सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १३

विकिस्रोतः तः

अथ त्रयोदशोऽध्यायः

अघोरपथभैरवहनुमज्जन्मरुद्रमाहात्म्यबालशर्मसमुत्पत्तिवर्णनम्

बृहस्पतिरुवाच
षोडशाब्दे च सम्प्राप्ते ब्रह्मणोऽव्यक्तजन्मनः ।
स उषित्वा च कमले स्थितः सृष्ट्यर्थमुद्यतः । । १
एतस्मिन्नन्तरे वक्त्रात्समुद्भूता च शारदा ।
द्विव्याङ्गं सुन्दरं तस्या दृष्ट्वा ब्रह्मा स्मरातुरः । । २
बलाद् गृहीत्वा तां कन्यामुवाच स्मरपीडितः ।
रतिं देहि मदाघूर्णे रक्ष मां कामविह्वलम् । । ३
इति श्रुत्वा तु सा माता रुषा प्राह पितामहम् ।
पञ्चवक्त्रोऽयमशुभो न योग्यस्तव कन्धरे । । ४
चतुर्वक्त्रो वेदमयो योग्यस्सर्वेश्वरे त्वयि ।
इत्युक्त्वान्तर्दधे माता ब्रह्मा क्रोधान्वितोऽभवत् । । ५
तस्य कोपाग्निना तोयं शुष्कभूतमभूद्भुवि ।
शान्तिभूते च तत्कोपे रुद्रो जातो भयङ्करः । । ६
भैरवो नाम विख्यातः कालात्मा सप्तवाहनः ।
स्वनखैश्च नृसिंहाभैः क्षिप्त्वा तत्पञ्चमं शिरः । । ७
जगर्ज बलवान्रुद्रः शङ्करो लोकशङ्करः ।
भयभीतस्तदा ब्रह्मा भैरवं शरणं ययौ । । ८
नाथ नः पापभूतानां धियो योऽसौ प्रचोदयात् ।
इति श्रुत्वा स भगवान्भैरवो लोकविश्रुतः । । ९
ब्रह्मभूतमहं स्वामिन्वरेण्यं त्वामुपागतः ।
सवितुस्तद्वरेण्यं यद्भर्गो देवस्य धीमहि । । 3.4.13.१०
गाढमुच्चै रुरोदाशु खात्पेतुश्चाश्रुबिन्दवः ।
ततो वृक्षास्समुद्भूता रुद्राक्षाणां पृथक्पृथक् । । ११
शिवो ब्रह्मवधाद्भीतस्तत्कपालं गृहीतवान् ।
कपाली नाम विख्यातं भैरवस्य तदा ह्यभूत् । । १२
सर्वलोकेषु पूतानि यानि चायतनानि च ।
तानि तान्येव गत्वाशु शुद्धो नाभूच्छिवङ्करः । । १३
एकदा तेषु वृक्षेषु संस्थितो भगवान्हरः ।
तदा ब्रह्मवधे दोषं त्यक्त्वा दूरमुपागतः । । १४
ततः प्रभृति वै शम्भुर्धृत्वा रुद्राक्षमुत्तमम् ।
पुरीं काशीं समायातः कपालस्तेन मोचितः । । १५
कपालमोचनं नाम तीर्थं जातमघापहम् ।
एतस्मिन्नन्तरे ब्रह्मा सर्वदेवसमन्वितः । । १६
समागत्य महादेवं तुष्टाव स्तुतिजैस्तवैः ।
मकरस्थे दिवानाथे शशिनश्चेश्वरं शुभम् । ।
कपालिनं महारुद्रं चकार भगवान्विधिः । । १७
सूत उवाच
इति श्रुत्वा गुरोर्वाक्यं कपाली भैरवः शिवः ।
स्वमुखात्स्वांशमुत्पाद्य काश्यां जातो ह्ययोनिजः । । १८
कपालमोचनात्कुण्डात्समागम्य महीतले ।
यतिरूपो वेदनिधिर्भैरवो नाम विश्रुतः । ।
अघोरं कठिनं मार्गं स्वशिष्यान्समचोदय । । १९
शङ्कराचार्यमागम्य शिष्योभूत्वा स भैरवः ।
डामरं नाम वै तन्त्रं मन्त्रभूतं चकार ह । ।
कीलिता ये तु वै मन्त्रास्तेन चोत्कीलितीकृताः । । 3.4.13.२०
बृहस्पतिरुवाच
मन्दोदरी मयसुता त्रिपुराधिपतेः स्वसा ।
त्रिपुरे तु तदा नष्टे महाविष्णुं सनातनम् । ।
भक्त्या तुष्टाव सा देवी प्रत्यहं गुप्तभाविनी । । २१
भक्तिभावात्ततो योगं हरौ प्राप्य महोत्तमम् ।
विन्ध्याद्रिकन्धरे घोरे तत्रैवान्तरधीयत । । २२
चतुर्युगं च द्विशतं तस्या जातं समाधितः ।
वैवस्वतेऽन्तरे प्राप्ते द्वादशे चैव कृद्युगे । । २३
पुलस्त्यो ब्रह्मणः पुत्रो विश्रवा रोषतोऽभवत् ।
शताब्दं च तपस्तप्त्वा विश्रवा नाम यो मुनिः । । २४
सुमालिनोऽथ दैत्यस्य सुतां वै कैकसीं मुदा ।
समुद्वाह्य विधानेन पुलस्त्यस्स च विश्रवाः । । २५
कदलीविपिने रम्ये गन्धमादनपर्वते ।
स रेमे च तया सार्द्धं विश्रवा भगवानृषिः । । २६
रावणः कुम्भकर्णश्च तयोर्जातो हि राक्षसौ ।
रावणो मातृभक्तश्च पितृभक्तस्ततोऽनुजः । । २७
सहस्राब्दं तपो घोरं चक्रतुस्तौ वरार्थिनौ ।
तदा प्रसन्नो भगवान्परमेष्ठी पितामहः । । २८
ददौ ताभ्यां वरं रम्यमजेयं देवदानवैः ।
तौ तु लब्धवरौ क्रुद्धौ पुष्पकं यानमुत्तमम् । ।
गृहीत्वा च बलाद्वीरौ युयुधाते परस्परम् । । २९
ताभ्यां विनिर्जिता देवास्त्यक्त्वा स्वर्गं सुखप्रदम् ।
पार्थिवैः पूजयामासुः शिवं कैलाससंस्थिताः । । 3.4.13.३०
एकादशाब्दमाराध्य ते देवा गिरिजापतिम् ।
शङ्कराच्च वरं प्राप्ता निर्भयाश्च तदाभवन् । । ३१
शिवोऽपि च स्वपूर्वार्द्धाज्जातो वै मानसोत्तरे ।
गिरौ यत्र स्थिता देवी गौतमस्य तनूद्भवा । ।
अञ्जना नाम विख्याता कीशकेसरिभोगिनी । । ३२
रौद्रं तेजस्तदा घोरं मुखे केसरिणो ययौ ।
स्मरातुरः कपीन्द्रस्तु बुभुजे तां शुभाननाम् । । ३३
एतस्मिन्नन्तरे वायुः कपीन्द्रस्य तनौ गतः ।
वाञ्छितामञ्जनां शुभ्रां रमयामास वै बलात् । । ३४
द्वादशाब्दमतो जातं दम्पत्योर्मैथुनस्थयोः ।
तदनु भ्रूणमासाद्य वर्षमात्रं हि सा दधत् । । ३५
पुत्रो जातस्स रागात्मा स रुद्रो वानराननः ।
कुरूपाच्च ततो मात्रा प्रक्षिप्तोऽभूद्गिरेरधः । । ३६
बलादागत्य बलवान्दृष्ट्वा सूर्यमुपस्थितम् ।
विलिख्य भगवान्रुद्रो देवस्तत्र समागतः । । ३७
वज्रसन्ताडितो वापि न तत्याज तदा रविम् ।
भयभीतस्तदा प्रांशुस्सूर्यं त्राहीति जल्पितः । । ३८
श्रुत्वा तदार्तवचनं रावणो लोकरावणः ।
पुच्छे गृहीत्वा तं कीशं मुष्टियुद्धमचीकरत् । । ३९
तदा तु केसरिसुतो रविं त्यक्त्वा रुषान्वितः ।
वर्षमात्रं महाघोरं मल्लयुद्धं चकार ह । । 3.4.13.४०
श्रमितो रावणस्तत्र भयभीतस्समन्ततः ।
पलायनपरो भूतः कीशरुद्रेण ताडितः । । ४१
एतस्मिन्नन्तरे प्राप्तो विश्रवा भगवानृषिः ।
स्तोत्रैर्वेदमयैर्देवं तुष्टाव परया गिरा । ।४ २
प्रसन्नस्तु तदा रुद्रो रावणं लोकरावणम् ।
त्यक्त्वा पम्पासरस्तीरे निवासं कृतवान्बली । ।
स्थाणुभूतः स्थितस्तत्र स्थाणुर्नाम ततोऽभवत् । । ४३
निघ्नन्तं च सुरान्मुख्यान्रावणं लोकरावणम् । । ४४
निहन्ति मुष्टिभिर्यो न हनुमानिति विश्रुतः । । ४५
तपसा तस्य कीशस्य प्रसन्नो भगवान्विधिः ।
नम्रधीर्वचनं प्राह शृणु रुद्र तपोनिधे । । ४६
वैवस्वतेऽन्तरे प्राप्ते चाष्टाविंशत्तमे युगे ।
त्रेतायाः पूर्वचरणे रामस्साक्षाद्भविष्यति । ।
तस्य भक्तिं च सम्प्राप्य कृतकृत्यो भविष्यसि । । ४७
इति चोक्त्वा ददौ तस्मै चन्द्रं भाद्रप्रकाशकम् ।
रावणाय प्रियां रम्यां ददौ मन्दोदरी विधिः । । ४८
नैर्ऋतस्यैव दिक्पालस्स बभूव च रावणः ।
अल्पायुर्मरणं प्राप्तो रामेण हरिरूपिणा । । ४९
सूत उवाच
इति श्रुत्वा स हनुमानयोनिः कदलीवने ।
देहभूतो महीं प्राप्तो बालशर्मेति विश्रुतः । । 3.4.13.५०
पुरीं काशीं समायातो यत्र वै मणिकर्णिका ।
रामपक्षे बालशर्मा शिवपक्षे तु शङ्करः । । ५१
मासमात्रं च शास्त्रार्थस्तयोश्चासीन्महोत्तमः ।
शङ्कराचार्ययतिना बालशर्मा पराजितः । । ५२
शिष्यो भूत्वा च तत्रैव गुरुसेवापरोऽभवत् ।
यश्चकार तन्त्रमन्त्रं सर्व जातिकथामयम् । । ५३

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये अघोरपथभैरवहनुमज्जन्म रुद्रमाहात्म्यबालशर्मसमुत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः । १३