सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०७

विकिस्रोतः तः

ऋषय ऊचुः ।। ।।
बृहस्पतिस्तु भगवान्मुनिर्देवान्समास्थितान् ।।
किं प्रोवाच च माहात्म्यं मंडलस्थस्य वै रवेः ।।१।।
तत्सर्वं कृपया ब्रह्मन्ब्रूहि नस्तत्समुत्सुकान् ।।
इति श्रुत्वा वचस्तेषां सूतो वचनमब्रवीत् ।।२।।
बृहस्पतिं समासीनं जीवरूपं गुणालयम् ।।
प्रयागस्थो महेन्द्रश्च सुरैः सार्द्धमुवाच ह।।३।।
कथयस्व महाभाग सूर्यमाहात्म्यमुत्तमम्।।
यच्छ्रुतेन रविः साक्षात्प्रसन्नोद्य भवेत्प्रभुः।।४।।
बृहस्पतिरुवाच।।
धातृशर्मा द्विजः कश्चिदपत्यार्थे प्रजापतिम्।।
तपसा तोषयामास बर्हिष्मतिपुरे स्थितः।।५।।
पंचमाब्दे तु भगवान्संतुष्टश्च प्रजापतिः।।
सुतं कन्यां पुनः पुत्रं त्रीण्यपत्यानि संददौ ।।६।।
वर्षांतरे जनयित्वा त्र्यपत्य स द्विजोत्तमः ।।
धातृशर्मा परं हर्षमाप्तवान्पुत्रलालनैः ।। ७ ।।
विवाहाश्च कथं तेषां भवितव्या महोत्तमाः ।।
इति चिन्तान्वितो विप्रो गंधर्वेशं च तुम्बुरुम् ।। ८ ।।
हवनैस्तोषयामास वर्षमात्रविधानतः ।।
तुम्बुरुश्च तदागत्य तं चकार मनोरथम् ।। ९ ।।
प्रसन्नस्तु तदा विप्रो वधूर्जामातरं मुदा ।।
दृष्ट्वा तेषां विहारं च पुनश्चिंतां चकार ह ।। 3.4.7.१० ।।
भूषणानि च वासांसि धनानि विविधानि च ।।
तेषां कथं भविष्यंति निर्धनानां ममाशुच ।। ११ ।।
षष्टिवर्षमयो भूत्वा चंदनाद्यैर्धनाधिपम् ।।
विधिवत्पूजयामास वर्षमात्रं तु तत्परः ।। १२ ।।
तदा प्रसन्नो भगवान्ददौ तस्मै धनं बहु ।।
विद्यां यक्षमयीं रम्यां पंचस्वर्णप्रदां मुदा ।। १३ ।।
सहस्रजापी संपूज्य हवनं तद्दशांशकम् ।।
तर्पणं मार्जनं चैव कृत्वा वांछामवाप्तवान् ।।१४।।
इत्येवं वर्तमानस्य गतः कालो महान्स्वयम् ।।
मृत्योरागमनं तस्य जातं रोगसमन्वितम् ।। १५ ।।
पीडितस्तु रुजा विप्रः शंकरं लोकशंकरम् ।।
स्तुतिभिः श्रुतिरूपाभिस्तुष्टाव बलवर्जितः ।।
मासमात्रेण भगवान्ददौ ज्ञानं स्वयं हरः ।। १६ ।।
धातृशर्मा तु तत्प्राप्य भास्करं मोहनाशनम् ।।
सूर्यवारव्रतैस्तत्र तोषयामास नम्रधीः ।। १७ ।।
पंचाब्दे भगवान्सूर्यो भक्तिभावेन वत्सलः ।।
चैत्र्यां तमाह वचनं वरं ब्रूहि पुनः पुनः ।। १८ ।।
धातृशर्मा तु तच्छ्रुत्वा भास्करं मोहनाशनम् ।।
प्रश्रयावनतो भूत्वा तुष्टाव परया गिरा।। १९ ।।
।। धातृशर्मोवाच ।। ।।
प्रवृत्तिश्च निवृत्तिश्च मनसोस्य तनौ प्रिया ।।
रात्रिरूपा प्रवृत्तिश्च निवृत्तिर्दिनरूपिणी।।
भवतस्तेजसा जाते लोकबंधनहेतवे।।3.4.7.२०।।
अव्यक्ते तु स्थितं तेजो भवतो दिव्यसूक्ष्मकम्।।
त्रिधाभूतं तु विश्वाय तस्मै तेजात्मने नमः ।। २१ ।।
राजसी या स्मृता बुद्धिस्तत्पतिर्भगवान्विधिः।।
भवतस्तेजसा जातस्तस्मै ते विधये नमः।।२२।।
सात्त्विकी या तनौ बुद्धिस्तत्पतिर्भगवान्हरिः।।
भवता निर्मितस्सत्त्वात्तस्मै ते हरये नमः ।। २३ ।।
तामसी मोहना बुद्धिस्तत्पतिश्च स्वयं शिवः ।।
तमोभूतेन भवता जातस्तस्मै नमोनमः ।।
देहि मे भगवन्मोक्षं संज्ञाकांत नमोनमः ।। २४ ।।
।। बृहस्पतिरुवाच ।। ।।
इत्येवं संस्तुतस्तेन भगवान्धातृशर्मणा ।।
महेन्द्रवचनं प्राह तं द्विजं ज्ञानकोविदम् ।। २५ ।।
मोक्षश्चतुर्विधो विप्र सालोक्यं तपसोद्भवम् ।।
सामीप्यं भक्तितो जातं सारूप्यं ध्यानसंभवम् ।। ।। २६ ।।
सायुज्यं ज्ञानतो ज्ञेयं तेषां स्वामी परः पुमान् ।।
सगुणो विगुणो ज्ञेय आनन्दो मोक्षिणां क्रमात् ।। २७ ।।
देवानां चैव देहेषु ये मोक्षाः पुनरागताः ।।
यद्गत्वा न निवर्तंते तद्विष्णोः परमं पदम् ।। २८ ।।
यत्प्रसन्नेन विप्रेन्द्र सायुज्यं मे भवेत्तव ।।
मनुमात्रश्च यः कालस्तावत्ते मोक्ष आस्थितः ।।
इत्युक्त्वांतर्दधे देवस्तेन मोक्षीकृतो द्विजः ।। २९ ।।
।। सूत उवाच ।। ।।
इत्युक्तवंतं वागीशं चैत्रमासे दिवाकरः ।।
स्वरूपं दर्शयामास देवदेवः सनातनः ।। 3.4.7.३० ।।
शृणुध्वं सकला देवा यन्निमिताः समागताः ।।
वंगीये स्वांशमुत्पाद्य देवकार्यं करोम्यहम् ।। ३१ ।।
इत्युक्त्वा स्वमुखात्तेजः समुत्पाद्य दिवाकरः ।।
स्वभक्तायै सुकन्यायै द्विजपत्न्यै ददौ हि तत् ।। ३२ ।।
धातृशर्मा द्विजो यो वै सूर्ये मोक्षमुपागतः ।।
स वै तत्तेजसा जातः काव्यकारस्य मंदिरे ।। ३३ ।।
ईश्वरो नाम विख्यातः पुरीशद्वान्त आत्मवान् ।।
जित्वा विप्रान्वेदपरान्महतीं कीर्तिमाप्तवान्।।३४।।
इति ते कथितं विप्र यथा जीवनभाषितम् ।।
पुनः शृणु कथां रम्यां देवभ्यो जीवनिर्मिताम् ।। ३५ ।।
।। बृहस्पतिरुवाच।। ।।
मायावत्यां द्विजः कश्चिन्मित्रशर्मेति विश्रुतः ।।
काव्यविद्यापरो नित्यं रसिकः कामिनीप्रियः ।। ३६ ।।
कुंभराशिं मयि प्राप्ते गंगाद्वारे महोत्सवः ।।
बभूव बहु लैर्भूपेः कारितस्तीर्थतत्परैः ।। ३७ ।।
तत्रोत्सवे नरा नार्य्यो बहुभूषणभूषिताः ।।
समाययुर्दर्शनार्थे परमानन्दनिर्भराः ।। ३८ ।।
मित्रशर्मा तु स प्राप्य कामसेनस्य वै सुताम् ।।
काव्यकेलिकलायुक्तां द्वादशाब्दमयीं शुभाम्।। ३९ ।।
दाक्षिणात्यस्य भूपस्य तनयां मधुराननाम् ।।
दृष्ट्वा तां मृगशावाक्षीं तद्वशित्वमुपागतः ।। 3.4.7.४० ।।
सा तु तं चित्रिणी नाम्ना मित्रशर्माणमुत्तमम् ।।
दृष्ट्वा तु मूर्च्छिता चासीद्विप्रमूर्तिर्हदि स्थिता ।। ४१ ।।
स्वगेहं पुनरागत्य चित्रिणी भास्करं प्रभुम् ।।
प्रत्यहं पूजयामास बहुमानपुरस्सरा ।। ४२ ।।
मित्रशर्मा तु तत्स्थाने गंगाकूले मनोहरे ।।
प्रातः स्नात्वा शुचिर्भूत्वा वैशाखे जलमध्यगः ।। ४३ ।।
स्तोत्रमादित्यहृदयमजपत्सूर्यतत्परः ।।
प्रत्यहं द्वादशावर्तैस्तोषयामास भास्करम् ।। ४४ ।।
मासान्ते भगवान्सूर्यो ददौ तस्मै हि तं वरम् ।।
स तु लब्धवरो विप्रः स्वगेहं पुनरागतः ।। ४५ ।।
चित्रिणी तु वरं प्राप्ता वांछितं लोकभास्करात् ।।
पुनस्तौ पितरौ स्वप्ने भास्करेण प्रबोधितौ ।। ४६ ।।
मित्रशर्माणमाहूय वरयामासतुः सुताम् ।।
स्वान्ते निवासयामास कामसेनश्च दंपती।।४७।।
तौ तु चक्रं मुदाविष्टौ प्रत्यहं सूर्यदेवतम् ।।
ताम्रपात्रे च तद्यंत्रं लेखयित्वा विधानतः ।। ४८ ।।
ईजतू रक्तकुसुमैर्व्रतं कृत्वा रविप्रियम् ।। ४९ ।।
शताब्दवपुषौ चोभौ निर्जरौ श्रमवर्जितौ ।।
आरोग्यौ मरणं प्राप्य सामीप्यं च रवेर्गतौ ।। 3.4.7.५० ।।
इति श्रुत्वा रवेर्गाथां वैशाख्यां देवराट् स्वयम् ।।
प्रत्यक्षं भास्करं देवं ददर्श सहितं सुरैः ।। ५१ ।।
भक्तिनम्रान्सुरान्दृष्ट्वा भगवांस्तिमिरापहः ।।
उवाच वचनं रम्यं देवकार्यपरं शुभम् ।।
ममांशात्तनयो भूमौ भविष्यति सुरोत्तम ।। ५२ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा स्वस्य बिंबस्य तेजोराशिं समन्ततः ।।
समुत्पाद्य कृतः काश्यां रामानंदस्ततोभवत् ।। ५३ ।।
देवलस्य च विप्रस्य कान्यकुब्जस्य वै सुतः ।।
बाल्यात्प्रभृति स ज्ञानी रामनामपरायणः ।।
पित्रा मात्रा परित्यक्तो राघवं शरणं गतः ।। ५४ ।।
तदा तु भगवान्साक्षाच्चतुर्दशकलो हरिः ।।
सीतापतिस्तद्धृदये निवासं कृतवान्मुदा ।। ५५ ।।
इति ते कथितं विप्र मित्रदेवांशतो यथा ।।
रामानंदस्तु बलवान्हरिभक्तेश्च संभवः ।। ५६ ।।
।। बृहस्पतिरुवाच ।। ।।
शृणु शक्र कथां रम्यां ज्येष्ठमासस्य वै रवेः।।
अर्यमा नाम वै विप्रः पुरा सत्ययुगे ह्यभूत् ।।
वेदवेदांगतत्त्वज्ञो धर्मशास्त्रपरायणः ।। ५७ ।।
तस्य पत्नी पितृमती श्राद्धयज्ञस्य भूपतेः ।।
तनया च महासाध्वी सप्त पुत्रानकल्मषान् ।।
अर्यम्णो जनयामास धर्मशास्त्रपरायणन्।। ५८ ।।
एकदा स द्विजो धीमान्विचार्य्य बहुधा हृदि।।
धनार्थी भास्करं देवं तुष्टाव बहुपूजनैः ।। ५९ ।।
प्रभाते श्वेतकुसुमैश्चन्दनादिभिरर्चनैः ।।
मध्याह्ने रक्तकुसुमैः पीतपुष्पैः पितृप्रसौ ।। 3.4.7.६० ।।
मासमात्रं तु विधिना पूजयामास भास्करम् ।।
ज्येष्ठे वै भगवान्सूर्यो ददौ तस्मै मणिं शुभम् ।। ६१ ।।
तन्मणेश्च प्रभावेण प्रस्थमात्रं च कांचनम् ।।
प्रत्यहं जनयामास तेन धर्मः समर्जितः ।। ६२ ।।
वापीकूपतडागान्हि तथा हर्म्याणि भूतले ।।
कारयामास धर्मार्थी सूर्यदेवप्रसादतः ।। ६३ ।।
सहस्राब्द वपुर्भूत्वा निर्जरो निरुपद्रवः ।।
त्यक्त्वा कलेवरं रम्यं सूर्यलोकमुपाययौ ।।
उषित्वा तत्र लक्षाब्दं सूर्यरूपो बभूव ह ।। ६४ ।।
इत्येवं भास्करस्यैव माहात्म्यं कथितं मया ।।
तस्माच्छक्र सुरैः सार्द्धं भज मंडलगं रविम् ।। ६५ ।।
इति श्रुत्वा तु ते देवाः पद्यैः सूर्यकथा मयैः ।।
तोषयांचक्रिरे प्रेम्णा ज्येष्ठमासि रविस्त्वसौ ।।
प्रत्यक्षमभवत्तत्र देवानाह प्रसन्नधीः ।। ६६ ।।
सुदर्शनो द्वापरान्ते कृष्णाज्ञप्तो जनिष्यति ।। ६७ ।।
निम्बादित्य इति ख्यातो धर्मग्लानिं हरिष्यति ।।
।। सूत उवाच ।। ।।
शृणुष्व चरितं तस्य निम्बार्कस्य महात्मनः ।। ६८ ।।
यमाह भगवान्कृष्णः कुरु कार्यं ममाज्ञया ।।
मेरोश्च दक्षिणे पार्श्वे नर्मदायास्तटे शुभे ।। ६९ ।।
देशे तैलंगके रम्ये देवर्षिवरसेविते ।।
तत्रावतीर्य सद्धर्मान्नारदाद्देवदर्शनात् ।। 3.4.7.७० ।।
लब्ध्वा भूमौ वर्तयस्व नष्टप्रायान्ममाज्ञया ।।
माथुरे नैमिषारण्ये द्वारवत्यां ममाश्रमे ।। ७१ ।।
सुदर्शनाश्रमादौ च स्थितिः कार्या त्वयानघ ।।
ओमित्यादेशमादाय भगवाञ्श्रीसुदर्शनः ।। ७२ ।।
भक्ताभीष्टप्रदः साक्षादवतीर्णो महीतले ।।
देशे तैलंगके पुण्ये द्विजवर्यो महामना ।। ७३ ।।
सुदर्शनाश्रमे पुण्ये भृगुवंशसमुद्भवः ।।
नाम्नाऽऽरुण इति ख्यातो वेदवेदांगपारगः ।। ७४ ।।
ऋषिरूपधरश्चासीज्जयंत्या भार्यया सह ।।
समाहितं तेन तेजो विष्णुचक्रसमुद्भवम् ।। ७५ ।।
दधार मनसा देवी जयन्ती पतिदेवता ।।
तेजसा शुशुभे तेन चन्द्रेणेव दिशामला ।। ७६ ।।
अथ सर्वगुणोपेते काले परमशोभने ।।
कार्त्तिकस्य सिते पक्षे पूर्णिमायां वृषे विधौ ।। ७७ ।।
कृत्तिकाभे महारम्ये उच्चस्थे ग्रहपं चक्रे ।।
सूर्यावसानसमये मेषलग्ने निशामुखे ।। ७८ ।।
जयन्त्यां जयरूपिण्यां जजान जगदीश्वरः ।।
येन सर्वमिदं विश्वं वेदधर्मे नियोजितम्।। ।। ७९ ।।
विरिञ्चिरेकदा तस्मिन्निम्बार्कस्याश्रमे शुभे ।।
समागत्याह भो ब्रह्मन्प्राप्तोऽहं क्षुधयान्वितः ।। 3.4.7.८० ।।
यावत्सूर्यः स्थितो व्योम्नि तावन्मां भोजय द्विज ।।
इति श्रुत्वा तथेत्युक्त्वा ददौ तस्मै च भोजनम् ।। ८१ ।।
तदा तु भगवान्सूर्यो ह्यस्ताचलमुपागतः ।।
मुनिना ऋषिणा तेन निम्ब वृक्षे तदा शुभे ।। ८२ ।।
स्थापितं तेजसा स्वेन तेजस्तत्त्वं सुदर्शनम् ।।
तत्तेजः सूर्यसंकाशं दृष्ट्वा वेधाः स्मयान्वितः ।। ८३ ।।
भिक्षुवेषधरं बालं मुनिं सूर्यमिवापरम् ।।
ननाम दंडवद्भूमौ तपसा तस्य तोषितः ।।८४।।
उवाच वचनं रम्यं साधु साध्विति पूजयन्।।
निम्बादित्य इति ख्यातो वसुधायां भविष्यसि ।। ८५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये रामानंदनिंबार्कसमुत्पात्तिवर्णनं नाम सप्तमोऽध्यायः ॥ ७॥