भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ३२
।। सूत उवाच ।। ।।
द्वात्रिंशाब्दे च कृष्णांशे संप्राप्ते योगरूपिणी ।।
वेला नाम शुभा नारी हरिनागरसंस्थिता ।।
महावतीं समागम्य सभायां तत्र चाविशत् ।। १ ।।
एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः ।।
नत्वा परिमलं भूपं वेला वचनमब्रवीत् ।। २ ।।
महीपतिं प्रियं मत्वा कृष्णांशं नृप दुष्प्रियम् ।।
त्वया मे घातितो भर्ता ब्रह्मानंदो महाबलः ।। ३ ।।
महीराजसुतैर्धूर्तैस्तारकाद्यैर्महाबलैः ।।
नारीवेषं च चामुण्डो धुंधुकारेण कारितः ।। ४ ।।
स्वामिनं प्रति चागम्य ते जग्मुश्छद्मना प्रियम् ।।
कुरुक्षेत्रं स्थितः स्वामी महत्या मूर्छयान्वितः ।।
तस्माद्यूयं मया सार्द्धं गंतुमर्हथ तं प्रति ।। ५ ।।
इति घोरतमं वाक्यं श्रुत्वा सर्वे शुचान्विताः ।।
धिग्भूपतिं च मलनां ताभ्यां नो घातितः सखा ।। ६ ।।
इत्युक्त्वोच्चैश्च रुरुदुः कृष्णांशाद्या महाबलाः ।।
पत्राणि प्रेषयामासुः स्वकीयान्भूपती न्प्रति ।। ७ ।।
क्रोधयुक्ता तदा वेला लिखित्वा पत्रमुल्बणम् ।।
महीराजाय संप्रेष्य मलनागेहमागमत् ।। ८ ।।
तत्पत्रं च महीराजो वाचयित्वा विधानतः ।।
ज्ञात्वा तत्कारणं सर्वं तन्निशम्य विशाम्पतिः ।। ९ ।।
चिन्ताकलेवरं प्राप्य सुखनिद्रां व्यनाशयत् ।।
आहूय भूपतीन्सर्वान्घोरयुद्धोन्मुखोऽभवत् ।। 3.3.32.१० ।।
चतुर्विंशतिलक्षैश्च शूरैर्भूपसमन्वितैः ।।
कुरुक्षेत्रं ययौ शीघ्रं धृतराष्ट्रांशसंभवः ।। ११ ।।
तथा परिमलो भूपो लक्षषोडशसैन्यपः ।।
द्रुपदांशो ययौ शीघ्रं वेलया स्वकुलैः सह ।। १२ ।।
स्यमन्तपंचके तीर्थे शिबिराणि चकार ह ।।
ब्रह्मानंदः स्थितो यत्र समाधिध्यानतत्परः ।। १३ ।।
गंगाकूले च ते सर्वे कौरवांशा महाबलाः ।।
शिबिराणि विचित्राणि चक्रुस्ते विजयैषिणः ।।१४।।
कृत्वा ते कार्तिकीस्नानं दत्त्वा दानान्यनेकशः ।।
मार्गकृष्णद्वितीयायां युद्धभूमिमुपाययुः ।। १५ ।।
विष्वक्सेनीयभूपालो लहरस्तत्र चागतः ।।
कौरवांशाश्च तत्पुत्राः षोडशैव महाबलाः ।।
पूर्वजन्मनि यन्नाम तन्नाम्ना प्रश्रिता इह ।। १६ ।।
दुस्सहो दुश्शलश्चैव जलसंधः समः सहः ।।
विंदस्तथानुविंदश्च सुबाहुर्दुष्प्रधर्षणः ।। १७ ।।
दुर्मर्षणश्च दुष्कर्णः सोमकीर्तिरनूदरः ।।
शलः सत्त्वो विवित्सुश्च क्रमाज्ज्ञेया महाबलाः ।। १८ ।।
तोमरान्वयभूपालो बाह्लीकपतिरागतः ।।
त्रिलक्षैश्च तथा सैन्यैः सप्तपुत्रैश्च भूपतिः ।। १९ ।।
चित्रोपचित्रौ चित्राक्षश्चारुश्चित्रः शरासनः ।।
सुलोचनः सवर्णश्च पूर्वजन्मनि कौरवाः ।। 3.3.32.२० ।।
तेषामंशाः क्रमाज्जाता अभिनंदनदेहजाः ।।
महानंदश्च नंदश्च परानंदोपनंदकौ ।।
सुनंदश्च सुरानन्दः प्रनंदः कौरवांशकः ।। २१ ।।
नृपः परिहरवंशीयो मायावर्मा महाबली ।।
लक्ष सैन्ययुतः प्राप्तो दशपुत्रसमन्वितः ।। २२ ।।
दुर्मदो दुर्विगाहश्च नंदश्च विकटाननः ।।
चित्रवर्मा सुवर्मा च सुदुर्मोचन एव च ।। २३ ।।
ऊर्णनाभः सुनाभश्च चोपनंदश्च कौरवाः ।।
तेषामंशाः क्रमाज्जाताः सुता अंगपतेः स्मृताः २४ ।।
मत्तः प्रमत्त उन्मत्तः सुमत्तो दुर्मदस्तथा।।
दुर्मुखो दुर्दरो वायुः सुरथो विरथः क्रमात् ।। २५ ।।
शुक्लवंशीयभूपालो मूलवर्मा समागतः ।।
लक्षसैन्यैश्च बलवान्दशपुत्रसमन्वितः ।। २६ ।।
अयोबाहुर्महाबाहुश्चित्रांगश्चित्रकुण्डलः ।।
चित्रायुधो निषंगी च पाशी वृन्दारकस्तथा ।। २७ ।।
दृढवर्मा दृढक्षत्रः पूर्वजन्मनि कौरवाः ।।
तेषामंशा महीं जाता गृहे ते मूलवर्मणः ।। २८ ।।
बलश्च प्रबलश्चैव सुबलो बलवान्बली ।।
सुमूलश्च महामूलो दुर्गो भीमो भयंकरः ।। २९ ।।
कैकयश्चंद्रवंशीयो लक्षसैन्यसमन्वितः ।।
दशपुत्रान्वितः प्राप्तः कुरुक्षेत्रे महा रणे ।। 3.3.32.३० ।।
भीमवेगो भीमबलो बलाकी बलवर्द्धनः ।।
उग्रायुधो दंडधरो दृढसंधो महीधरः ।।३१।।
जरासंधः सत्यसंधः पूर्वजन्मनि कौरवाः ।।
तेषामंशाः समुद्भूताः कैकयस्य गृहे शुभे ।। ३२ ।।
कामः प्रकामः संकामो निष्कामो निरपत्रपः ।।
जयश्च विजयश्चैव जयंतो जयवाञ्जयः ।। ३३ ।।
नागवंशीयभूपालो नागवर्मा समागतः ।।
लक्षसेनान्वितः प्राप्तो दशपुत्रसमन्वितः ।।३४।।
पूर्वजन्मनि यन्नाम्ना तन्नाम्ना कौरवा भुवि।।
पुंड्रदेशपतेः पुत्रा जाता दश शिवाज्ञया ।।३५।।
उग्रश्रवा उग्रसेनः सेनानीर्दुष्परायणः।।
अपराजितः कुण्डशायी विशालाक्षो दुराधरः।।३६।।
दृढहस्तः सुहस्तश्च सुतास्ते नागवर्मणः ।। ३७ ।।
मद्रकेशः समायातस्तोमरान्वयसंभवः ।।
लक्षसैन्यैर्युतो राजा दशपुत्रसमन्वितः ।। ३८ ।।
वातवेगः सुवर्चाश्च नागदंतोग्रयाजकः ।।
आदिकेतुश्च वक्शी च कवची क्राथ एव च ।। ३९ ।।
कुण्डश्च कुण्डधारश्च कौरवाः पूर्वजन्मनि ।।
तन्नाम्ना भुवि वै जाता मद्र केशस्य मंदिरे ।। 3.3.32.४० ।।
नृपः शार्दूलवंशीयौ लक्षसैन्यसमन्वितः ।।
पूर्णामलो मागधेशो दशपुत्रान्वितो ययौ ।। ४१ ।।
वीरबाहुर्भीमरथश्चोग्रश्चैव धनुर्धरः।।
रौद्रकर्मा दृढरथोऽलोलुपश्चाभयस्तथा।।४२।।
अनाधृष्टः कुण्डभेदी कौरवाः पूर्वजन्मनि।।
पूर्णामलस्य वै गेहे तन्नाम्ना भुवि संभव।।४३।।
मंकणः किंनरो नाम रूपदेशे महीपतिः ।।
चीनदेशात्परे पारे रूमदेशः स्मृतो बुधैः ।।
नरः किन्नरजातीयो वसति प्रियदर्शनः ।। ४४ ।।
मंकणश्च तदा प्राप्तः किन्नरायुतसंयुतः ।।
अष्टपुत्रान्वितः प्राप्तो यत्र सर्वनृपाः स्थिताः ।। ४५ ।।
विरावी प्रथमश्चैव प्रमाथी दीर्घरोमकः ।।
दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः ।। ४६ ।।
पूर्वजन्मनि यन्नाम्ना तन्नाम्ना किन्नरा भुवि ।।
विरजोंशश्च यो जातो मंकणो नाम किन्नरः ।।४७।।
नेत्रसिंहः समायातो लक्षसैन्यसमन्वितः ।।
शल्यांशः स तु विज्ञेयः शार्दूलान्वयसंभवः ।। ४८ ।।
तदा गजपती राजा लक्षसैन्यसमन्वितः।।
संप्राप्तः शकुनेरंशस्त्यक्त्वा गेहे स्वपुत्रकान् ।।४९।।
मयूरध्वज एवापि लक्षसैन्यसमन्वितः ।।
मकरंदं गृहे त्यक्त्वा विराटांशः समागतः ।। 3.3.32.५० ।।
वीरसेनः समायातः कामसेनसमन्वितः ।।
लक्षसेनान्वितस्तत्र चोग्रसेनांशसंभवः ।।५१।।
लक्षणश्च समायातः सप्तलक्षबलैर्युतः ।।
संत्यज्य पद्मिनीं नारीं महा कष्टेन भूपतिः ।।५२।।
तालनो धान्यपालश्च लल्लसिंहस्तथैव च ।।
भीमस्यांशो युयुत्सोश्च कुंतिभोजस्य वै क्रमात् ।।५३ ।।
आह्लादश्च समायातः कृष्णांशेन समन्वितः ।।
जयन्तेन च वै वीरो लक्षसैन्यान्वितो बली ।। ५४ ।।
जगन्नायक एवापि शूरायुतसमन्वितः ।।
संप्राप्तो भगदत्तांशो गौतमान्वयसंभवः ।। ५५ ।।
अन्ये च क्षुद्रभूपाश्च सहस्राढ्याः पृथक्पृथक् ।।
कुरुक्षेत्रं परं स्थानं संययुर्मदविह्वलाः ।। ५६ ।।
मूलवर्मा च नृपतिः सपुत्रो लक्षसैन्यपः ।।
नृपं परिमलं प्राप्य संयुक्तो देहलीपतेः ।। ५७ ।।
कैकयो लक्षसेनाढ्यः सपुत्रो नृपतिः स्वयम् ।।
नृपं परिमलं प्राप्य स युद्धार्थमुपस्थितः ।। ५८ ।।
नेत्रसिंहश्च नृपतिः स वीरो लक्षसैन्यपः ।।
मयूरध्वज एवापि लक्षपः शशिवंशिनम् ।। ५९ ।।
वीरसेनश्च लक्षाढ्यः सपुत्रश्चांद्रिपक्षगः ।।
लक्षणः सप्तलक्षाढ्यो युद्धार्थं समुपस्थितः ।। 3.3.32.६० ।।
आह्लादो लक्षसैन्याढ्यः पक्षगश्चंद्रवंशिनः ।।
द्विलक्षसंयुतो राजा चन्द्रवंशो रणोन्मुखः ।।
एवं षोडशलक्षाढ्यः स्थितः परिमलो रणे ।। ६१ ।।
लहरो भूपतिश्रेष्ठो लक्षपः पुत्रसंयुतः ।।
महीराजमुपागम्य युद्धार्थं समुपस्थितः ।। ६२ ।।
अभिनन्दन एवापि सपुत्रो लक्षसैन्यपः ।।
मायावर्मा च नृपतिः सपुत्रो लक्षसैन्यपः ।। ६३ ।।
नागवर्मा समायातः सपुत्रो लक्षसैन्यपः ।।
मद्रकेशः सपुत्रश्च लक्षसैन्यो रणोन्मुखः ।। ६४ ।।
पूर्णामलः सपुत्रश्च लक्षपश्चैव पक्षगः ।।
मंकणः किन्नरो नाम सपुत्रस्तत्र संस्थितः ।। ६५ ।।
गजराजः समायातो महीराजं हि लक्षपः ।।
धुंधुकारः समायातः पञ्चलक्षपतिः स्वयम् ।। ६६ ।।
पुत्रः कृष्णकुमारस्य भगदत्तः समागतः ।।
त्रिलक्षबलसंयुक्तो महीराजं महीपतिम् ।। ६७ ।।
बलवाहनपुत्रश्च दशगोपालसंस्थितः ।।
अंगदस्तत्र संप्राप्तः सायुतो देवकी प्रियः ।।
महीराजमुपागम्य युद्धार्थं समुपस्थितः ।।६८।।
कलिंगश्च नृपः प्राप्तस्त्रिकोणश्च तथैव च ।।
श्रीपतिश्च तथा राजा श्रीतारश्च तथा गतः ।। ।। ६९ ।।
मुकुन्दश्च सुकेतुश्च रुहिलो गुहिलस्तथा ।।
इन्दुवारश्च वलवाञ्जयंतश्च तथाविधः ।।
सर्वे दशसहस्राढ्या महीराजमुपस्थिताः ।। 3.3.32.७० ।।
महीराजस्य पक्षे तु सहस्रं क्षुद्रभूमिपाः ।।
ते तु साहस्रसेनाढ्या महीराजमुपस्थिताः ।। ७१ ।।
तेषां मध्ये च वै भूपान्द्विशतान्देहलीं प्रति ।।
ससैन्यान्प्रेषयामास राष्ट्ररक्षणहेतवे ।।
एवं स देहलीराजश्चतुर्विंशतिलक्षपः ।। ७२ ।।
युद्धमष्टादशाहानि सञ्जातं सर्वसंक्षयम् ।।
शृणु युद्धकथां रम्यां भृगुवर्य सुविस्तरात् ।। ७३ ।।
मार्गकृष्णद्वितीयायां महीराजो महाबलः ।।
आहूय लहरं भूपं वचनं प्राह निर्भयः ।।९।।
भवान्सपुत्रः सेनाढ्यो धुंधुकारेण रक्षितः ।।
चामुण्डेन युतो युद्धे गन्तुमर्हति सत्तम ।।
इति श्रुत्वा ययौ शीघ्रं कुरुक्षेत्रे महारणे ।। ७५ ।।
तदा परिमलो राजा मयूरध्वजमेव हि ।।
समाहूय वचः प्राह शृणु पार्थिवसत्तम ।। ७६ ।।
कृष्णांशेन जयंतेन देवसिंहेन रक्षितः ।।
स भवाँल्लक्षसैन्याढ्यो गंतुमर्हति वै रणे ।। ।। ७७ ।।
इति श्रुत्वा तु वचनं मयूरध्वज एव हि ।।
लक्षसैन्यान्वितः प्राप्तो लहरं नृपतिं प्रति ।। ७८ ।।
तयोश्चासीन्महद्युद्धं सेनयोरुभयो रणे ।।
सेना तु लक्षवीरस्य तत्र युद्धे प्रकीर्तिता ।। ७९ ।।
एको रथो गजास्तत्र ज्ञेयाः पञ्चशतं रणे।।
हयाश्च पञ्चसाहस्रा पत्तयस्तद्गणा दश ।।
एते सैन्या नरा ज्ञेया सैन्यपांश्च शृणुष्व भोः ।।3.3.32.८०।।
दशानां पच्चराणां च पतिर्नाम्ना स पत्तिपः ।।
पंचानां च हयानां च पतिर्नाम्ना स गुल्मपः।।८१।।
पंचानां च गजानां च पतिर्नाम्ना गजाधिपः ।।
एतैः सार्द्धं रथी ज्ञेयो रणेऽस्मिन्दारुणे कलौ ।।८२।।
उष्ट्रारूढाः स्मृता दूताश्चत्वारिंशच्च तद्बले ।।
शतघ्न्यस्तत्र साहस्रास्तेषां मध्ये पृथक्पृथक् ।।
षड्त्रिंशद्वै पदचरास्तेषां कर्माणि मे शृणु ।। ८३ ।।
दश गोलकदातारो दशतत्पुष्टिकारकाः ।।
दश चार्द्रकरास्तां वै त्रयस्ते वह्निदायिनः ।।
त्रयो दृष्टिकरा ज्ञेयास्त्रियामेषु पृथक्पृथक् ।। ८४ ।।
शेषाः शूद्रास्तु सेनानां शूरकृत्यपरायणाः ।।
एवं च लक्षवीराणां सेना तत्र प्रकीर्तिता ।। ८५ ।।
तत्रासीत्तुमुलं युद्धं धर्मेण च समन्ततः ।।
प्रातःकालात्समारभ्य मध्याह्नं सैन्ययोर्द्वयोः ।। ८६ ।।
तत्पश्चाद्याममात्रेण सैन्यपा युद्धमागताः ।।
तत्पश्चाच्च महाशूरा धुंधुकारादयो बलाः ।।८७।।
याममात्रं च युद्धाय संस्थिता रणमूर्धनि ।।
चामुण्डेन च कृष्णांशो धुंधुकारेण चेन्दुलः ।। ८८ ।।
भगदत्तेन वै देवः कृतवान्युद्धमुत्तमम् ।।
सायंकाले तु संप्राप्ते सर्वे शूराः क्षयं गताः ।। ८९ ।।
कृष्णांशस्तत्र चामुण्डं जित्वा तु लहरात्मजान् ।।
षोडशैव जघानाशु घटीमात्रेण वीर्यवान् ।।
दध्मौ शंखं प्रसन्नात्मा लक्षणान्तमुपाययौ ।।3.3.32.९०।।
चामुंडो धुंधुकारश्च भगदत्तो युतः शतैः ।।
महीराजमुपागम्य सुषुपुर्निशि निर्भयाः ।। ९१ ।।
इंदुलो देवसिंहश्च सहस्रैः संयुतौ मुदा ।।
गत्वा परिमलं भूपं रात्रौ सुषुपतुस्तदा ।। ९२ ।।
प्रातःकाले तु संप्राप्ते तृतीयायां भयंकरे ।।
महीराजस्तदाहूय नृपं गजपतिं बली ।। ९३ ।।
वचनं प्राह भो राजँस्त्वं त्रिवीरैः सुरक्षितः ।।
स्वकीयैर्लक्षसैन्यैश्च गंतुमर्हसि वै रणे ।।९४ ।।
तदा परिमलो भूपो नेत्रसिंहं महीपतिम् ।।
युद्धायाज्ञापयामास कृष्णांशाद्यैः सुरक्षितम् ।। ९५ ।।
तयोश्चासीन्महयुद्धं सेनयोरुभयोः क्रमात् ।।
हया हयैः क्षयं जग्मुर्गजाश्चैव तथा गजैः ।।
पच्चराः पच्चरैः सार्द्धं शतघ्न्यश्च शतघ्निभिः ।।९६।।
अपराह्ने मुनिश्रेष्ठ नेत्रसिंहो महाबलः ।।
महागजं गजपतिं गत्वा युद्धमचीकरत् ।।९७।।
परस्परं च विरथौ संछिन्नधनुषौ तदा ।।
खड्गहस्तौ महीं प्राप्य चक्रतू रणमुल्बणम् ।।
अन्योन्येन वधं कृत्वा स्वर्गलोकमुपागतौ ।। ९८ ।।
इन्दुलस्तं तु चामुंडं देवो वै धुंधुकं तथा ।।
कृष्णांशो भगदत्तं च जित्वा राजानमाययुः ।। ९९ ।।
शेषैः पंचशतैः शूरैस्तैः सार्द्धं लक्षणं प्रति ।।
पराजिताश्च ते सर्वे सहस्रैः सहिता ययुः ।। 3.3.32.१००।।
प्रातःकाले तु संप्राप्ते महीराजो महाबलः ।।
मायावर्माणमाहूय वचनं प्राह निर्भयः ।। १०१ ।।
भवान्दशसुतैर्वीरैर्लक्षसैन्यैश्च संयुतः ।।
सर्वशत्रुविनाशाय गंतुमर्हति सत्तम ।।
इति श्रुत्वा स नृपतिर्वाद्यान्संवाद्य चाययौ ।। १०२ ।।
दृष्ट्वा परिमलो भूपो मायावर्माणमागतम् ।।
जगन्नायकमाहूय वचनं प्राह निर्भयः ।। १०३ ।।
भवान्दशसहस्रैश्च सार्द्धं तैस्त्रिभिरन्वितः ।।
गन्तुमर्हति युद्धाय शीघ्रं मद्विजयं कुरु ।। १०४ ।।
इति श्रुत्वा ययौ शीघ्रं सेनयोरुभयोर्महत् ।।
युद्धं चासीन्मुनिश्रेष्ठ याममात्रं भयानकम् ।। १०५ ।।
हतास्ते दशसाहस्रा कृष्णांशाद्यैः सुरक्षिताः ।। शं
खान्दध्मुश्च ते सर्वे चांगदेशनिवासिनः ।। १०६ ।।
एतस्मिन्नंतरे धीराः कृष्णांशाद्यास्तुरीयकाः ।।
याममात्रेण संजघ्नुर्लक्षसैन्यं रिपोस्तदा ।। १०७ ।।
अपराह्णे महाराजो मायावर्मा सुतैः सह।।
कृष्णांशं देवसिंहं च संप्राप्तो जगनायकम् ।।१ ०८।।
अथाङ्गभूपं दशपुत्रयुक्तं कृष्णांश एवाशु जगाम शीघ्रम् ।।
हयस्थितो वीरवरः प्रमाथी कलैकजातो मधुसूदनस्य ।।१ ०९।।
ततोंगभूपस्त्रिभिरेव बाणैरताडयन्मूर्ध्नि च पार्श्वयोर्वै ।।
अमर्ष माणो बलवान्महीपतिर्दंडैर्हतः काल इवाशु सर्पः।। ।। 3.3.32.११० ।।
हयं समुड्डीय सु पुष्करान्तं ततोभ्यगात्तं नृपतिं रथस्थम् ।।
हयस्य पातैर्विरथी चकार स एव भूपोऽसिमुपादधानः ।। १११ ।।
स्वेनासिना बिंदुलमंगशल्यं कृत्वा स कृष्णांशमुवाच वाक्यम् ।।
कल्लोलमायात्तव नाशनाय त्वया जिता भूपतयः प्रधानाः ।।१ १२।।
तदैव कीर्तिर्भविता ममाशु हत्वा भवंतं च सुखी भवामि ।।
इत्युक्तवन्तं नृपतिं महान्तं स्वेनासिना तस्य शिरो जहार ।। ११३ ।।
हतेऽङ्गभूपे दश तस्य पुत्रास्तमेव जग्मुर्युधि कौरवांशाः ।।
तानागतानिंदुल एव पंच जघान बाणैस्तु तदा समन्युः ।। ११४।।
उभौ च देवस्तु जघान तत्र भल्लेन सिद्धेन नृपात्मजौ च।।
ज्येष्ठं सुतं गौतम एव हत्वा द्वौ यौ स कृष्णांश उपाजघान।।११५।।
शंखान्प्रदध्मू रुचिराननास्ते प्रदोषकाले शिबिराणि जग्मुः।।
श्रमान्वितास्ते सुषुपुर्निशायां प्रातः समुत्थाय स्वकर्म कृत्वा।।११६।।
गत्वा सभायां नृपतिं प्रणम्य वाक्यं समूचुः शृणु चंद्रवंशिन्।।
अद्यैव सेनापतिरस्ति को वै चाज्ञापयास्मान्नृप तस्य गुप्त्यै।।११७।।
श्रुत्वाह भूपोद्य तु वीरसेनः सकामसेनः स्वबलैः समेतः।।
रणं करिष्यत्यचिरेण वीरास्तस्मात्सुरक्षध्वमरिभ्य एव।। ११८
स वीरसेनो नृपतिं प्रणम्य लक्षैः स्वसैन्यैर्युधि संजगाम।।
तदा महीराजनृपः प्रतापी स नागवर्माणमुवाच तापी ।। ११९ ।।
रणाय गच्छाशु सुतैः समेतो लक्षैः स्वसैन्यैरुत भूपवर्य ।।
हत्वा रिपुं घोरतमं हि वीरं पतिं महान्तं युधि वीरसेनम् ।। 3.3.32.१२० ।।
इत्युक्तवंतं नृपतिं प्रणम्य सुवादयामास तदा हि वीरः ।।
तयोर्बभूवाशु रणो महान्वै सुसेनयोः संकुलयुद्धकर्त्रोः ।। १२१ ।।
त्रियाममात्रेण हताश्च सर्वे विमानमारुह्य ययुश्च नाकम् ।।
हतेषु सर्वेषु च नागवर्मा सुतेषु वै यादवभूपमाह ।। १२२ ।।
भवान्विसैन्यश्च तथैव चाहं भवान्सपुत्रश्च तथाहमेव ।।
संस्मृत्य धर्मं कुरु युद्धमाशु ततो रथस्थः सुधनुर्गृहीत्वा ।। १२३ ।।
बाणैश्च बाणान्भुवि तौ च छित्त्वा बभूवस्तुस्तौ विरथौ नृपाग्र्यौ ॥
खड्गेन खड्गं च तथैव छित्त्वा विमानमारुह्य गतौ हि नाकम् ॥ १२४ ॥
स कामसेनः स्वरिपोश्च पुत्राञ्जघान बाणैश्च तदाष्टसंख्यान् ॥
ज्येष्ठौ तदा कोपसमन्वितौ तं गृहीतखड्गौ च समीयतुश्च ॥ १२५ ॥
रिपोः शिरो जह्रतुरुग्रवेगी स कामसेनश्च कबंध एव ॥
हत्वा रिपू तौ च तदा मिलित्वा स्वर्गं ययुस्ते च विमानरूढाः ।। १२६ ।।
हतेषु सर्वेषु तदा त्रयस्ते चामुंडकाद्या जगनायकं ते ।।
रुद्धा समेताः स्वशरैः कठोरैर्जघ्नुस्तमश्वं हरिनागरं च ।। १२७ ।।
स दिव्यवाजी च तदा स्वपक्षौ प्रसार्य्य खेनाशु रिपुं जगाम ।।
स पुंधुकारस्य गजं विहत्य चामुंडकस्यैव गजं विमर्द्य ।।१२८ ।।
रथं च भूमौ भगदत्तकस्य विचूर्ण्य शीघ्रं च नभो जगाम ।।
प्रवाद्य शंखं जगनायकश्च कृष्णांशमागम्य कथां चकार ।।१२९।।
निशामुषित्वा जगनायकाद्याः प्रातः समुत्थाय रणं प्रजग्मुः ।।
तदा महीराज उताशुका री स किन्नरेशं कणकं सपुत्रम् ।।3.3.32.१३०।।
उवाच राजञ्छृणु किन्नराणां महाबलास्ते रिपवो ममैते ।।
विनाशयाशु प्रबलारिघातान्देवैर्न सार्द्धं युधि वै मनुष्याः ।। १३१ ।।
इत्युक्तवान्मंकणभूपतिस्तु ययौ सपुत्रोऽयुतसैन्यपश्च ।।
तमागतं तत्र विलोक्य राजा वीरान्स्वकीयांश्च समादिदेश ।।१३२।।
मनोरथस्थो जगनायकश्च स तालनो वै वडवां विगृह्य ।।
करालसंस्थश्च तदा जयन्तो विगृह्य चापं तरसा जगाम।।१३३।।
पपीहकस्थश्च स रूपणो वै जगाम कृष्णांशसमन्वितश्च ।।
स लल्लसिंहो गजमत्तसंस्थः स धान्यपालो हयमारुरोह ।। १३४ ।।
समंततः किन्नरसैन्यघोरं विनाशयामासुरुपांशुखड्गैः।।
विनश्यमाने त्रिसहस्रसैन्ये स किन्नरेशस्तरसा जगाम ।।१३५।।
ध्यात्वा कुबेरं च गृहीतचापो नभोगतस्तत्र बभूव सूक्ष्मः।।१३६।।
अदृश्यमानः स्वशरैः कठोरैर्विनर्द्य सर्वान्हि ननर्द घोरम् ।।
विलप्यमाने च समस्तशूरे जयन्त एवाशु जगाम शत्रुम ।। १३७ ।।
ध्यात्वा महेंद्रं कणकं च बद्ध्वा कृष्णांशमागम्य पदौ ननाम ।।
तदा तु ते शत्रुसहस्रसैन्ये निशम्य बद्धं कणकं निजेंद्रम् ।। १३८ ।।
विनर्घ घोरं रुरुधुश्च सर्वान्माया विनो गुह्यकमस्त्रमूहुः ।।
दिनेषु सप्तेषु तथा निशासु बभूव युद्धं च समंततस्तैः ।। १३९ ।।
श्रमान्विताः सप्त महाप्रवीरा हतेषु सर्वेषु सुषुपुश्च वै यदा।।
तदा कुबेरं कणकश्च ध्यात्वा लब्ध्वा वरं बंधनमाशु छित्त्वा ।। 3.3.32.१४० ।।
सुप्तान्समुत्थाय च सप्त शूरान्निशीथकाले स चकार युद्धम् ।।
जित्वा च तान्षट् स वरप्रभावात्तदेंदुलेनैव रणं चकार ।। १४१ ।।
गृहीतखड्गौ रणघोरमत्तौ हत्वा ततो वै भुवि चेयतुश्च ।।
प्रजग्मतुर्नाकमुपान्तदेवौ संस्तूयमानौ सुरसत्तमैश्च ।। १४२ ।।
ततः प्रभाते विमले विजाते रुरोद रामांश उताललाप ।।
पापैः कलापैः परीपीड्यमानः कुलान्वितः सर्व युतो मुनींद्र ।। १४३ ।।
स पंचशब्दं गजमारुरोह त्रिलक्षसैन्यैस्तरसा जगाम ।।
तदा महीराज उताह शृण्वन्गच्छध्वमद्यैव मया समेताः ।। ।। १४४ ।।
स्वपंचलक्षैः प्रबलैश्च शूरैः सार्द्धं रुरोधाशु रिपोश्च सेनाम् ।।
तयोर्बभूवाशु रणः प्रघोरो विनर्दतोर्युदनिमित्तमाशु ।। १४५ ।।
त्रियाम मात्रेण हताश्च सर्वे द्वयोश्च पक्षा बलशालिनश्च ।।
तदा महीराज उताययौ वै समंडलीकश्च धनुर्विगृह्य ।। १४६ ।।
स धुंधुकारश्च तदाजगाम रथ स्थितं लक्षणमुग्रवीरम् ।।
तदोदयो वै भगदत्तमेव चामुंडकं भीष्मकराजसूनुः ।। १४७ ।।
स पंचशब्दं गजमास्थितो वै गतः स एवाशु जगाम भूपम् ।।
धनुर्विगृह्याशुगमुल्बणं च नृपस्थितश्चाथ भयंकरं च ।। १४८ ।।
गजं प्रमत्तं शिवदत्तमुग्रमाह्लादहन्तारमुवाच वाक्यम् ।।
अये प्रमत्ताग्रगजेंद्र शूर जयं च मे देहि शिवप्रदत्त ।। १४९ ।।
स मंडलीको रणदुर्मदश्च रामांश आह्लाद इति प्रसिद्धः।।
तस्माच्च मां रक्ष जवेन हस्तिन्महाबलात्काल रसाच्च वीरात् ।। 3.3.32.१५० ।।
इत्येवमुक्तो नृपतिं स हस्ती वचस्तमाहाशु शृणुष्व राजन्।।
यावदहं वै तनुजीवधारी तावद्भवाञ्छत्रुभयंकरश्च।।१५१।।
इत्युक्तवंतं च गजं प्रमत्तं स पंचशब्दश्च तदा स्वदंतैः ।।
मुखं चतुर्भिश्च विदार्य शत्रोर्ननर्द घोरं स महेंद्रदत्तः ।। १५२ ।।
स रुद्रदत्तश्च गजः प्रमत्तो रुषान्वधावत्तरसा गजेंद्रम् ।।
रिपुं स्वपद्भ्यां च चखान कुंभैः स्वतुंडदंडेन तुदं प्रकुर्वन् ।। १५३ ।।
अवाप मूर्छां च स पंचशब्दस्तदाशु भूपं प्रति मंडलीकः ।।
स्वतोमरेणांगव्रणं प्रदाय खड्गेन हत्वा गजराजमुग्रम् ।।
जगाम पद्भ्यां स रिपुप्रमाथी यत्र स्थितश्चेन्दुल उग्रधन्वा ।। ।। १५४ ।।
उत्थाप्य पुत्रं च विलप्यमानां पत्नीं स्वकीयां प्रति चाजगाम ।।
तदा प्रमत्तौ च गजौ समूर्छां त्यक्त्वा पुनश्चक्रतुरेव युद्धम् ।। ।। १५५ ।।
स लक्षणः खड्गवरेण बाणान्रिपोश्च छित्त्वा निजवैष्णवास्त्रम् ।।
दधार चापे च सुमंत्रयित्वा सधुंधुकारं च गजं ददाह ।। १५६ ।।
हते च तस्मिन्निजमुख्यबंधौ सभूमिराजश्च गृहीतचापः ।।
शरेण रौद्रेण च लक्षणं तं जघान तत्रादिभयंकरस्थः ।। १५७ ।।
स मूर्छितः शुक्ल कुलेषु सूर्यस्तदोदयो वै भगदत्तमेव ।।
सुमूर्छयित्वा च जगाम शीघ्रं यत्र स्थितो लक्षण एकवीरः ।। १५८ ।।
भयान्वितस्तं च विलोक्य राजा जवेन दुद्राव च रक्तबीजम् ।।
तदा सुदेवं च स रक्तबीजो जित्वा तु कृष्णांशयुतं जगाम ।। १५९ ।।
बाणेन शीघ्रं स च मूर्च्छयित्वा पुनश्च देवं च स मूर्छयित्वा ।।
तद्बंधनायोद्यत आशुकारी स लक्षणस्तत्र तदा जगाम ।। 3.3.32.१६० ।।
प्रधाय चापे च स वैष्णवास्त्रं प्रचोदयामास च रक्तबीजे ।।
तदा स सामन्तसुतो बलीयान्रणं विहायाशु विलोक्य संध्याम् ।।
भयान्वितः स्वैश्च युतो ययौ वै यत्र स्थिता भूपतयः सकोपाः ।। १६१ ।।
विलोक्य शत्रुं च स रत्नभानोः सुतो ययौ वै शिबिराणि युक्तः ।।
निशाम्य भूपः स च चंद्रवंशी जयं स्वकीयं सुषुपुस्तु ते वै ।।
प्रातश्च काले स च चंद्रवंशी विलोक्य शुक्लान्वयमाह भूपम्।।१६२।।
अये गु्र्जरदेशीय मूलवर्मन्सुतैः सह।।
लक्षसैन्यान्वितो भूत्वा गन्तुमर्हतु वै भवान्।। १६३।।
इत्युक्तः स तु भूपालो युद्धभूमिमुपाययौ।।
महीराजाज्ञया प्राप्तो नाम्ना पूर्णामलो बली।। १६४।।
दशपुत्रान्वितो युद्धे सैन्य लक्षेण संयुत्ः।।
तयोश्चासीन्महद्युद्धं यामद्वयमुपस्थितम्।।१६५।।
हतेषु तेषु सर्वेषु तौ नृपौ ससुतैर्बलौ ।।
अनोन्येन रणं कृत्वा यमलोक मुपागतौ ।। १६६ ।।
मार्गकृष्णचतुर्दश्यां प्रभाते विमले रवौ ।।
कैकयो लक्षसेनाढ्यो दयापुत्रसमन्वितः ।।
लक्षणानुज्ञया प्राप्तस्तस्मिन्युधि भयानके ।। १६७ ।।
मद्रकेशस्तदा राजा दशपुत्रसमन्वितः ।।
लक्षसैन्यान्वितस्तत्र यत्र युद्धं समन्वभूत्।।
परस्परं हताः सर्वे दिनान्ते क्षत्रिया रणे ।। १६८ ।।
पुनः प्रभाते विमले भगदत्तो महाबली ।।
त्रिलक्षबलसंयुक्तो जगर्ज्ज रणमूर्द्धनि।। १६९।।
दृष्ट्वा तं लक्षणो वीरस्त्रिलक्षबलसंयुतः ।।
चकार तुमुलं घोरं सेनया च स्वकीयया ।। 3.3.32.१७० ।।
अपराह्णे हताः सर्वे सैनिका नृपयोस्तदा ।।
भगदत्तः स्वयं क्रुद्धो रथस्थो लक्षणं ययौ ।। १७१ ।।
लक्षणो रथमारुह्य स्वपितुः शत्रुजं नृपम् ।।
त्रिभिर्बाणैश्च संतोद्य भल्लेन समताडयत् ।। ।१७२ ।।
भगदत्तस्तदा क्रुद्धो विरथं तं चकार ह ।।
क्रुद्धवंतं रिपुं घोरं लक्षणः खङ्गपाणिकः ।।
हत्वा हयांस्तथा सूतं भगदत्तमुपाययौ ।। १७३ ।।
मर्दयित्वा च तच्चर्म च्छित्त्वा वर्म तदुद्भवम् ।।
त्रिधा चकार बलवान्भगदत्तं रिपोस्सुतम् ।। १७४ ।।
संध्याकाले हते तस्मिँल्लक्षणस्त्वरयान्वितः ।।
एकाकी शिविरं प्राप्तो हस्तिन्युपरि संस्थितः ।। १७५ ।।
भगदत्ते हते तस्मिन्स राजा क्रोधमूर्छितः ।।
स्वकीयान्सर्वभूपांश्च चामुंडेन समन्वितान् ।।
प्रेषयामास युद्धाय मार्गे च प्रतिपद्दिने ।। १७६ ।।
अंगदश्च कलिंगश्च त्रिकोणः श्रीपतिस्तथा ।।
श्रीतारश्च मुकुंदञ्च रुहिलो गुहिलस्तथा ।। १७७ ।।
सुकेतुर्नव भूपास्ते नवायुतबलैर्युताः ।।
वाद्यानि वादयामासुस्तस्मिन्युद्धमहोत्सवे ।। १७८ ।।
दृष्ट्वा ताँल्लक्षणो वीरो राजभिश्च स्वकीयकैः ।।
सार्द्धं जगाम युद्धाय तथा व्यूह्यायुधद्रिपून् ।। १७९ ।।
रुद्रवर्मा च नृपतिः शूरैर्दशसहस्रकैः ।।
अंगदं वैरिणं मत्वा तेन सार्द्धमयुध्यत ।। 3.3.32.१८० ।।
कालीवर्माऽयुतैस्सार्धं कलिंगं प्रत्यबुध्यत ।।
वीरसिंहोऽयुतैस्सार्द्धं त्रिकोणं प्रत्ययुध्यत ।। १८१ ।।
ततोनुजः प्रवीरश्च श्रीपतिं सोऽयुतैस्सह ।।
नृपः सूर्यो धरो वीरोऽयुताढयो बलवान्रणे ।।
श्रीतारं नृपमासाद्य महद्युद्धमचीकरत् ।।१८२।।
वामनोयुतसंयुक्तो मुकुंदं प्रति सोऽगमत् ।।
गंगासिंहश्च बलवान्महिलं प्रति सायुतः ।।१८३।।
लल्लसिंहोयुतैस्सार्द्धं गुहिलं प्रति सोऽगमत् ।।
त्रिशतानि ततो भूपाः सहस्राढ्याः पृथक्पृथक् ।।१८४।।
क्षुद्रभूपाः क्षुद्रभूपांस्त्रिशतानि समाययुः ।।
अन्योन्येन हताः सर्वे कृत्वा युद्धं भयानकम्।। १८५ ।।
चामुंडस्तु तदा दृष्ट्वा मृतकान्सर्वभूपतीन् ।।
लक्षणान्तमुपागम्य महद्युद्धं चकार ह ।।१८६।
लक्षणो रक्तबीजं तं ज्ञात्वा ब्राह्मणसंमतम् ।।
वैष्णवास्त्रं तदा तस्मै न ददौ तेन पीडित।।१८७।।
सायंकाले तु संप्राप्ते लक्षणो हस्तिनीस्थितः ।।
एकाकी शिविरं प्राप्तश्चामुंडं नृपमाययौ ।। १८८ ।।
द्वितीयायां प्रभाते च कृष्णांशो देवसंयुतः ।।
शूरैर्दशसहस्रैश्च युद्धभूमिमुपाययौ ।। १८९ ।।
तारकश्च सचामुंडो द्विलक्षबलसंयुतः ।।
द्विशतैश्च तथा भूपैः सार्द्धं युद्धमुपस्थितौ।।3.3.32.१९०।।
पुरस्कृत्य ,नृपान्सर्वान्ससैन्यौ बलवत्तरौ ।।
तेषामनु स्थितौ युद्धे तत्र जातो महारणः ।। १९१ ।।
याममात्रेण तौ वीरौ हत्वा सर्वमहीपतीन् ।।
लक्षसैन्यांस्तथा हत्वा संस्थितौ श्रमकर्षितौ।।१९२।।
चामुंडस्तारको धूर्तः संप्राप्तौ छिद्रदर्शिनौ ।।
ताभ्यां श्रमान्विताभ्यां च चक्रतुस्तौ समं रणम्।।१९३।।
तेषां त्रियाममात्रेण संबभूव महान्रणः ।।
सायंकाले तु संप्राप्ते कृष्णांशश्च निरायुधः ।।
तलप्रहारेण रिपुं मूर्च्छयामास वीर्यवान् ।।१९४।।
एतस्मिन्नंतरे वीरस्तारको देवसिंहकम् ।।
हयं मनोरथं हत्वा शंखशब्दमथाकरोत् ।। १९५ ।।
तच्छब्दात्स च चामुंडस्त्यक्त्वा मूर्छां महाबलः ।।
कृष्णांशस्य शिरः कायादपहृत्य च वेगवान् ।।
तयोर्गृहीत्वा शिरसी महीराजमुपाययौ ।। १९६ ।।
महीराजस्तु ते दृष्ट्वा परमानंदनिर्भरः ।।
दत्त्वा दानं द्विजातिभ्यो महोत्सवमकारयत् ।। १९७ ।।
लक्षणस्य तदा सैन्ये हाहाशब्दो महानभूत् ।।
श्रुत्वा कोलाहलं तेषां ज्ञात्वा तौ च हतौ नृपः ।।
ब्रह्मानंदस्तदा मूर्च्छां त्यक्त्वा वेलामुवाच ह ।। १९८ ।।
प्रिये गच्छ रणं शीघ्रं हरिनागरमास्थिता ।।
मम वेषं शुभं कृत्वा तारकं जहि मा चिरम् ।। १९९ ।।
इति श्रुत्वा तु सा वेला रामांशेन समन्विता ।।
सहस्रशूरसहिता युद्धभूमिमुपाययौ ।। 3.3.32.२०० ।।
श्रुत्वा स लक्षणो वीरस्तालनेन समन्वितः ।।
सैन्यैश्च दशसाहस्रैर्महीराजमुपाययौ ।।२०१।।
तृतीयायां प्रभाते च तारको बलवत्तरः ।।
ब्रह्मानंदं च तं मत्वा महद्युद्धमची करत् ।। २०२ ।।
रक्तबीजश्च चामुंडो रामांशो बलवत्तरः ।।
चकार दारुणं युद्धं तस्मिन्वीरसमागमे ।। २०३ ।।
याममात्रेण रामांशो हत्वा तस्य महागजम् ।।
तच्छस्त्राणि तथा च्छित्वा मल्लयुद्धमचीकरत् ।। २०४ ।।
त्रियाममात्रेण तदा सायंकाले समागते ।।
ममंथ भ्रातृहन्तारं स च वीरो ममार ह ।। २०५ ।।
तदा वेला महाशत्रुं तारकं बलवत्तरम् ।।
छित्त्वास्त्राणि स्वखड्गेन शिरः कायादपाहरत् ।। २०६ ।।
चितां कृत्वा विधानेन सा देवी द्रुपदात्मजा ।।
ब्रह्मानंदं नमस्कृत्य तच्चितायां समारुहत् ।। २०७ ।।
तेन सार्द्धं च सा शुद्धा श्वशुरस्याज्ञया मुदा ।।
सप्तजन्मकथां कृत्वा स्वपतेस्तु ददाह वै ।। २०८ ।।
तच्चितायां च भर्तारमिंदुलं बलवत्तरम् ।।
संस्थाप्य दाहयामास तेन सार्द्धं कलेवरम् ।। २०९ ।।
रात्रौ परिमलो राजा लक्षणेन समन्वितः ।।
महीराजमुपागम्य महद्युद्धमकारयत् ।। 3.3.32.२१० ।।
सपादलक्षाश्च तदा हतशेषा महाबलाः ।।
त्रिलक्षैर्हतशेषैश्च सार्द्धं योद्धुमुपस्थिताः।।२११।।
धान्यपालः शतं भूपाँल्लक्षणश्च तथा शतम्।।
तालनश्च शतं भूपान्हत्वा राजानमाययौ।।२१२।।
महीराजस्तदा दुःखी ध्यात्वा रुद्रं महेश्वरम्।।
निशीथे समनुप्राप्ते हतशेषैस्समागतः।।
एकाकी गजमारुह्य ययौ चादिभयंकरम्।। २१३।।
रुद्रदत्तेन बाणेन हत्वा परिमलं नृपम्।।
धान्यपालं तथा हत्वा तालनं बलवत्तरम् ।।
लक्षणान्तमुपागम्य महद्युद्धमचीकरत् ।। २१४ ।।
महीराजस्य रौद्रास्त्रैस्सैन्यास्सर्वे क्षयं गताः ।।
लक्षणं प्रति रौद्रास्त्रं महीराजः समादधे ।। २१५ ।।
तदा तु लक्षणो वीरो वैष्णवास्त्रं समादधे ।।
तेनास्त्रेण क्षयं जातो महीराजस्य सायकः ।।
तेनास्त्रतेजसा राजा महासंतापमाप्तवान् ।। २१६ ।।
ध्यात्वा रुद्रं महादेवं त्यक्त्वा विद्यां च वैष्णवीम् ।।
स्वभल्लेन शिरः कायादपाहरत भूमिपः ।। २१७ ।।
हस्तिनी च तदा रुष्टा गजमादिभयंकरम् ।।
गत्वा युद्धं मुहूर्तेन कृत्वा स्वर्गमुपाययौ ।। २१८ ।।
उषःकाले च संप्राप्ते मलना पतिमुत्तमम् ।।
तच्चितायां समारोप्य ददाह स्वं कलेवरम्।। २१९ ।।
तदा तु देवकी शुद्धं लक्षणं बलवत्तरम्।।
तालनादींस्तथा हुत्वा ददाह स्वं कलेवरम् ।। 3.3.32.२२० ।।
प्रभाते विमले जाते चतुर्थे भौमवासरे ।।
तथा हुत्वा स्वर्णवती कृत्वा तेषां तिलांजलिम् ।।
ध्यात्वा सर्वमयीं देवीं स्थिरीभूय स्वयं स्थितः ।। २२१ ।।
एतस्मिन्नंतरे तत्र कलिर्भार्यासमन्वितः ।।
वांछितं फलमागम्य तुष्टाव श्लक्ष्णया गिरा ।। २२२ ।।
।। कलिरुवाच ।। ।।
नम आह्लाद महते सर्वानंदप्रदायिने ।।
योगेश्वराय शुद्धाय महावतीनिवासिने ।। २२३ ।।
रामांशस्त्वं महाबाहो मम पालनतत्परः ।।
कलैकया समागम्य भुवो भारस्त्वया हृतः ।। २२४ ।।
राजानः पावकीयाश्च तपोबलसमन्विताः ।।
हत्वा तान्पञ्चसाहस्रान्क्षुद्रभूपाननेकशः ।।
योगमध्ये समासीनो नमस्तस्मै महात्मने ।। २२५ ।।
तेषां सैन्याः षष्टिलक्षाः क्रमाद्वीर त्वया हताः ।।
वरं ब्रूहि महा भाग यत्ते मनसि वर्तते ।। २२६ ।।
इति श्रुत्वा स आह्लादो वचनं प्राह निर्भयः ।।
मम कीर्तिस्त्वया देव कर्तव्या च जने जने ।। २२७ ।।
पुनस्ते कार्यमतुलं करिष्यामि शृणुष्व भोः ।।
महीराजश्च धर्मात्मा शिवभक्तिपरायणः ।।
तस्य नेत्रे मया शुद्धे कर्तव्ये नीलरूपके ।। २२८ ।।
तव प्रियः सदा नीलस्तथैव च मम प्रियः ।।
देवानां दुःखदो देव दैत्यानां हर्षवर्द्धनः ।। २२९ ।।
इत्युक्त्वा स तु रामांशो गजमारुह्य वेगतः ।।
महीराजमुपागम्य महद्युद्धं चकार ह ।। 3.3.32.२३० ।।
रुद्रदत्तो गजस्तूर्णं पंचशब्दमुपस्थितः ।।
पद्मदंतान्समारुह्य युयुधाते परस्परम्।। २३१ ।।
अन्योन्येन तथा हत्वा गजौ स्वर्गमुपेयतुः ।। २३२ ।।
तदा भयातुरो राजा त्यक्त्वा युद्धं भयंकरम्।।
स तु दुद्राव वेगेन रामांशोऽनुययौ ततः ।। २३३ ।।
केशेषु च महीराजं गृहीत्वा तरसा बली ।।
कलिदत्तं महानीलं नेत्रयोस्तेन तत्कृतम् ।। २३४ ।।
तदाप्रभृति वै शम्भुरशुद्धं नृपतिं प्रियम् ।।
मत्वा त्यक्त्वा ययौ स्थाने कैलासे गुह्यकालये ।। २३५ ।।
आह्लादः कलिना सार्द्धं कदलीवनमुत्तमम्।।
गत्वा योगं चकाराशु पर्वते गंधमादने ।। २३६ ।।
तथाभूतं च रामांशं कलिर्दृष्ट्वा मुदान्वितः ।।
बलिपार्श्वमुपागम्य वर्णयामास सर्वशः ।। २३७ ।।
स वै बलिर्दैत्यराजोऽयुतैः सह विनिर्गतः ।।
गौर देशमुपागम्य सहोड्डीनमुवाच ह ।। २३८ ।।
गच्छ वीर बलैस्सार्द्धं निशायां रक्षितो मया ।।
हत्वा भूपं महीराजं विद्युन्मालां गृहाण भोः ।।२३९।।
इति श्रुत्वा वचस्तस्य षोडशाब्दांतरे गते ।।
सपादलक्षैश्च बलैः कुरुक्षेत्रमुपाययौ ।। 3.3.32.२४० ।।
महीराजसुताञ्जित्वा समाहूय महावतीम् ।।
महीपतिं प्रेषयित्वा लुण्ठयित्वा च तद्वसु ।।२४१।।
लिंगार्थं कृतवान्यत्नं स नृपः कीर्तिसागरे ।।
न प्राप्तस्स नृपस्तं वै स्वगेहाय तदा ययौ ।।२४२।।
लक्षचंडीं कारयित्वा परमानंदमाप्तवान्।।
जयचंद्रस्तु तच्छ्रुत्वा पुत्रशोकसमन्वितः ।। २४३ ।।
निराहारो यतिर्भूत्वा मृतः स्वर्गपुरं ययौ ।।
सहोड्डीनेन स नृपः कृत्वा युद्धं भयंकरम् ।। २४४ ।।
सप्ताहोरात्रमात्रेण म्लेच्छराजवशं गतः ।।
मारितो बहुयत्नेन महीराजो न वै मृतः ।। २४५ ।।
तदा म्लेच्छस्सहोड्डीनो निर्बंधनमथाकरोत् ।।
ज्योतिरूपस्थितं तत्र चंद्रभट्टो नृपाज्ञया ।।
क्षुरप्रेण च बाणेन हत्वा वह्नौ ददाह वै ।। २४६ ।।
विद्युन्मालां स च म्लेच्छो गृहीत्वा च धनं बहु ।।
तत्रास्थाप्य स्वदासं च कुतुकोड्डीनमागतः ।। २४७ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वात्रिंशोऽध्यायः।। ३२ ।। इति तृतीयखण्डं समाप्तम् ।।