सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०९

विकिस्रोतः तः

सूत उवाच ।।
इत्युक्त्वा भगवाञ्जीवस्सूर्यमाहात्म्यमुत्तमम्।।
प्रयागे तु पुनर्देवानुवाच वचसां पतिः ।।१।।
प्रतिष्ठानपुरे रम्ये सूर्यो जातो हराज्ञया ।।
पुरा त्रेतायुगांते च तच्छृणुष्व सुरोत्तम ।। २ ।।
त्रेतान्ते सिंहलद्वीपे परीक्षितनृपोऽभवत् ।।
वेदधर्मपरो नित्यं देवतातिथिपूजकः ।।३।।
कन्या भानुमती तस्य सूर्यव्रतपरायणा ।।
भक्तिभावेन सविता प्रत्यहं तद्गृहे स्वयम् ।। ४ ।।
तया कृतं शुभं भक्ष्यं मध्याह्ने भुक्तवान्प्रभुः।।
रविवारे कदाचित्सा नलिनी सागरं प्रति ।।५।।
स्नानार्थमागता कन्या तदा नारद आगतः।।
दृष्ट्वा मनोरमां बालामेकाकीं जलमध्यगाम्।।६।।
गृहीत्वा वसनं तस्या वचनं प्राह निर्भयः।।
पाणिं गृहाण मे सुभ्रूस्त्वद्दृष्ट्या वशमागतः ।। ७ ।।
इत्युक्तवंतं तु मुनिं कुमारी नम्रकन्धरा ।।
उवाच शृणु देवर्षे कन्याहं त्वं सुतप्रदः ।। ८।।
भवान्देवाङ्गनाभिश्च प्रार्थितः स्वर्गमण्डले ।।
क्व च वै मेनका रंभा क्वाहं मनुजयोनिजा ।। ।।९।।
नवद्वारेषु देहेस्मिन्दुर्गन्धाः संस्थिताः सदा ।।
नैव देवाङ्गनाङ्गे वै तस्मात्तुभ्यं नमोनमः।।3.4.9.१०
इति श्रुत्वा वचस्तस्या लज्जितो नारदस्तदा।।
महादेवमुपागम्य चोक्तवान्सर्वकारणम् ।। ११ ।।
कुष्ठीभूतं मुनिं दृष्ट्वा शंकरो लोकशंकरः ।।
तुष्टाव भास्करं देवं तदा प्रादुरभूत्प्रभुः ।। १२ ।।
नारदस्य शुभं देहं कृत्वा शिवमुवाच ह ।।
आज्ञां देहि महादेव तवाशां पूरयाम्यहम् ।। १३ ।।
इत्युक्तं तं शिवः प्राह द्विजो भूत्वा भवान्भुवि ।।
गृहाण नृपतेः कन्यां रविणा तु तथा कृतम् ।। १४ ।।
सविता भानुमत्या च सार्द्धं कृत्वा तपोन्वहम् ।।
सूर्यलोकं पुनः प्राप्तस्स पौषे च प्रकाश कृत्।।
तं भजाशु महेन्द्र त्वं देवकार्यं प्रसाधय।।१५।।
।। सूत उवाच ।। ।।
इति श्रुत्वा गुरोर्वाक्यं महेन्द्रश्च सुरैस्सह ।।
सवितारं पौषमासे तुष्टाव शुभ पूजनैः ।। १६ ।।
तदा प्रसन्नो भगवान्देवानाह शुभं वचः ।।
अहं काश्यां भवाम्यद्य नाम्ना धन्वतरिः स्वयम् ।। १७ ।।
रोगैश्च पीडिताँल्लोकान्कलिना निर्मितैर्भुवि ।।
शमयिष्यामि तत्रोष्य देवकार्यं भविष्यति ।। १८ ।।
इत्युक्त्वा भगवान्सूर्यः काशीनगरमागतः ।।
कल्पदत्तस्य विप्रस्य पुत्रो भूत्वा महीतले ।। १९ ।।
सुश्रुतं राजपुत्रं च विप्रवृद्धसमन्वितम् ।।
शिष्यं कृत्वा प्रसन्नात्मा कल्पवेदमचीकरत् ।। 3.4.9.२० ।।
रोगैश्च क्षयितं देहं काल्पमेतत्स्मृतं बुधैः ।।
तस्य ज्ञानं च तंत्रेऽस्मिकल्पवेदोह्यतः स्मृतः ।। २१ ।।
धन्वतरिस्स भगवान्प्रसिद्धोभूत्कलौ युगे ।।
यस्य दर्शनमात्रेण रोगा नश्यंति तत्क्षणात् ।। २२ ।।
सुश्रुतः कल्पवेदं तं धन्वत्तरिविनिर्मितम् ।।
पठित्वा च शताध्यायं सौऽश्रुतं तंत्रमाकरोत् ।।२३।।
।। बृहस्पतिरुवाच ।। ।।
पुरा पंपापुरे रम्ये हेली नाम्ना द्विजोऽभवत् ।।
चतुष्षष्टिकलाभिज्ञो रविपूजनतत्परः ।।२४।।
त्यक्त्वा प्रतिग्रहं वृत्तिं कारुवृत्तिं गृहीतवान् ।।
कृत्वा वस्त्रकलं लौहं तथा चित्रकलं पुनः ।।२५।।
धातुमूर्तिकलं चैव सर्वकारुकलं तथा ।।
पञ्चसहस्रमुद्राभिराक्रीणन्कारुकोऽभवत् ।।२६।।
कलएको मासमात्रे काले तेनैव निर्मितः ।।
तद्धनेन रविं देवं यज्ञैर्माघे हि सोऽर्चयत्।।
विश्वकर्मा रविः साक्षान्माघमासे प्रकाशकः ।।२७।।
हेलिनो बहुलैर्यज्ञैस्सन्तुष्टः प्रत्यहं प्रभुः ।।
पंपासरोवरे रम्ये निर्मितः स्तंभ उत्तमः ।।२८।।
ज्योतीरूपो महारम्यस्तत्र प्राप्तो रविः स्वयम्।।
मध्याह्ने हेलिना दत्तं भोजन दैवतप्रियम् ।।२९।।
भुक्त्वा स प्रत्यहं स्वामी मासिमासि दिवाकरः ।।
त्रैलोक्यं भावयांचक्रे सर्वदेवमयो हरिः ।।3.4.9.३०।।
सहस्रायुर्द्विजो भूत्वा त्यक्त्वा प्राणान्रविः स्वयम् ।।
भूत्वा मण्डलमध्यास्य माघमासमतोषयत् ।।
तं सूर्यं भज देवेन्द्र स ते कार्यं करिष्यति ।। ३१ ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा गुरोर्वाक्यं वासवो दैवतैस्सह।।
सूर्यमाराधयामास विश्वकर्माणमुत्तमम्।।३२।।
तदा प्रसन्नो भगवांस्त्वष्टा तुष्टिकरोजनान्।।
सुरानाह वचो रम्यं शृणुध्वं सुरसत्तमाः ।।३३।।
बिल्ग्रामे वंगदेशे संभवामि निरुक्तकृत् ।।
जयदेव इति ख्यातः कवीनां हि शिरोमणिः ।। ३४ ।।
इत्युक्त्वा भगवान्सूर्यो वंगदेशमुपाययौ ।।
गेहे कंदुकिनो जातो ब्राह्मणस्य महीतले ।। ३५ ।।
स पंचाब्दवपुर्भूत्वा पितृमातृपरायणः ।।
द्वादशाब्दं महासेवा तत्र तेन तयोः कृता ।। ३६ ।।
मृतिमंतौ च पितरौ प्रेतकृत्येन तर्पितौ ।।
जयदेवेन तौ नाकं गयाश्राद्धे हि जग्मतुः ।। ३७ ।।
जयदेवस्तदा विप्रो भूत्वा वैराग्यवान्भुवि ।।
तत्रस्थाने महारम्ये वने वासमकारयत् ।। ३८ ।।
त्रिविंशाब्दे ततः प्राप्ते केनचिन्मधुरानना ।।
ब्राह्मणेन शुभा कन्या जगन्नाथाय चार्पिता ।। ३९ ।।
अर्चावसाने भगवाननिरुद्धस्सनातनः ।।
दारुब्रह्ममयः साक्षादाह तं स्वेन वै वचः ।। 3.4.9.४० ।।
शृणु त्वं भोः सत्यव्रत जयदेवो वपुर्मम ।।
पद्मावतीं सुतां तस्मै निवेदय ममाज्ञया ।। ४१ ।।
इत्युक्तस्स द्विजस्तूर्णं दृष्ट्वा वैरागरूपिणम् ।।
तत्र स्थाप्य निजां कन्यां स्वगेहाय मुदा ययौ ।। ४२ ।।
सा तु पद्मावती कन्या मत्वा तं सुंदरं पतिम् ।।
तत्सेवां सा मुदा युक्ता चकार बहुवार्षिकम् ।। ४३ ।।
निरुक्तं वैदिकं चांगं कृतवान्स समाधिना ।।
वर्णागमो गवेंद्रादौ सिंहे वर्णविपर्ययः ।।
षोडशादौ विकारश्च वर्णनाशः पृषोदरे ।। ४४ ।।
वर्णविकारनाशाभ्यां धातोरतिशयेन यः ।।
योगस्तदुच्यते प्राज्ञैर्मयूरभ्रमरादिषु ।। ४९ ।।
एवं पंचविधान्येव निरुक्तानि स्मृतानि वै ।।
शूद्रैश्च नागवंशीयैर्भ्रंशितानि कलौ युगे ।। ४६ ।।
जित्वा प्राकृतभाषायाः कर्तॄन्मूढान्कलिप्रियान् ।।
शुद्धं हि पाणिनिः शास्त्रं चकार सुरहेतवे ।। ४७ ।।
एकदा तु कलिर्धूर्तो हृदिस्थश्चौरकर्मणाम् ।।
नृपदत्तं द्विजस्यैव लुंठयित्वा धनं बहु ।। ४८ ।।
पद्मावतीं सतीं मत्वा त्यक्त्वा तद्वै गतो गृहम् ।।
हस्तौ पादौ द्विजस्यैव कलिश्चोरैः समाच्छिनत् ।। ४९ ।।
तदा तु दुःखिता देवी गर्तमध्ये स्थितं पतिम् ।।
निष्कास्य बहुधालप्यापीड्य हस्तेन चाहरत् ।। 3.4.9.५० ।।
एकस्मिन्दिवसे राजा मृगयार्थमुपागतः।।
अहस्तपादं च मुनिं जयदेवं ददर्श ह ।।
स पृष्टस्तेन तत्रैव कृतं केन तवेदृशम् ।। ५१ ।।
स होवाच महाराज हस्तपादविहीनकः ।।
कर्मणाहमिह प्राप्तो न केनापि कृतं खलु ।। ५२ ।।
इति श्रुत्वा धर्मपालो नृपतिस्तं द्विजोत्तमम् ।।
सपत्नीकं च शिबिकामारोप्य स्वगृहं ययौ ।। ५३ ।।
तस्य दीक्षां नृपः प्राप्य धर्मशालामकारय त् ।।
कदाचिद्वैष्णवा भूता ते चौराः कलिनिर्मिताः ।।
धर्मपालगृहं प्राप्य राजानमिदमब्रुवन् ।। ५४ ।।
वयं हि शास्त्रनिपुणास्तव गेहमुपागताः।।
अस्माभिर्निर्मितं भोज्यं स्वयं विष्णुः शिलामयः ।।
संभुंक्ते प्रत्यहं प्रीत्या तत्पश्य नृपसत्तम ।। ५५ ।।
इत्युक्त्वा कलिभक्तास्ते विष्णुरूपं चतुर्भुजम् ।।
नृपाय दर्शयामासुर्भुक्तवंतं स्वमायया ।। ५६ ।।
विस्मितो धर्मपालश्च जयदेवमुवाच ह ।।
गुरो मद्भवने प्राप्ता वैष्णवा विष्णुतत्पराः।।
अदीदृशन्हरिं साक्षात्तस्मात्त्वं शीघ्रमाव्रज ।।५७।।
इति श्रुत्वा द्विजः प्राप्तो विस्मितोऽभूत्तथा नृपः ।।
तदा तु तं हि पाखंडा भूपमूचुर्विहस्य ते ।। ।। ५८ ।।
असौ विप्रश्च नृपते गौडदेशे निवासिनः ।।
सूदो भक्ष्यकरस्तस्मै कदाचिद्धनलोभतः ।। ५९ ।।
गरलं मिश्रितं भक्ष्ये तेन पाखंडरूपिणा ।।
ज्ञात्वा राजा तु तं विप्रं शूलमध्ये ह्यरोपयत् ।। 3.4.9.६० ।।
एतस्मिन्नंतरे राजन्वयं तत्र समागताः ।।
आगस्कृतं द्विजं मत्वा दत्त्वा ज्ञानान्य नेकशः ।।
शूलात्तं हि समुत्तार्य हस्तौ पादौ नृपोऽच्छिनत् ।। ६१ ।।
अस्माकं शिष्यभूतो हि राजास्माभिः प्रबोधितः ।।
इत्युक्तमात्रे वचने दुःखिताभूच्च दारिता ।। ६२ ।।
चौराँस्तान्सा हि पाताले चकार सुररक्षितान् ।।
जयदेवस्तथा भूतान्दृष्ट्वा चौरान्रुरोद ह ।। ६३ ।।
क्रंदमाने द्विजे तस्मिन्हस्तांघ्री प्रकृतिं गतौ ।।
विस्मितं नृपतिं तत्र सर्वं हेतुमवर्णयत् ।। ६४ ।।
श्रुत्वा राजा प्रसन्नात्मा जयदेवमुखोद्भवम् ।।
गीतगोविंदमेवाशु पठित्वा मोक्षमागमत् ।। ६५ ।।
इति ते कथितं विप्र जयदेवो यथाभवत् ।।
कृष्णचैतन्यचरितं यथा जातं शृणुश्व तत् ।। ६६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये धन्वंतरिसुश्रुतजयदेवसमुत्पत्तिवर्णनो नाम नवमो ऽध्यायः ।। ९ ।।