भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search

।। जीव उवाच ।। ।।
विष्णुशर्मा पुरा कश्चिद्विप्रोभूद्वेदपारगः ।।
सर्वदेवमयं विष्णुं पूजयित्वा प्रसन्नधीः ।।१।।
अन्यैस्सुरैश्च संपूज्यो बभूव हरिपूजनात् ।।
भिक्षावृत्तिपरो नित्यं पत्नीमान्पुत्रवर्जितः ।। २ ।।
कदाचित्तस्य गेहे वै व्रती कश्चित्समागतः ।।
द्विजपत्नीं तदैकाकीं भक्तिनम्रां दरिद्रिणीम् ।।
दृष्ट्वोवाच महाभागः स स्पर्शाढ्यो दयापरः ।। ३ ।।
अनेन स्पर्शमणिना लोहधातुश्च कांचनम् ।।
भवेत्तस्मान्महासाध्वि त्रिदिनांतं गृहाण तम् ।। ४ ।।
स्नात्वा तावत्सरय्वां चायास्यामि तेंतिकं मुदा ।।
इत्युक्त्वा स ययौ विप्रो ब्राह्मणी बहु कांचनम् ।।
कृत्वा लक्ष्मीं समाप्यासीद्विष्णुशर्मा तदागमत् ।। ५ ।।
बहुस्वर्णयुतां पत्नीं दृष्ट्वोवाच हरिप्रियः ।।
गच्छ नारि मदाघूर्णे यत्र वै रसिको जनः ।। ।। ६ ।।
अहं विष्णुपरो दीनश्चौरभीतः सदैव हि ।।
मधुमत्तां कथं त्वां वै गृहीतुं भुवि च क्षमः ।।७।।
इति श्रुत्वा वचो घोरं पतिभीता पतिव्रता ।।
सस्वर्णं स्पर्शकं तस्मै दत्त्वा सेवापराभवत् ।। ८ ।।
द्विजोऽपि घर्घरामध्ये तद्द्रव्यं बलतोऽक्षिपत् ।।
त्रिदिनान्ते च स यतिस्तत्रागत्य मुदान्वितः ।।
उवाच ब्राह्मणीं दीनां स्वर्णं किं न कृतं त्वया ।। ९ ।।
साह भो मत्पतिश्शुद्धो गृहीत्वा स्पर्शकं रुषा ।।
घर्घरे च निचिक्षेप ततोहं वह्निपाकिनी ।।
निर्लोहो वर्तते विप्रस्ततः प्रभृति हे गुरो ।। 3.4.10.१० ।।
इति श्रुत्वा तु वचनं स यतिर्विस्मयान्वितः ।।
स्थित्वा दिनान्ते तं विप्रमुवाच बहु भर्त्सयन् ।। ११ ।।
दरिद्रो भिक्षुकश्चास्ति भवान्दैवेन मोहितः ।।
देहि मे स्पर्शकं शीघ्रं नो चेत्प्राणांस्त्यजाम्यहम्।। १२ ।।
इत्युक्तवंतं यतिनं विष्णु शर्मा तदाब्रवीत् ।।
गच्छ त्वं घर्घराकूले तत्र वै स्पर्शकस्तव ।।१३।।
इत्युक्त्वा यतिना सार्द्धं गृहीत्वा कंटकान्बहून् ।।
यतिने दर्शयामास स्पर्शकानिव कंटकान् ।। १४ ।।
तदा तु स यती विप्रं नत्वा प्रोवाच नम्रधीः ।।
मया वै द्वादशाब्दांतं सम्यगाराधितः शिवः ।।
ततः प्राप्तं शुभं रत्नं तत्तु तद्दर्शनेन वै ।। १५ ।।
स्पर्शको बहुधा प्राप्तो मया लोभात्मना द्विज ।।
इत्याभाष्य शुभं ज्ञानं प्राप्तो मोक्षमवाप्तवान् ।। १६ ।।
विष्णुशर्मा सहस्राब्दमुषित्वा जगतीतले ।।
सूर्यमाराध्य विधिवद्विष्णोर्मोक्षमवाप्तवान्।।१७।।
स द्विजो वैष्णवं तेजो धृत्वा वै मासि फाल्गुने।।
त्रैलोक्यमतपत्स्वामी देवकार्यपरायणः ।। १८ ।।
सूत उवाच ।।
इत्युक्त्वा भगवाञ्जीवः पुनः प्राह शचीपतिम् ।।
फाल्गुने मासि तं सूर्यं समाराध्य सुखी भव ।। ।। १९ ।।
इत्युक्तो गुरुणा देवो ध्यात्वा सर्वमयं हरिम् ।।
पूजनैर्बहुधाकारैर्देवदेवमपूजयत् ।। 3.4.10.२० ।।
तदा प्रसन्नो भगवान्समभूत्सूर्यमण्डलात् ।।
चतुर्भुजो हि रक्तांगो यथा यक्षस्तथैव सः ।।
पश्यतां सर्वदेवानां शक्रदेहमुपागमत् ।। २१ ।।
तत्तेजसा तदा शक्रः स्वान्तर्लीय स्वकं वपुः ।। ।
अयोनिस्स द्विजो भूत्वा शची देवी तथैव सा ।। २२ ।।
तदा तौ मिथुनीभूतौ वैष्णवाग्निप्रपीडितौ ।।
रेमाते वर्षपर्यन्तं गंगाकूले महावने।। ।।। २३ ।।
अधाद्गर्भं तदा देवी शची तु द्विजरूपिणी ।।
भाद्रशुक्ले गुरौ वारे द्वादश्यां ब्राह्ममण्डले ।। २४ ।।
प्रादुरासीत्स्वयं विष्णुर्धृत्वा सर्व कलां हरिः ।।
चतुर्भुजश्च रक्ताङ्गो रविकुंभसमप्रभः ।। २५ ।।
तदा रुद्राश्च वसवो विश्वेदेवा मरुद्गणाः ।।
साध्याश्च भास्कराः सिद्धास्तुष्टुवुस्तं सनातनम् ।। २६ ।।
।। देवा ऊचुः ।। ।।
कुलिशध्वजपद्मगदांकुशाभं चरणं तव नाथ महाभरणम् ।।
रमणं मुनिभिर्विधिशंभुयुतं प्रणमाम वयं भवभीतिहरम् ।। २७ ।।
दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः ।।
सचराचरलोकभरश्चपलः खलनाशकरस्सुरकार्य करः ।। २८ ।।
नमस्ते शचीनंदनानन्दकारिन्महापापसन्तापदुर्लापहारिन् ।।
सुरारीन्निहत्याशु लोकाधिधारिन्स्वभक्त्याघजाताङ्गकोटि प्रहारिन् ।। २९ ।।
त्वया हंसरूपेण सत्यं प्रपाल्यं त्वया यज्ञरूपेण वेदः प्ररक्ष्य ।।
स वै यज्ञरूपो भवाँल्लोकधारी शचीनन्दनः शक्रशर्मप्रसक्तः ।। 3.4.10.३० ।।
अनर्पितचरोचिरात्करुणयावतीर्णः कलौ समर्पयितुमुन्नतोज्वलरसां स्वभक्तिश्रियम् ।।
हरेः पुनरसुन्दरद्युतिकदंबसन्दीपितः सदा स्फुरतु नो हृदयकन्दरे शचीनंदनः ।। ३१।।
विसर्जति नरान्भवान्करुणया प्रपाल्य क्षितौ निवेदयितुमुद्भवः परात्परं स्वकीयं पदम् ।।
कलौ दितिजसंभवाधिव्यथाब्धिसुरमग्नगान्समुद्धर महाप्रभो कृष्णचैतन्य शचीसुत ।। ३२ ।।
माधुर्य्यैर्मधुभिस्सुगंधवदनः स्वर्णांबुजानां वनं कारुण्या मृतनिर्झरैरुपचितः सत्प्रेमहेमाचलः ।।
भक्तांभोधरधारिणी विजयिनी निष्कंपसप्तावली देवो न: कुलदेवतं विजयते चैतन्यकृष्णो हरिः ।। ३३ ।।
देवारातिजनैरधर्मजनितैस्सपीडितेयं मही संकुच्याशु कलौ कलेवरमिदं बीजाय हा वर्तते ।।
त्वन्नाम्नैव सुरारयो विदलिताः पातालगाः पीडिता म्लेच्छा धर्मपराः सुरेशनमनास्तस्मै नमो व्यापिने ।। ३४ ।।
।। सूत उवाच ।। ।।
इत्यभिष्टूय पुरुषं यज्ञेशं च शचीपतिम् ।।
बृहस्पतिमुपागम्य देवा वचनमब्रुवन् ।। ३५ ।।
वयं रुद्रा महाभाग इमे च वसवोऽश्विनौ ।।
केन केनांशकेनैव जनिष्यामो महीतले ।।
तत्सर्वं कृपया देव वक्तु मर्हति नो भवान् ।। ३६ ।।
।। बृहस्पतिरुवाच ।। ।।
अहं वः कथयिष्यामि शृणुध्वं सुरसत्तमाः ।।
पुरा पूर्वभवे चासीन्मृगव्याधो द्विजाधमः ।।
धनुर्बाणधरो नित्यं मार्गे विप्रविहिंसकः ।।३७।।
हत्वा द्विजान्महामूढस्तेषां यज्ञोपवीतकम् ।।
गृहीत्वा हेलया दुष्टो महाक्रोशस्तु तत्कृतः ।। ३८ ।।
ब्राह्मणस्य च यद्द्रव्यं सुधोपममनुत्तमम् ।।
मधुरं क्षत्रियस्यैव वैश्यस्यान्नसमं स्मृतम् ।। ३९ ।।
शूद्रस्य वस्तु रुधिरमिति ज्ञात्वा द्विजा धमः ।।
स जघान त्रिवर्णांश्च ब्राह्मणान्बहुलान्खलः ।। 3.4.10.४० ।।
द्विजनाशात्सुरास्सर्वे भयभीतास्समंततः ।।
परमेष्ठिनमागम्य कथांश्चकुश्च कारणम्।। ।। ४१ ।।
श्रुत्वा च दुःखितो ब्रह्मा सप्तर्षीन्प्राह लोकगान् ।।
उद्देशं कुरु तत्रैव गत्वा तस्य द्विजोत्तम ।। ४२ ।।
इति श्रुत्वा मरीचिस्तु वशिष्ठादिभिरन्वितः ।।
तत्र गत्वा स्थितास्सर्वे मृगव्याधस्य वै वने ।। ४३
मृगव्याधस्तु तान्दृष्ट्वा धनुर्बाणधरो बली ।।
उवाच वचनं घोरं हनिष्येहं च वोद्य वै ।। ४४ ।।
मरीचाद्या विहस्याहुः किमर्थं हंतुमुद्यतः ।।
कुलार्थं वात्मनोऽर्थं वा शीघ्रं वद महाबल ।। ४५ ।।
इत्युक्तस्तान्द्विजः प्राह कुलार्थं चात्मनो हिते ।।
हन्मि युष्मान्धनैर्युक्तान्ब्राह्मणाँश्च विशेषतः ।। ४६ ।।
श्रुत्वा तमाहुस्ते विप्रा गच्छ शीघ्रं धनुर्धर ।।
विप्रहत्याकृतं पापं भुञ्जीयात्को विचारय ।।४७।।
इति श्रुत्वा तु घोरात्मा तेषां दृष्ट्या सुनिर्मलः ।।
गत्वा वंशजनानाह भूरि पापं मयार्जितम् ।।४८।।
तत्पापकं भवद्भिश्च ग्रहणीयं धनं यथा ।।
ते तु श्रुत्वा द्विजं प्राहुर्न वयं पापभोगिनः ।। ४९ ।।
साक्षीयं भूमिरचला साक्षी सूर्योऽयमुत्तमः ।।
इति श्रुत्वा मृगव्याधो मुनीनाह कृतांजलिः ।। 3.4.10.५० ।।
यथा पापं क्षयं याति तथा माज्ञातुमर्हथ ।।
इत्युक्तास्तेन ते प्राहुः शृणु त्वं मंत्रमुत्तमम् ।। ५१ ।।
 राम नाम हि तज्ज्ञेयं सर्वाघौघविनाशनम् ।।
यावत्त्वत्पार्श्वमायामस्तावत्त्वं जप चोत्तमम् ।। ५२ ।।
इत्युक्त्वा ते गता विप्रास्तीर्थात्तीर्थान्तरं प्रति ।।
मरामरामरेत्येवं सहस्राब्दं जजाप ह ।। ५३ ।।
जपप्रभावादभवद्वनमुत्पलसंकुलम् ।।
तत्स्थानमुत्पलारण्यं प्रसिद्धमभवद्भुवि।। ५४ ।।
ततः सप्तर्षयः प्राप्ता वल्मीकात्तं निराकृतम् ।।
दृष्ट्वा शुद्धं तदा विप्रमूचुस्ते विस्मयान्विताः ।। ५५ ।।
वल्मीकान्निस्सृतो यस्मात्तस्माद्वाल्मीकिरुत्तमम् ।।
तव नाम भवेद्विप्र त्रिकालज्ञ महामते ।। ५६ ।।
एवमुक्त्वा ययुर्लोकं स तु रामायणं मुनिः ।।
कल्पाष्टादशयुक्तं हि शतकोटिप्रविस्तरम् ।।५७।।
चकार निर्मलं पद्यैः सर्वाघौघविनाशनम् ।।
तत्पश्चात्स शिवो भूत्वा तत्र वासमकारयत् ।। ५८ ।।
अद्यापि संस्थितः स्वामी मृगव्याधः सनातनः ।।
शृणुध्वं च सुराः सर्वे तच्चरित्रं हरप्रियम् ।। ५९ ।।
वैवस्वतेऽन्तरे प्राप्ते चाद्ये सत्ययुगे शुभे ।।
ब्रह्मागत्योत्पलारण्यं तत्र यज्ञं चकार ह ।। 3.4.10.६० ।।
तदा सरस्वती देवी नदी भूत्वा समागता ।।
तद्दर्शनात्स्वयं ब्रह्मा मुखतो ब्राह्मणं शुभम्।। ६१ ।।
बाहुभ्यां क्षत्रियं चैव चोरुभ्यां वैश्यमुत्तमम् ।।
पद्भ्यां शूद्रं शुभाचारं जनयामास वीर्यवान् ।। ६२ ।।
द्विजराजस्तथा सोमश्चंद्रमा नामतो द्विजः ।।
लोके सर्वातपः सूर्यः कश्यं वीर्यं हि पाति यः ।। ६३ ।।
कश्यपो हि द्वितीयोऽसौ मरीचिस्तु ततोऽभवत् ।।
रत्नानामाकरो यो वै स हि रत्नाकरः स्मृतः ।। ६४।।
लोकान्धरति यो द्रव्यैः स तु धर्मो हि नामतः ।।
गंभीरश्चास्ति सदृशः कोशो यस्य सरित्पतिः ।। ६५ ।।
लोकान्दक्षति यः कृत्यैः स तु दक्षः प्रजापतिः ।।
ब्रह्मणोंगाच्च ते जातास्तस्माद्वै ब्राह्मणाः स्मृताः ।। ६६ ।।
वर्णधर्मेण ते सर्वे वर्णात्मानश्च वै क्रमात् ।।
दक्षस्य मनसो जाताः कन्याः पंचशतं ततः ।।
विष्णु मायाप्रभावेन कलाभूताः स्थिता भुवि ।।६७।।
तदा तु भगवान्ब्रह्मा सोमायाश्विनिमण्डलम् ।।
सप्तविंशद्गणं श्रेष्ठं ददौ लोकविवृद्धये ।।६८।।
कश्यपायादितिगणं क्षत्ररूपं त्रयोदशम् ।।
धर्माय कीर्तिप्रभृतीर्ददौ स च महामुनिः ।। ६९ ।।
नानाविधानि सृष्टानि चासन्वैवस्वतेऽन्तरे ।।
तेषां पतिस्त्वयं दक्षोऽभूद्विधेराज्ञया भुवि ।। 3.4.10.७० ।।
तत्र वासं स्वयं दक्षः कृतवान्यज्ञतत्परः ।।
सर्वे देवगणा दक्षं नमस्कृत्य चरंति हि ।।७१।।
भूतनाथो महादेवो न ननाम कदाचन ।।
तदा क्रुद्धः स्वयं दक्षः शिवभागं न दत्तवान् ।। ७२ ।।
मृगव्याधः शिवः क्रुद्धो वीरभद्रो बभूव ह ।।
त्रिशिराश्च त्रिनेत्रश्च त्रिपदस्तत्र चागतः ।। ७३ ।।
तेनैव पीडिता देवा मुनयः पितरोऽभवन् ।।
तदा वै यज्ञपुरुषो भयभीतः समंततः ।। ७४ ।।
मृगभूतो ययौ तूर्णं दृष्ट्वा व्याधः शिवोभवत् ।।
रुद्रव्याधेन स मृगो विभिन्नाङ्गो बभूव ह ।। ७५ ।।
तदा तु भगवान्ब्रह्मा तुष्टाव मधुरस्वरैः ।।
संतुष्टश्च मृगव्याधो यज्ञं पूर्णमकारयत् ।। ७६ ।।
तुलाराशिस्थिते भानौ तं रुद्रं चन्द्रमण्डले ।।
स्थापयित्वा स्वयं ब्रह्मा सप्तविंशद्दिनात्मके ।।
प्रययौ सप्तलोकं वै स रुद्रश्चंद्ररूपवान् ।। ७७ ।।
इति श्रुत्वा वीरभद्रो रुद्रः संहृष्टमानसः ।।
स्वांशं देहात्समुत्पाद्य द्विजगेहमचोदयत् ।। ७८ ।।
विप्र भैरवदत्तस्य गेहं गत्वा स वै शिवः ।।
तत्पुत्रोऽभूत्कलौ घोरे शंकरो नाम विश्रुतः ।।७९।।
स बालश्च गुणी वेत्ता ब्रह्मचारी बभूव ह ।।
कृत्वा शंकरभाष्यं च शैवमार्गमदर्शयत् ।। 3.4.10.८० ।।
त्रिपुण्ड्रश्चाक्षमाला च मंत्रः पंचाक्षरः शुभः ।।
शैवानां मंगलकरः शंकराचार्यनिर्मितः ।। ८१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्यशंकराचार्यसमुत्पत्तिवर्णनं नाम दशमोऽध्यायः ।। १० ।।