भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०८

विकिस्रोतः तः

॥ बृहस्पतिरुवाच ॥ ॥
पुरा त्रेतायुगे शक्र शक्रशर्मा द्विजो ह्यभूत् ।
अयोध्यायां महाभागो देवपूजनतत्परः ॥ १ ॥
अश्विनौ च तथा रुद्वान्वसून्सूर्यान्पृथक्पृथक् ॥
यजुर्वेदमयैर्मंत्रैरर्चयित्वा प्रसन्नधीः ॥
हव्यैश्च तर्पयामास देवाँस्तान्प्रत्यहं द्विजः ॥ २ ॥
तद्भावतस्त्रयस्त्रिंशद्देवाः क्षुद्रगणैर्युताः ॥
दुदुर्मनोरथं तस्मै दुर्लभं सुलभीकृतम् ॥ ३ ।
दशवर्षसहस्राणि निर्जरो निरुपद्रवः ॥
पश्चात्कलेवरं त्यक्त्वा पश्चात्सूर्यो बभूव सः ।। ४ ।
लक्षाब्दं मण्डले तस्मिन्नधिकारः कृतस्ततः ।।
ब्रह्मलोकं ययौ विप्रः सर्वदेवप्रसादतः॥ ५॥
अष्टवर्षसहस्राणि दिव्यानि पदमुत्तमम् ॥
विलोक्य मंडले प्राप्तं तं सूर्यं जपपूजनैः ।। ६॥
इति श्रुत्वा तु वचनं महेन्द्रः सुरसंयुतः ॥
आषाढे भास्करं देवं पूजयामास नम्रधीः ॥ ७ ॥
आषाढपूर्णिमायां च स देवो जगतीतले॥
प्रत्यक्षमगमत्तत्र सुरानाह शृणुष्व तत् ॥८॥
वृन्दावने महारम्ये जनयिष्ये कलौ भये ॥
स द्विजः सूर्यरूपश्च देवकार्यं करिष्यति ॥ ९ ॥
माधवस्य द्विजस्यैव तनयः स भविष्यति ॥
मधुर्नाम महाभागो वेदमार्गपरायणः ॥3.4.8.१०॥
॥ सूत उवाच ॥ ॥
इत्युक्त्वा भगवान्सूर्यो देवकार्यार्थमुद्यतः॥
स्वांगात्तु तेज उत्पाद्य वृंदावनमप्रे(पे?)षयत् ॥ ११॥
विमुखान्मधुरालापैर्वशीकृत्य समन्ततः ॥
तेभ्यश्च वैष्णवीं शक्तिं प्रददौ भुक्तिमुक्तिदाम् ।
मध्वाचार्य इति ख्यातः प्रसिद्धोऽभून्महीतले।॥ १२॥
जीव उवाच ॥ ॥
द्वापरे च द्विजश्रेष्ठो मेघशर्मा बभूव ह ॥
ज्ञानवान्मतिमान्धर्मी वेदमार्गपरायणः॥ १३॥
कृषिकृत्यपरो नित्यं तद्धनैश्च दशांशकैः ॥
प्रत्यहं सकलान्देवानर्चयामास भक्तिमान् ॥१४॥
एकदा पञ्चवर्षाब्दे शन्तनौ च महीपतौ ॥
संप्राप्ते तस्य वै देशे ह्यनावृष्टिर्बभूव ह॥१५॥
क्रोशमात्रं हि तत्क्षेत्रं पर्जन्येनैव सेचितम् ॥
धान्यानां द्रोणमानश्च भावोऽभूदेकमुद्रया॥१६॥
मेघशर्मा तदा तत्र धनधान्ययुतोऽभवत्।
अन्ये तु पीडिता लोका राजानं शरण ययुः।।१७।।
तदा तु दुःखितो राजा मेघशर्माणमाह्वयत् ।।
द्विजश्रेष्ठ नमस्तुभ्यं गुरुर्भव मम प्रियः ।। १८ ।।
अनावृष्टिर्यथा न स्यात्तथा विप्र समादिश ।।१९।।
इत्येवंवादिनं भूपं मेघशर्मा वचोऽब्रवीत् ।।
श्रावणे मासि संप्राप्ते विप्रान्वेदपरायणान्।। 3.4.8.२०।।
द्वादशैव समाहूय लक्षमात्रं रवेः स्वयम्।।
जापयित्वा सुमनसा पूर्णिमायां तु तद्व्रती ।।
सूर्यमन्त्राहुतीर्वह्नौ तद्दशांशं हि तद्द्विजैः ।। २१ ।।
कारयित्वा विधानेन कृतकृत्यः सुखी भव ।।
इति श्रुत्वा तथा कृत्वा भोजयामास वेदगान्।।२२।।
प्रसन्नस्तु तदा सूर्यः पर्जन्यात्मा समन्ततः।।
भूमिमाच्छाद्य स दिशं प्रभुर्वृष्टिमकारयत्।।२३।।
शन्तनुस्तु तदा राजा सूर्यव्रतपरायणः ।।
तद्व्रतेन महापुण्यो बभूव नृपसत्तमः ।। २४।।
यं यं करेण स्पृशति वृद्धो भवति वै युवा ।।
सूर्यदेवप्रभावेन मेघशर्मा तथा ह्यभूत्।। २५ ।।
स वै पंचशतायुश्च निर्जरो निरुपद्रवः ।।
त्यक्त्वा प्राणान्रविर्भूत्वा सूर्यलोकमुपागमत्।।
लक्षाब्द भुवमासाद्य ब्रह्मलोकं गमिष्यति ।।२६।।
इत्येवंवादिनं जीवं पर्जन्यो भगवान्रविः ।।
स्वरूपं दर्शयामास प्रयागं प्रति चागतः ।। २७ ।।
मुरा नाह प्रसन्नात्मा म्लेच्छराज्ये कलौ युगे ।।
वृन्दावने समागम्य देवकार्यं करोम्यहम् ।। २८ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा भगवान्सूर्यो गत्वा वृन्दावनं शुभम् ।।
श्रीधरो नाम विख्यातः पुत्रोभूद्वेदशर्मणः ।। २९ ।।
श्रीमद्भागवतं शास्त्रं समालोक्य विशारदः ।।
चकार विदुषामर्थे प्रदीप्तं श्रीधरः शुभम् ।।
श्रीमद्भागवतं शास्त्रं पुराणोपरि तत्कृतम् ।। 3.4.8.३० ।।
।। जीव उवाच ।। ।।
पुरा कलौ युगे प्राप्ते प्रांशुशर्मा द्विजोऽभवत्।।
वेदशास्त्रपरो नित्यं देवतातिथिपूजकः ।। ३१ ।।
सत्यवादी महासाधुः स्तेयहिंसाविवर्जितः ।।
भिक्षावृत्तिपरो नित्यं पुत्रदारप्रपोषकः ।। ३२ ।।
एकदा पथि भिक्षार्थं गच्छतस्तस्य भूपतेः ।।
मायाकृत्यकरो धूर्तः कलिस्तत्राक्षिगोचरः ।। ३३ ।।
बभूव वाटिकां कृत्वा कलिर्दानमनोहराम् ।।
तमुवाच द्विजो भूत्वा प्रांशुशर्मन्वचः शृणु ।। ३४ ।।
ममेयं वाटिका रम्या तत्र गच्छ सुखी भव ।।
इति विप्रवचः श्रुत्वा वाटिकां तां समागतः ।। ३५ ।।
कलिस्तु वाटिकामध्ये गत्वा रम्यफलानि च ।।
त्रोटयित्वा ददौ तस्मै भोजनार्थं महाखलः ।। ३६ ।।
प्रांजलिः प्रणतो भूत्वा प्रांशुशर्माणमब्रवीत् ।।
भुंक्ष्व विप्र मया सार्द्धं कलिंदस्य फलं शुभम् ।। ३७ ।।
इत्युक्तः स तु तं प्राह विहस्य मधुर स्वरम् ।।
वृक्षे बिभीतके चैव कलिंदस्य फले तथा ।।
कलिः प्राप्तः स्मृतः प्राज्ञैस्तस्माद्गृह्णाम्यहं न हि ।। ३८ ।।
यदि दत्तं फलं भक्त्या त्वयाद्य द्विजसेविना ।।
शालग्रामाय वै दत्त्वा प्रसादं तद्भजाम्यहम् ।।
शालग्रामः स्वयं ब्रह्म सच्चिदानन्दविग्रहः ।। ३९ ।।
दर्शनात्तस्य चाभक्ष्यो भक्ष्यो भवति निश्चितः ।।
इति श्रुत्वा कलिस्तत्र लज्जितोऽभून्निराशकः ।।
द्विजस्तु तत्फलं गृह्य भूमिग्राममुपाययौ ।।3.4.8.४०।।
नृपतिस्तत्र चागत्य द्विजमाह प्रसन्नधीः ।।
किं गृहीतं त्वया विप्र दर्शयाशु प्रियं कुरु ।। ४१ ।।
इति श्रुत्वा प्रांशुशर्मा तत्फलं वत्समुंडवत् ।।
गृहीत्वा प्रददौ राज्ञे विस्मितो द्विजसत्तमः ।। ४२ ।।
तदा तु स कलिर्भूपस्तं विप्रं ताड्य वेतसैः ।।
कारागारे लोहमये कृतवान्न्यायमित्रकः ।। ।। ४३ ।।
प्रातःकाले रवौ प्राप्ते प्रांशुशर्मा सुदुःखितः ।।
तुष्टाव भास्करं देवं स्तोत्रैर्ऋग्वेदसंभवैः ।। ४४ ।।
तदा प्रसन्नो भगवान्रविः साक्षात्सनातनः ।।
विप्रस्य कर्णयोर्वाक्यमुवाच नभसेरितम् ।। ४५ ।।
शृणु विप्र महाभाग कालरूपो हरिः स्वयम् ।।
चतुर्युगं तेन कृतं विश्वपालादिहेतवे ।। ४६ ।।
कलिर्विश्वसमूहानां मृत्यवे रचितस्तथा ।।
अतो घोरे कलौ प्राप्ते विष्णुमायाविनिर्मितम् ।।
कलिञ्जरं च नगरं तत्रोष्य मुदितो भव ।। ४७ ।।
इत्युक्त्वा रक्षणं कृत्वा तस्य विप्रस्य भास्करः ।।
कलिञ्जरे च नगरे प्रेषयामास तं द्विजम् ।। ।। ४८ ।।
सपादशतवर्षं च द्विजस्तत्र वसन्रविम् ।।
आराध्य पुत्रपत्नीको रविलोकमुपाययौ ।। ४९ ।।
स वै भाद्रपदे मासि सूर्यो भूत्वायुताब्दकम्।।
पश्चाद्ब्रह्मपुरं प्राप्य परमानन्दमाप्तवान् ।।
इति ते कथितं विप्र यथा जीवस्तमब्रवीत् ।। 3.4.8.५० ।।
आगत्य भास्करो देवः पूर्णिमायां तु भाद्रके ।।
अष्टाविंशे कलौ प्राप्ते स्वयं जातः कलिञ्जरे ।। ५१ ।।
शिवदत्तस्य तनयो विष्णुशर्मेति विश्रुतः ।।
वेदशास्त्रकलाभिज्ञो वैष्णवो देव पूजकः ।। ५२ ।।
चतुर्वर्णान्नरान्विप्र समाहूय हरेर्गृहे ।।
वचनं प्राह धर्मात्मा विष्णुः सर्वेश्वरो हरिः ।। ५३ ।।
शृणु तत्कारणं शिष्य विश्वकारण कारकः ।।
भगवान्सच्चिदानन्दश्चतुर्विशतितत्त्ववान् ।।
देवान्ससर्ज लोकार्थे तस्मात्सर्वेश्वरोऽभवत् ।। ५४ ।।
पूर्वं हि सकलान्देवान्पूजयित्वा नरः शुचिः ।।
पश्चाच्च पूजयेद्विष्णुं यथा भृत्या नृपं पुनः ।। ५५ ।।
इति श्रुत्वा तु ते सर्वे प्रशस्य बहुधा हि तम् ।।
विष्णुस्वामीति तं नाम्ना कथां चक्रुश्च हर्षिताः ।।५६।।
इति ते कथितं विप्र विष्णुस्वामी यथाभवत् ।।
पुनः शृणु कथां रम्यां बृहस्पतिमुखेरिताम् ।।५७।।
।। जीव उवाच ।। ।।
पुरा चैत्ररथे देशे भगशर्मा द्विजोऽभवत् ।।
स्वर्वेश्या मंजुघोषायां मुनिमेधाविना भुवि ।। ५८ ।।
पितृमातृपरित्यक्तः स बालः श्रद्धयान्वितः ।।
सूर्यमाराधयामास तपसा शतवार्षिकम् ।। ९९ ।।
सूर्यमण्डलमध्यस्था सावित्री नाम देवता ।।
सर्वसूर्यस्य जननी कन्या तन्मण्डलस्य वै ।। 3.4.8.६०।।
प्रसन्ना तपसा तस्य प्रादुर्भूता सनातनी ।।
आश्विने मासि राजानं द्विजं चक्रे च मण्डले ।। ६१ ।।
लक्षवर्षसहस्राणि मासि मासि तथाश्विने ।।
प्रकाशं कृतवान्विप्रः पूजितो लोकवासिभिः ।। ६२ ।।
त्वं सूर्यं भज देवेन्द्र स ते कार्यं करिष्यति ।।
इति श्रुत्वाश्विने मासि स रविर्देवपूजनात् ।। ६३ ।।
प्रत्यक्षमगमत्तत्र वचः प्राह सुरान्प्रति ।।
कान्यकुब्जे शुभे देशे वाणीभूषण इत्यहम् ।।
भवामि सत्यदेवस्य विप्रस्य तनयः शुभः ।। ६४ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा भगवान्सूर्यो जातः कान्यपुरे शुभे ।।
जित्वा पाखंडिनो विप्रान्मांसभक्षणतत्परान् ।।
छंदोग्रंथं स्वनाम्ना वै कृतवान्दैवतप्रियः ।। ६५ ।।
मत्स्यमांसाशना विप्रा मृगमेषाजकाशनाः ।।
एकीभूय समागम्य चक्रुः शास्त्रार्थमुल्बणम् ।।६६।।
कलिनाऽधर्ममित्रेण रक्षितास्ते द्विजातयः ।।
तं द्विजं च पराजित्य मत्स्यकेतुं च तद्गृहे ।। ६७ ।।
बलाच्च स्तंभनं चक्रुस्तदा विष्णुप्रियो द्विजः ।।
वैष्णवीं शक्तिमागम्य स्वमुखान्मीनखादितान् ।। ६८ ।।
संजीव्य दर्शयामास ते दृष्ट्वा विस्मितास्तदा ।।
शिष्यभूताश्च ते तस्य वैष्णवं मतमा गमन् ।। ६९ ।।
।। जीव उवाच ।। ।।
कदाचित्सरयूतीरे देवयाजी द्विजोऽभवत् ।।
सर्वदेवपरो नित्यं वेदपाठपरायणः ।। 3.4.8.७० ।।
तत्सुतस्तु मृतिं प्राप्तो जन्ममात्रे हि दारुणे ।।
तदा तु स द्विजः श्रुत्वा सूर्यदेवमतोषयत् ।। ७१ ।।
जिजीव तत्प्रसादेन विवस्वान्नाम चाभवत् ।।
षोडशाब्द वपुर्भूत्वा सर्वविद्याविशारदः ।। ७२ ।।
अपत्यवान्धर्मपरः सूर्यवतपरायणः ।।
शिवरात्रिदिने प्राप्ते तत्पत्नी भूषणप्रिया ।। ७३ ।।
सुशीला नाम विख्याता पतिसेवार्थमागता ।।
स व्रती रुद्रदेवस्य दृष्ट्वा तां मधुराननाम् ।। ७४ ।।
बलाद्गृहीत्वा तु निशि बुभुजे स्मरविह्वलः ।।
मैथुनस्यैव दोषेण तस्य कुष्ठो महानभूत् ।। ७५ ।।
लिंगेद्रियं च पतितं गुदभ्रष्टो महांगरुक् ।।
केन चिदुपदेशेन रविवारस्य वै व्रतम् ।। ७६ ।।
स चक्रे द्वादशं प्रेम्णा निराहारो यतेन्द्रियः ।।
तेन व्रतप्रभावेण सर्वपीडा लयं गताः ।। ७७ ।।
तदा श्रद्धा रवौ प्राप्ता प्रत्यहं स द्विजोत्तमः ।।
आदित्य हृदयं जप्त्वा कामरूपो द्विजोऽभवत् ।। ७८ ।।
नारीभिर्भर्त्सितः पूर्वं सोथ कामिनीयाचितः ।।
ब्रह्मचर्यव्रतं कृत्वा ब्रह्मध्यानपरोऽभवत् ।। ७९ ।।
शतायुर्ब्राह्मणो भूत्वा ज्ञानवान्रोगवर्जितः ।।
त्यक्त्वा प्राणान्रविर्भूत्वा सूर्यमण्डलमध्यगात् ।। 3.4.8.८० ।।
कार्तिके मासि लक्षाब्दं प्रकाशं कृतवान्नभः ।।
तं च सूर्यं महेन्द्रस्त्वं पूजयाशु सुरैः सह ।। ८१ ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा महेन्द्रस्तु मासमात्रं हि भास्करम् ।।
पूजयित्वा विधानेन पूर्णिमायां ददर्श ह ।। ८२ ।।
उवाच शक्रं स रविर्देवकार्यं करोम्यहम् ।।
भट्टैर्विद्यामयैर्धूर्तैः सूत्रपाठश्च खंडितः ।। ८३ ।।
धातुपाठो न्यपठितो भ्रंशार्थः स्वरवर्णकः ।।
जित्वा तान्भट्टपाषंडान्वेदमुद्धारयामि भोः ।। ८४ ।।
इत्युक्त्वा स गतः काश्यां गेहे वै वेदशर्मणः ।।
दीक्षितान्वयभूतस्य नाम्ना कार्यगुणोऽभवत् ।। ८५ ।।
द्वादशाब्दवपुर्भूत्वा सर्वशास्त्रविशारदः ।।
शिवमाराधयामास विश्वनाथं शिवाप्रियम् ।। ८६ ।।
त्रिवर्षान्ते च भगवांस्तस्मै ज्ञानं महद्ददौ ।।
तस्य ज्ञानप्रभावेण व्यक्तमव्यक्तमुत्तमम् ।। ८७ ।।
ज्ञातं कार्यगुणेनैव दीक्षितेन तदा हृदि ।।
अव्यक्ते यदा बुद्धिः सा विद्या द्वादशांगिनी ।। ८८ ।।
व्यक्तेऽहंकारभूते च बुद्धिर्ज्ञेया बुधैरजा ।।
अविद्या नाम विख्याता षोडशांगस्वरूपिणी ।। ८९ ।।
अव्यक्तं तु परं ब्रह्म व्यक्तं शब्दमयं स्मृतम् ।।
अहंकारो लोककरो हि व्यक्तोऽष्टदशांगकः ।।3.4.8.९०।।
वृषरूपधरो मुख्यो नन्दियानः स्मृतो बुधैः ।।
शृङ्गाणि तस्य चत्वारि त्रिपादो द्विशिरा वृषः।।९१।।
सप्तहस्तस्त्रिधा बद्धो नित्यशुद्धो मुखे स्थितः।।
सुवन्तश्च तिङन्तश्च कृदंतश्चाव्ययस्तथा।।९२।।
द्वौद्वौ शृंगौ च शिरसोर्नंदियानस्य वै स्मृतौ ।।
भूतं भव्यं भवच्चैव त्रयः पादा हि तस्य वै ।। ९३ ।।
रूढिश्च योगरूढिश्च शब्दौ तस्य शिरोद्वयम् ।।
कर्ता कर्म च करणं संप्रदानं विभागतः ।। ९४ ।।
संवंधश्चाधिकारश्च भुजास्तस्य वृषस्य वै ।।
वाक्यं स्वरान्वितं ज्ञेयं विभत्त्यंतं पदं स्मृतम् ।। ९५ ।।
ताभ्यां बद्धश्च स वृषो नन्दियानाथ ते नमः ।।
तस्योपरिस्थितं नित्यमव्यक्तं लिंगरूपि यत् ।। ९६ ।।
जातश्च वृषलिंगाभ्यां सोऽहंकारो हरिः स्वयम्।।
नारायणः षोडशात्मा बहुमूर्तिरमूर्तिकः ।। ९७ ।।
इति ज्ञानं हृदि प्राप्य तदा सिद्धान्तकौमुदीम् ।।
जित्वा भट्टांश्चकाराशु भट्टोजिः प्रश्रुतोऽभवत् ।।९८।।
।। जीव उवाच ।। ।।
पुरा कांचीपुरे रम्ये गणको ब्राह्मणोत्तमः।।
पुरोधाः सत्यदत्तस्य राज्ञो वेदपरस्य वै ।। ९९ ।।
एकदा गणको धीमान्सत्यदत्तमुवाच ह ।।
मुहूर्तोऽभिजिदाख्योयं पुष्यनक्षत्रसंयुतः ।।
हाटं कुरु महाराज सांप्रतं बहुवृत्तिदम् ।। 3.4.8.१०० ।।
इति श्रुत्वा तथा कृत्वा डिंडिमध्वनिना पुरे ।।
नरानाज्ञापयामास तच्छृणुष्व सुरोत्तम ।। १०१ ।।
अक्रीतं यस्य वै वस्तु हाटेऽस्मिन्वैश्यकोविदैः ।।
मया क्रीतं च तज्ज्ञेयं सत्यमेतद्वचो मम ।। १०२ ।।
इति श्रुत्वा शूद्रजनाश्चक्रुर्नानाविधं वसु ।।
वैश्यैस्सर्वं तदा क्रीतं महान्हाटो हि सोऽभवत् ।। १०३ ।।
एकदा लोहकारश्च दारिद्रं लोहरूपिणम् ।।
कृत्वा हाटमुपागम्य शतमुद्रामयाचत ।। १०४ ।।
अक्रीतं पुरुषं राजा ज्ञात्वा लोहदरिद्रकम् ।।
क्रीतं तं शतमुद्राभिर्गृहीत्वा गेहमागमत् ।।
कोशागारे तदा राज्ञा स्थापितोभूद्दरिद्रकः ।। १०५ ।।
निशीथे तम उद्भूते कर्म धर्मश्च मा तथा ।।
भूपगेहात्समागत्य पश्यतस्तस्य निर्गताः ।। १०६ ।।
तत्पश्चात्सत्यपुरुषो राजानमिदमब्रवीत् ।।
दरिद्रो यत्र भूपाल तत्र कर्मपरो न हि ।।
कर्मणा रहितो धर्मो भूतले न स्थिरो भवेत् ।। १०७ ।।
धर्मेण रहिता लक्ष्मीर्न शोभेत कदाचन ।।
अहं लक्ष्म्या विहीनश्च न तिष्ठामि कदाचन ।। १०८ ।।
इत्युक्त्वा गन्तुमिच्छंतं गृहीत्वा करयोर्नृपः ।।
नम्रीभूतो वचः प्राह शृणु सत्यं मम प्रियम् ।। १०९ ।।
न त्याज्यो हि मया देव भवान्किङ्गन्तुमर्हति ।।
इति श्रुत्वा तु वचनं सत्यदेवो गृहेगमत् ।। 3.4.8.११० ।।
तत्पश्चाच्च स्वयं लक्ष्मीस्तद्गेहे गंतुमुद्यता ।।
तामाह भूपतिर्धीरो देवि त्वं चंचला सदा ।। १११ ।।
अचला भव भो मातस्तर्हि मन्मदिरं व्रज ।।
इति श्रुत्वा वरं दत्त्वा नृपगेहं ययौ तदा ।। ११२ ।।
पुरोधसं तं गणकं समाहूय नृपोत्तमः ।।
लक्षस्वर्णं ददौ तस्मै कथित्वा सर्वकारणम् ।। ११३ ।।
पुत्रजन्मनि काले तु संप्राप्तं तेन वै धनम् ।।
व्ययं कृत्वा धनं सर्वं पोषयामास बालकम् ।। ११४ ।।
पूषा नाम ततो जातं मार्गशीर्षे शुभे दिने ।।
स तु सूर्यं समाराध्य ज्योतिःशास्त्रपरः सुतः ।। ११५ ।।
सूर्ये तु मोक्षमगमद्देवदेवप्रसादतः ।।
तस्मात्त्वं मार्गमासे वै रविं देवेन्द्र पूजय ।।११६।।
।। सूत उवाच ।। ।।
देवेन्द्रपूजनात्सूर्यस्समागम्य तदा स्वयम् ।।
पूषा नाम वचो देवानुवाच मधुरस्वरम् ।।११७।।
उज्जयिन्यामहं देवा यास्ये रुद्रपशोर्गृहे ।।
नाम्ना च मिहिराचार्यो ज्योतिश्शास्त्रप्रवर्त्तकः ।। ११८ ।।
इत्युक्त्वा भगवान्पूषा पुत्रो जातो द्विजस्य वै ।।
मूलगडान्तविषयेऽभिजिद्योगे शुभंकरे ।। ११९ ।।
जातमात्रं च तं पुत्रं पिता काष्ठकटाहके ।।
धृत्वा क्षिप्त्वा नदीमध्ये निशीथे समवाहयत् ।। 3.4.8.१२० ।।
समुद्रमगमत्पुत्रो राक्षसीभिश्च रक्षितः ।।
लंकामागम्य तत्रैव ज्योतिःशास्त्रमधीत वान्।। १२१ ।।
जातकं फलितं चैव मूकप्रश्नं तथादितः ।।
पठित्वा राक्षसेंद्रं च विभीषणमुपागतम् ।। १२२ ।।
भक्तराज नमस्तुभ्यं विभीषण हरि प्रिय ।।
आहृतो राक्षसीभिश्च त्वामहं शरणं गतः ।। १२३ ।।
इति श्रुत्वा च स नृपो वैष्णवं द्विजमुत्तमम् ।।
मत्वा संप्रेषयामस यत्र तज्जन्मभूमिका ।। १२४ ।।
म्लेच्छैर्विनाशितं यत्तु वेदांगं ज्योतिषां गतिः ।।
पुनरुद्धारितं तेन त्रिधाभूतं सनातनम् ।। १२५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये मध्वाचार्यश्रीधराचार्यविष्णुस्वामि वाणीभूषणभट्टोजिदीक्षितवराहमिहिराचार्योत्पत्तिवर्णनो नामाऽष्टमोऽध्यायः ।।८।।