्ट्वा महेन्द्रस्तैः समन्वितः ।।
योनि द्वारेण चागम्य प्रणनाम तदा दितिम् ।। १४ ।।
प्रसन्ना सा दितिर्देवान्महेन्द्राय च तान्ददौ ।।
मरुद्गणाश्च ते सर्वे विख्याताः शक्रसेवकाः ।।१५।।।
स तु पूर्वभवे जातो ब्राह्मणो लोकविश्रुतः ।।
इलो नाम स वेदज्ञो यथेलो नृपतिस्तदा ।। १६ ।।
एकदा बलवान्राजा मनुपुत्र इलः स्वयम्।।
एकाकी हयमारुह्य मेरोर्विपिनमाययौ ।। १७ ।।
मेरोरधः स्थितः खण्डः स्वर्णगर्भो हरिप्रियः ।।
निवासं कृतवाँस्तत्र कृत्वा राष्ट्रं महोत्तमम् ।। ।। १८ ।।
इलेनावृतमेवापि कृतं तत्र स्थले सुराः ।।
इलावृतमिति ख्यातः खण्डोऽभूद्विबुधप्रियः ।। १९ ।।
भारते ये स्थिता लोका इलावृतमुपागताः ।।
मेरुर्गिरिर्वृक्षमयो विधात्रा निर्मितो हि सः ।। 3.4.17.२० ।।
आरोहणं नरैस्तस्मित्कृतं स्वर्णमयं शुभम् ।।
तमारुह्य क्रमाल्लोकः स्वर्गलोकमुपागतः ।।२१ ।।
तान्दृष्ट्वा मनुजान्प्राप्तान्सदेहान्स्वर्गमण्डले ।।
विस्मिताश्च सुरास्सर्वे महेशं शरणं ययुः ।। २२ ।।
ज्ञात्वा स भगवान्रुद्रो भवान्या सह शंकरः ।।
इलावृतवने रम्ये स रेमे च तया सह ।। २३ ।।
एतस्मिन्नन्तरे प्राप्तो वैवस्वतसुतो महान् ।।
इलोनाम महाप्राज्ञो मृगयार्थी सदाशिवम् ।। २४ ।।
नग्नभूतं समालोक्य नेत्रे संमील्य संस्थितः ।।
लज्जितां गिरिजां दृष्ट्वा शशाप भग वान्हरः ।। २५ ।।
अस्मिन्खण्डे सदा नार्यो भविष्यंति च मां विना ।।
इत्युक्ता वचनं तस्मिन्नार्यस्सर्वा बभूविरे ।। २६ ।।
इला बभूव नृपते कन्या जनमनोहरा ।।
बहुकालं मेरुशृंगे महत्तपमचीकरत् ।। २७ ।।
इलासमाधिभूतायाः सप्तविंशच्चतुर्युगम् ।।
जातं तत इला कन्या त्रेतामध्ये तु चन्द्रजम् ।।
बुधं देवं पतिं कृत्वा चंद्रवंशमजीजनत् ।। २८ ।।
अयोध्याधिपतिः श्रीमान्यदेलावृतमागतः ।।
तस्य राज्ञी मदवती नाम्ना तुष्टाव पार्वतीम् ।। २९ ।।
तदा प्राप्त इलो विप्रस्तस्या रूपेण मोहितः ।।
पस्पर्श तां मदवतीं राज्ञीं कामविमोहितः ।। 3.4.17.३० ।।
एतस्मिन्नंतरे तत्र वागुवा चाशरीरिणी ।।
इलो नायं द्विजश्चायं तव रूपविमोहितः ।। ३१ ।।
अनिलो नाम तत्रैव विख्यातोऽभूद्द्विजस्य वै ।।
कामाग्निपीडितो विप्रस्स तुष्टाव च पावकम् ।। ३२ ।।
छित्त्वाछित्त्वा शिरो रम्यं तस्मै जातं पुनः पुनः ।।
दत्त्वा तुष्टाव तं देवं प्रसन्नोऽभूद्धनंजयः ।। ३३ ।।
प्राह त्वमूनपंचा शद्विभेदाञ्जनयिष्यसि ।।
तथाहं मित्रवान्भूत्वा तत्संख्यस्तव कामदः ।। ३४ ।।
यथा कुबेरो भगवान्षड्विंशद्वरुणप्रियः ।।
तथाहमूनपंचाशद्विभेदस्तव वै सखा ।।३५।।
इत्युक्ते वचने तस्मिन्दितिकुक्षौ द्विजोत्तमः ।।
वायुर्नाम स वै जातः पावकस्य प्रियस्सखा ।।३६।।
।। सूत उवाच ।। ।।
इति श्रुत्वा गुरोर्वाक्यं वैश्यजात्यां समुद्भवः ।।
धान्यपालस्य वै गेहे मृलगंडान्तजः सुतः ।।
पितृमातृपरित्यक्तः काश्यां विंध्यवने तदा ।। ३७ ।।
अलिको नाम वै म्लेच्छस्तत्र स्थाने समागतः ।। ३८ ।।
अनपत्यो वस्त्रकारी सुतं प्राप्य गृहं ययौ ।।
कबीर इति विख्यातः स पुत्रो मधुराननः ।। ।। ३९ ।।
स सप्ताब्दवपुर्भूत्वा गोदुग्धपानतत्परः ।।
रामानंदं गुरुं मत्वा रामध्यानपरोऽभवत् ।।3.4.17.४०।।
स्वहस्तेनैव संस्कृत्य भोजनं हरयेऽपर्यत् ।।
तत्प्रियार्थं हरिस्साक्षात्सर्वकामप्रदोऽभवत् ।। ४१ ।।
।। बृहस्पतिरुवाच ।। ।।
उत्तानपादतनयो धुवोभूत्क्षत्रियः पुरा ।।
पितृमातृपरित्यक्तः स बालः पंचहायनः ।। ४२ ।।
गोवर्द्धनगिरौ प्राप्य नारदस्योपदेशतः ।।
स चक्रे भगवद्ध्यानं मासान्षट् च महाव्रती ।। ४३ ।।
तदा प्रसन्नो भगवान्विष्णुर्नारायणः प्रभुः ।।
खमंडले पदं तस्मै ददौ प्रीत्या नभोमयम् ।। ४४ ।।
दृष्ट्वा तद्वदनं रम्यं मायाशक्त्या दिशो दश ।।
स्वामिनं च ध्रुवं मत्वा भक्तिनम्रा बभूविरे ।। ४५ ।।
धुवोऽपि भगवान्साक्षात्सर्वपूज्यो बभूव ह ।।
दिक्पतिः स तु विज्ञेयो भगणानां पतिः स्वयम् ।। ४६ ।।
नभःपतिः कालकरः शिशुमारपतिस्स वै ।।
पंचतत्त्वा हि वै माया प्रकृतिस्तत्पतिः स्वयम् ।। ४७ ।।
तस्माद्धरायां संभूतो भौमो नाम महाग्रहः ।।
जलदेव्यास्ततो जातः शुक्रो नाम महाग्रहः ।। ४८ ।।
वह्निदेव्या ततो जातश्चाहं तत्र महाग्रहः ।।
वासुदेव्यां ध्रुवाज्जातः केतुर्नाम महाग्रहः।।४९।।
ग्रहभूतः स्थितस्तत्र नभोदेव्यां तदुद्भवः ।।
राहुर्नाम तथा घोरो महाग्रह उपग्रहः ।। 3.4.17.५० ।।

दिग्गज1

पूर्वस्यां दिशि वै तस्माज्जातश्चैरावतो गजः ।।
आग्नेय्यां दिशि वै तस्मात्पुंडरीको गजोऽभवत्[१] ।। ५१।
वामनः कुमुदश्चैव पुष्पदंतः क्रमाद्गजाः ।।
सार्वभौमः सुप्रतीको नभोदिक्षु तु तत्सुताः ।५२।।
अभ्रमुः कपिला चैव पिंगलाख्या इमाः क्रमात् ।।
ताम्रकर्णी शुभ्रदंती चांगना चांजनावती ।।५३।।
भूमिदिक्षु करिण्यश्च जातास्तस्मात्तु तत्प्रियाः ।।।
भगिनी च तथा माता सुता चैव स्नुषा तथा ।। ५४ ।।
पशुयोन्युद्भवानां च नृणां ता योषितस्सदा ।।
देवयोन्युद्भवानां च नृणां पत्नी स्मृता स्वसा ।। ५५ ।।
मनुवंशोद्भवानां च नृणां चान्योद्भवाः स्त्रियः ।।
इति धर्मो विधात्रोक्तो मया प्रोक्तः सुरा हि वः ।। ५६ ।।
द्विधा धुवस्स विज्ञेयो भूमेरूर्द्ध्वमधस्तथा ।।
सद्गुणः स दिवारूपो रात्रिरूपस्तमोगुणः ।। ५७ ।।
अधोध्रुवे सदा रात्रिर्नारकास्तत्र वै स्थिताः ।।
ऊर्ध्वध्रुवे दिवा नित्यं तपोमध्ये निशा दिवा ।। ५८ ।।
महो जनस्तपस्सत्यं तेषु नित्यं दिनं स्मृतम् ।।
रौरवश्चांधकूपश्च तामिस्रं च तमोमयम् ।।
तेषु नित्यं स्मृता रात्रिः कल्पमानं च कोविदैः ।। ५९ ।।
स तु पूर्वभवे चासीद्ब्राह्मणो माधवप्रियः ।।
षष्ट्यब्दं सर्वतीर्थेषु प्रातःस्नानं चकार ह ।। 3.4.17.६० ।।
तीर्थ पुण्यात्स वै विप्रो माधवो माधवप्रियः ।।
सुनीत्यां गर्भमासाद्य ध्रुवो भूत्वा रराज ह ।।
षट्त्रिंशच्च सहस्राब्दं राज्यं कृत्वा ध्रुवोऽभवत् ।। ६१ ।। ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा गुरोर्वाक्यं स ध्रुवः पंचमो वसुः ।।
गुर्जरे देश आगम्य वैश्यजात्यां समुद्भवः ।।
नरश्रीर्नाम विख्यातो गुणवैश्यस्य वै सुतः ।। ६२ ।।
कुसीदगुणगुप्तश्च नरश्रीः पुत्रवत्सलः ।।
त्यक्त्वा प्राणान्ययौ स्वर्गं स वैश्यतनयो ध्रुवः ।। ६३ ।।
प्रत्यहं स हरेः क्रीडां वृन्दावनमहोत्तमे ।।
शिवप्रसादात्प्रत्यक्षां दृष्ट्वा हर्षमवाप्तवान् ।। ६४ ।।
यस्य पुत्रविवाहे च भगवान्भक्तवत्सलः ।।
यादवैस्सह संप्राप्तस्तस्य वांछितदायकः ।। ६५ ।।
पुरीं काशीं समागम्य नरश्रीभर्क्तराट् स्वयम् ।।
रामानन्दस्य शिष्योऽभूद्विष्णुधर्म विशारदः ।। ६६ ।।
।। बृहस्पतिरुवाच ।। ।।
कदाचिद्भगवानत्रिर्गंगाकूलेऽनसूयया ।।
सार्द्धं तपो महत्कुर्वन्ब्रह्मध्यानपरोऽभवत् ।। ।। ६७ ।।
तदा ब्रह्मा हरिश्शंभुः स्वस्ववाहनमास्थिताः ।।
वरं ब्रूहीति वचनं तमाहुस्ते सनातनाः ।। ६८ ।।
इति श्रुत्वा वच स्तेषां स्वयंभूतनयो मुनिः ।।
नैव किञ्चिद्वचः प्राह संस्थितः परमात्मनि ।। ६९ ।।
तस्य भावं समालोक्य त्रयो देवाः सनातनाः ।।
अनसूयां तस्य पत्नीं समागम्य वचोऽब्रुवन् ।।3.4.17.७०।।
लिंगहस्तः स्वयं रुद्रो विष्णुस्तद्रसवर्द्धनः ।।
ब्रह्मा कामब्रह्मलोपः स्थितस्तस्या वशं गतः ।।
रतिं देहि मदाघूर्णे नो चेत्प्राणांस्त्यजाम्यहम् ।। ७१ ।।
पतिव्रताऽनसूया च श्रुत्वा तेषां वचोऽशुभम् ।।
नैव किंचिद्वचः प्राह कोप भीता सुरान्प्रति ।। ७२ ।।
मोहितास्तत्र ते देवा गृहीत्वा तां बलात्तदा ।।
मैथुनाय समुद्योगं चक्रुर्मायाविमोहिताः ।। ७३ ।।
तदा क्रुद्धा सती सा वै ताञ्छशाप मुनिप्रिया ।।
मम पुत्रा भविष्यंति यूयं कामविमोहिताः ।। ७४ ।।
महादेवस्य वै लिंगं ब्रह्मणोऽस्य महाशिरः ।।
चरणौ वासुदेवस्य पूजनीया नरैस्सदा ।।
भविष्यंति सुरश्रेष्ठा उपहासोऽयमुत्तमः ।। ७५ ।।
इति श्रुत्वा वचो घोरं नमस्कृत्य मुनिप्रियाम् ।।
तुष्टुवुर्भक्तिनम्राश्च देवपाठैश्च ऋङ्मयैः ।।७६।।
अनसूया तदा प्राह भवन्तो मम पुत्रकाः ।।
भूत्वा शापं मदीयं च त्यक्त्वा तृप्तिमवाप्स्यथ ।।७७।।
इत्युक्ते वचने ब्रह्मा चंद्रमाश्च तदा ह्यभूत् ।।
दत्तात्रेयो हरिः साक्षाद्दुर्वासा भगवान्हरः ।।
तत्पापपरिहारार्थं योगवन्तो बभूविरे ।। ७८ ।।
एतस्मिन्नंतरे देवी प्रकृतिस्सर्व धर्मिणी ।।
विधिं विष्णुं हरं चान्यं चक्रे सा गुणरूपिणी ।। ७९ ।।
मन्वंतरमतो जातं तेषां योगं प्रकुर्वताम् ।।
हृषिताश्च त्रयो देवास्समागम्य च तान्प्रति ।। 3.4.17.८० ।।
उवाच वचनं रम्यं तेषां मंगलहेतवे ।।
चन्द्रमाश्च भवेत्सोमो वसुः षष्ठः सुरप्रियः ।। ८१ ।।
रुद्रांशश्चैव दुर्वासाः प्रत्यूषः सप्तमो वसुः ।।
दत्तात्रेयमयो योगी प्रभासश्चाष्टमो वसुः ।।
तेषां वाक्यं समाकर्ण्य वसवस्ते त्रयोऽभवन् ।।८२।।
।। सूत उवाच ।। ।।
इति श्रुत्वा गुरोर्वाक्यं वसवो हर्षितास्त्रयः ।।
स्वांशेन भूतलं जग्मुः कलिशुद्धाय दारुणे ।।
दाक्षिणात्ये राजगृहे वैश्यजात्यां समुद्भवः ।। ८३ ।।
पीपा नाम सुतः सोमः सुदेवस्य तदा ह्यभूत् ।।
कृतं राज्यपदं तेन यथा भूपेन तत्पुरे ।। ८४।।
रामानन्दस्य शिष्योऽभूद्द्वारकां स समागतः ।।
हरेर्मुद्रां स्वर्णमयीं प्राप्य कृष्णात्स वै नृपः ।।
वैष्णवेभ्यो ददौ तत्र प्रेततत्त्वविनाशिनीम् ।। ८५ ।।
प्रत्यूषश्चैव पांचाले वैश्यजात्यां समुद्भवः ।।
मार्गपालस्य तनयो नानको नाम विश्रुतः ।। ८६ ।।
रामानन्दं समागम्य शिष्यो भूत्वा स नानकः ।।
स वै म्लेच्छान्वशीकृत्य सूक्ष्ममार्गमदर्शयत् ।। ८७ ।।
प्रभासो वै शांतिपुरे ब्रह्मजात्यां समुद्भवः ।।
शुक्लदत्तस्य तनयो नित्यानंद इति स्मृतः ।।
इति ते वसुमाहात्म्यं मया शौनक वर्णितम् ।। ८८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये वसुमाहात्म्ये कबीरनरश्रीपीपानानकनित्यानन्दसमु त्पत्तिवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।

अत्रि शब्दोपरि टिप्पणी

  1. तु. वायुपुराणम् २.८.२१०