भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
शृणु विप्र महाभाग चंद्रभट्टस्तदा स्वयम् ।।
महीराजं सदःस्थं तं चन्द्रतुल्यस्समागतः ।। १ ।।
तमागतं समालोक्य स राजा शोकतत्परः ।।
उवाच वचनं रम्यं शृणु मंत्रिवर प्रभो ।। २ ।।
कृष्णांशाद्यैर्महाशूरैर्मद्ग्रामे भयमागतम् ।।
कदा ते च मरिष्यंति कंटका मम दारुणाः ।। ३ ।।
इत्युक्तस्स तु शुद्धात्मा ध्यात्वा सर्वमयीं शिवाम् ।।
वचनं प्राह राजानं स्थ भूपशिरोमणे ।। ४ ।।
जिष्णोरंशात्समुद्भूतो ब्रह्मानंदो महावतीम् ।।
स कृष्णांशसखः श्रेष्ठः सर्वदा तत्प्रिये रतः ।। ५ ।।
यदा च मलनापुत्रो देहं त्यक्त्वा गमिष्यति ।।
तदा ते सर्वदेवांशा गमिष्यंति यतो गताः ।। ६ ।।
इत्येवंवादिनं धीरममात्यं च महीपतिः ।।
वचनं प्राह नम्रात्मा कोऽप्यर्थश्चिंतितो मया ।। ७ ।। ।
एकाकिनं महाशूरं ब्रह्मानंदं नृपोत्तमम् ।।
समाहूय महीराजो द्विरागमनहेतवे ।।
छद्मना घातयित्वा तं कृतकृत्यो भविष्यति ।। ८ ।।
इत्युक्ते नृपतिं प्राह महीराजः प्रसन्नधीः ।।
वचनं शृणु भो मित्र गच्छ शीघ्रं महावतीम् ।। ९ ।।
मलनां च समागत्य बोधयित्वा तु तां स्वयम् ।।
ममान्तिकमुपागम्य चिरं जीव सुखीभव ।। 3.3.31.१० ।।
इति श्रुत्वा तु वचनं नत्वा तं च महीपतिः ।।
रात्रौ घोरं मुनिश्रेष्ठ मलनां प्राह निर्भयः ।।११ ।।
वधूस्तव महाराज्ञि वेला नाम सुरूपिणी ।।
संप्राप्ता यौवनवती पतियोग्या शुभानना ।। १२ ।।
कुजातिश्चैव कृष्णांशः श्रुतो राज्ञा महात्मना ।।
अतो न प्रेषिता पुत्री तव पुत्राय धीमते ।।
अतो मद्वचनं मत्वा कुरु कार्यं तव प्रियम् ।। १३ ।।
मया सार्द्धं तव सुतो ब्रह्मानंदो महाबलः ।।
उर्वीयां नगरीं प्राप्य तदा मत्सैन्यसंयुतः ।। १४ ।।
महीराजमुपागम्य पत्नीं शीघ्रमवाप्स्यति ।।
नो चेन्ममाज्ञया वेला त्यक्त्वा कान्तं मरिष्यति ।। १५ ।।
इति श्रुत्वा तु सा राज्ञी मोहिता देवमायया ।।
राजानं समुपागम्य भ्रातुर्वचनमुत्तमम् ।।
कथयामास वै सर्वं श्रुत्वा भूपोऽब्रवीदिदम् ।। १६ ।।
महीपतिर्महाधूर्तो मद्विनाशाय चोद्यतः ।।
तस्य वार्ता न मे रम्या कपटस्तेन निर्मितः ।। १७ ।।
 इति श्रुत्वा च मलना राजानं कोपसंयुतम् ।।
वचनं प्राह भो राजन्यथा बंधुस्तथा ह्यहम्।।
वचनं कुरु मे राजन्नो चेत्प्राणांस्त्यजाम्यहम्।।१८।।
इत्युक्तवादिनीं रात्रौ तदा परिमलो नृपः ।।
ब्रह्मानन्दं ददौ तस्मै स सुतो मातृवत्सलः ।। १९ ।।
मातुराज्ञां पुरस्कृत्य मातुलेन समन्वितः ।।
रात्रौ च मातुलग्रामं संप्राप्य मुदितोऽभवत् ।।3.3.31.२०।।
प्रातःकाले च संप्राप्ते हरिनागरमास्थितः ।।
एकाकी देहलीं रम्यां प्रययौ देवमोहितः ।। २१ ।।
सायंकाले तु संप्राप्ते महीराजस्य मंदिरे ।।
अगमां दर्शयामास सुरूपां दिव्यविग्रहाम् ।। २२ ।।
अगमा च समालोक्य परं हर्षमुपाययौ ।।
माघशुक्लस्य चाष्टम्यां ब्रह्मानंदश्च निर्भयः ।।
श्यालानां योषितः सप्त ददर्श रुचिरानना ।। २३ ।।
तिस्रो नार्यश्च विधवाश्चतस्रो धवसंयुताः ।।
ब्रह्मानंदं शरुमयं वाक्यमूचुर्मुदान्विताः ।। २४ ।।
ब्रह्मानंद महाभाग सावधानं वचः शृणु ।।
तव पत्नी स्वयं काली वेला कलहरूपिणी ।।
संजहार धवानेव नो वयं तु सुदुःखिता ।। २५ ।।
सापत्न्यमस्तु तत्तस्या गृहाणास्मान्मनोहर ।।
धवान्विदेहि नो वीर पतिर्भव मुदान्वितः ।। २६ ।।
इति श्रुत्वा वचस्तासां ब्रह्मानंदो महाबलः ।।
उवाच मधुरं वाक्यं श्रुतिस्मृतिसमन्वितम् ।। २७ ।।
पुरा सत्ययुगे नारी चोत्तमा च पतिव्रता ।।
त्रेतायां मध्यमा जाता निकृष्टा द्वापरे पुनः ।। २८ ।।
अधमा हि कलौ नारी परपुंसोपभोगिनी ।।
अतस्तु कलिकाले वै विहाहो? विधवास्त्रियाः ।।
देवलेन शुभः प्रोक्तश्चासितेन स्वयं स्मृतौ ।।२९।।
सती सत्ये तु सा प्रोक्ता त्रेतायां पतिभस्मगा ।।3.3.31.३०।।
सती सा मध्यमा प्रोक्ता द्वापरे विधवा सती ।।
ब्रह्मचर्यपरा ज्ञेया कलौ नास्ति सतीव्रतम् ।। ३१ ।।
अतो यूयं मया सार्द्धं भुंक्षध्वममलं सुखम् ।।
इति श्रुत्वा प्रियं वाक्यं तिस्रस्ता विधवाः स्त्रियः ।। ३२ ।।
कृत्वा शृंगार रूपाणि भूषणानि च सर्वशः ।।
ब्रह्मानंदमुपागम्य समालिंगनतत्पराः ।।३३।।
ता दृष्ट्वा मलनापुत्रो वचनं प्राह निर्भयः ।।३४।।
युष्माभिः पतयो मुक्ता ये च मद्बंधुना हताः ।। ३५ ।।
युष्मानतो न गृह्णीयां सत्यंसत्यं ब्रवीम्यहम्।।
इति श्रुत्वा वचो घोरं हास्ययुक्तं च योषितः ।।३६।।
महीराजन्तमागम्य रुरुदुर्भृशदुःखिताः।।
राजन्वेलापतिर्धूर्तो मम धर्मं जहाति वै ।।
दंडं देहि च धूर्ताय नो चेत्प्राणांस्त्यजाम्यहम् ।। ३७ ।।
इति श्रुत्वा महीराजो ब्रह्मानन्दं महाबलम् ।।
समाहूय वचः प्राह भवान्भूपकुलाधमः ।। ३८ ।।
परस्त्रियं च यो भुंक्ते स याति यममंदिरम् ।।
अद्यैव त्वं सुताकान्त कारागृहमवाप्नुयाः ।। ३९ ।।
इतिश्रुत्वा वचो घोरं ब्रह्मानंदो महाबलः ।।
सत्सरोः खड्गमुत्सृज्य महीराजमधावत ।। 3.3.31.४० ।।
दृष्ट्वा भयातुरो राजा चामुंडान्तमुपाययौ।।
कपाटं दृढमाच्छाद्य तत्र वासमकारयत् ॥ ४१ ॥
॥ ऋषय ऊचुः।। ॥ ॥
तासां कथं विवाहाः स्युस्तत्त्वं नो ब्रूहि विस्तरात्।।
कुत्रत्यास्ताः किमंशाश्च दृष्टा योगेन वै त्वया ॥ ४२॥
॥ सूत उवाच। ॥
अंगदेशे मुनिश्रेष्ठ मायावर्मनृपोऽभवत् ॥
 तामसीं पूजयित्वा वै शक्तिं सर्वविमोहिनीम् ॥ ४३ ॥
वर्मोत्तमं तया दत्तं सर्वसत्त्वभयंकरम्।
गृहीत्वा स तु भूपालः प्रस्थितोऽभून्महीतले ॥४४॥
प्रमदा नाम तत्पत्नी दश पुत्रानसूषुवत् ॥
कौरवांशान्महाभाग वर्षान्ते नाम मे शृणु ॥४५॥
मत्तः प्रमत्त उन्मत्त सुमत्तो दुर्मदस्तथा॥
दुर्मुखो दुर्धरो बाहुः सुरथो विरथः क्रमात्।
तेषां स्वसानुजा चासीत्सुनाम्ना मदिरेक्षणा॥४६॥
तस्या वै सुंदरं रूपं मदाघूर्णितलोचनम् ॥
कितवो नाम वै दैत्यो दृष्ट्वा मोहमुपागतः ॥ ४७॥
मायावर्माणमागत्य वचनं प्राह नम्रधीः ॥
यदि त्वं मे स्वतनयां देहि कामातुराय च ॥४८॥
तर्हि ते सकलं कार्यं करिष्यामि न संशयः ॥
इति श्रुत्वा तदा भूपो ददौ तस्मै स्वकन्यकाम्॥४९॥
कितवो गह्वरावासी रात्रौ घोरे तमोवृते ॥
नृपगेहमुपागम्य बुभुजे स्मरविह्वलः ॥
प्रातःकाले तु तां त्यक्त्वा कन्दरान्तमुपाययौ॥3.3.31.५०॥
वर्मदेवमते जाते ततो राजा मदातुरः॥
पुरोहितं समाहूय लक्षद्रव्यसमन्वितम् ॥
महीराजाय संप्रेष्य तारकं स समावृणोत् ॥५१॥
महीराजस्तु बलवाँल्लक्षषोडशसैन्यपः॥
संयुतः शतभूपालैर्मासान्ते समुपागमत् ॥५२॥
कृष्णांशे पंचदशके संप्राप्ते व्रततत्परे।।
तारकश्च विवाहाय बहुभूपोंगमानयत्।।५३।।
मायावर्मा च तं दृष्ट्वा तारकं भूपसंयुतम्।।
वचनं प्राह बलवान्राजराज वचः शृणु।। ५४।।
कितवो नाम मेधावी दैत्यवंशयशस्करः।।
तेन मे पीडिता बाला रात्रौ घोरतमोवृते ॥५५॥
हता भूपकुमाराश्च मत्सुतार्थं समागताः।।
भक्षितास्तेन दैत्येन संययुस्ते यमालयम्॥ ५६ ॥
तेषां च बहुधा द्रव्यं लुंठयित्वा मदातुरः॥
मत्सुतायै ददौ सर्वं तस्मात्त्वं दितिजं जहि।।५७।।
इति श्रुत्वा महीराजस्सर्वसैन्यसमन्वितः ॥
कितवं च समाहूय महद्युद्धमचीकरत् ॥५८॥
कितवस्स तु मायावी जित्वा सर्वान्महाबलान्॥
तारकं च समाहृत्य गुहायां समुपागमत् ॥ ५९ ॥
तारकश्च तदा दुःखी ध्यात्वा शंकरमुत्तमम् ॥
पाषाणभूतो ह्यगमन्महादेवप्रसादतः ॥ 3.3.31.६० ॥
एतस्मिन्नंतरे प्राप्ता महावतीनिवासिनः ।।
क्षत्रिया दशसाहस्रा कृष्णांशाद्यैश्च पालिताः ।। ६१ ।।
महीराजस्तु तान्दृष्ट्वा बलखानिं महाबलम् ।।
उवाच वचनं प्रेम्णा पुत्रशोकेन दुःखितः ।। ६२ ।।
तारकः कितवेनैव संहृतो दितिजेन वै ।।
यदि त्वं मे सुतं देहि कोटिस्वर्णं ददामि तत् ।।६३।।
इति श्रुत्वा तु ते धीराः कृष्णांशो देवसिंहकः ।।
वत्सजौ च तथागम्य कितवं रुरुधुर्बलात् ।।६४।।
अहोरात्रमभूद्युद्धं तेषां तेन समन्वितम् ।।
कितवस्तु रुषाविष्टः कृष्णांशं देवसिंहकम् ।।
बलखानिं मोहयित्वा जगर्ज च पुनःपुनः ।। ६५ ।।
सुखखानिस्तदा शूरः कितवं बलवत्तरम् ।।
स्वखड्गेन शिरस्तस्य छित्त्वा राजानमागमत् ।। ६६ ।।
त्रयस्ते सुखिनो भूत्वा सुखखानिं प्रशस्य च ।।
महीराजाय च ददौ तारकं कैतवं शिरः ।। ।। ६७ ।।
तदा भूपसुता देवी सुखखानिं समावृणोत् ।।
महीपतिस्तदागत्य तत्सुतां मदिरेक्षणाम् ।। ६८ ।।
संबोध्य विविधैर्वाक्यैर्भूमिराजांतमागमत् ।।
तारकस्य तया सार्द्धं विवाहो मुदितोऽभवत् ।। ६९ ।।
कोटिस्वर्णं नृपात्प्राप्य बलखानिर्महाबलः ।।
प्रययौ बंधुभिस्सार्द्धं शिरीषाख्यपुरं शुभम् ।। 3.3.31.७० ।।
।। सूत उवाच ।। ।।
गुर्जरे नृपतिश्चासीन्मूलवर्मा महाबलः ।।
प्रभावती तस्य सुता दशपुत्रानुजाभवत् ।। ७१ ।।
बलश्च प्रबलश्चैव सुबलो बलवान्बली ।।
सुमूलश्च महाभूलो दुर्गो भीमो भयंकरः ।। ७२ ।।
करभो नाम वै यक्षो लल्लराजस्य सेवकः ।।
प्रभावतीं समालोक्य मुमोह मदविह्वलः ।।
पञ्चवर्षांतरे जाते तेन भुक्ता कुमारिका ।। ७३ ।।
मूलवर्मा महीराजं समाहूय ससैन्यकम् ।।
वचनं प्राह नम्रात्मा राजराज वचः कुरु ।। ७४ ।।
प्रभावतीं शुभां कन्यां नृहराय ददाम्यहम् ।।
इत्युक्त्वा नृहरं पुत्रं समाहूय स्वमंदिरे ।।
ददौ वेदविधानेन सुतां च नृहराय वै ।। ।। ७५ ।।
पक्षमात्रांतरे यक्षः करभस्तत्र चागतः ।।
दंपती पीडयामास जित्वा सर्वमहीपतीन् ।। ७६ ।।
महीराजस्तदा दुःखी वत्सजौ बलवत्तरौ ।।
समाहूय कथित्वाग्रे रुरोद बलवान्बली ।। ७७ ।।
दयालू वत्सजौ वीरौ करभांतमुपेयतुः ।।
करभस्तौ समालोक्य तत्रैवांतर्धिमागमत् ।।
नागपाशेन तौ बद्ध्वा पीडयामास दंपती ।। ७ ।।
इति श्रुत्वा स कृष्णांशः करभं यक्षकिंकरम् ।।
बद्ध्वा योगबलेनैव मोचयामास दम्पती ।। ७९ ।।
भ्रातरौ तौ समागम्य नागपाशं तु चासिना ।।
छित्त्वा मुमोद बलवान्कोटिस्वर्णं गृहीतवान्।।
भूमिराजः प्रसन्नात्मा देहलीं मुदितोऽगमत्।। 3.3.31.८० ।। ।।
।। सूत उवाच ।। ।।
काश्मीरे च नृपश्चासीत्कैकयो नाम विश्रुतः ।।
दश पुत्राश्च तस्यैव कन्या च मदनावती ।। ८१ ।।
कामः प्रकामः सकामो निष्कामो निरपत्रपः ।।
जयश्च विजयश्चैव जयन्तो जयवाञ्जयः ।। ८२ ।।
स भूपो भूमिराजं च समाहूय वचोऽब्रवीत् ।।
पुत्रस्ते वै सरदनो मत्कन्यां प्राप्तुमर्हति ।। ८३ ।।
गंधर्वस्सुकलो नाम मत्कन्यां च शुभाननाम् ।।
ज्योत्स्नायां निशि संहृत्य तया सार्द्रं हि दीव्यति ।। ८४ ।।
पूर्णिमायां च संप्राप्तः स वै चित्ररथप्रियः ।।
वैशाखस्यासिते पक्षे चाष्टमी चाद्य मंगला ।।
वधं कुरु नृपश्रेष्ठ देहलीं गंतुमर्हसि ।। ८५ ।।
इति श्रुत्वा महीराजो लक्षसैन्यसमन्वितः ।।
गृहीत्वा दंपती शीघ्रं देहलीनगरं ययौ ।। ८६ ।।
वैशाख्यां सुखजातायां सुकलोनाम वीर्यवान् ।।
गंधर्वो दश साहस्रै रुरोध नगरं रुषा ।। ८७ ।।
नगराच्च बहिर्जाता ये शूरा मदविह्वलाः ।।
हत्वा तान्सुकलः शीघ्रं राज्ञे दुःखं चकार ह ।। ८८ ।।
भयभीतो महीराजो ध्यात्वा सर्वमयीं शिवाम् ।।
सुष्वाप निशि शुद्धात्मा तुष्टाभूज्जगदंबिका ।। ८९ ।।
कृष्णांशादीन्बोधयित्वा तैश्च सार्धं समागमत् ।।
तेषां चासीन्महद्युद्धं गंधर्वेण तदाह्निकम्।। 3.3.31.९० ।।
बलखानिश्च बलवाञ्छतगंधर्वमुत्तमम् ।।
त्रिदिनांते च संहत्य सुखखानिस्तथैव च ।। ९१ ।।।
सुकलश्च तदा क्रुद्धो गांधर्वीं च ससर्ज ह ।।
बहुधा ते हि गंधर्वास्तैश्च सार्द्धं समारुधन् ।। ९२ ।।
भयभीतास्तदा सर्वे रामांशं शरणं ययुः ।।
आह्लादश्च प्रसन्नात्मा शारदां सर्वमंगलाम् ।। ९३ ।।
दिवासूक्तेन तुष्टाव तदा प्रादुरभूच्छिवा। ।।
गंधर्वान्मोहयित्वाशु द्रावयामास शारदा ।। ९४ ।।
पराजिते च गंधर्वे कृष्णांशो जनमोहनः ।।
महीराजमुपागम्य कोटिस्वर्णं गृहीतवान् ।। ९५ ।।
षोडशाब्दे च कृष्णांशे संप्राप्ते देविपूजके ।।
मार्गमासं तु संप्राप्ते मर्दनश्च विवाहितः ।। ९६ ।।
।। सूत उवाच ।। ।।
पुंड्रदेशे महाराजो नागवर्मा महाबलः ।।
बभूव तक्षकपरो धर्मवाञ्जगतीतले ।।।१ ।। ९७ ।।
पत्नी नागवती तस्य तक्षकस्य सुता शुभा ।।
पितुः शापेन सञ्जाता कलिंगाधिपतेः सुता ।। ९८ ।।
दशैव तनयाश्चासन्कन्या तस्य शुभानना ।।
सुवेला नाम विख्याता रूपयौवनशालिनी ।। ९९ ।।
पुरोहितं समाहूय महीराजाय प्रैषयत् ।।
स गत्वा कथयित्वाग्रे मर्दनो वीरतो मया ।। 3.3.31.१०० ।।
महीराजस्तु तच्छ्रुत्वा त्रिलक्षबलसंयुतः ।।
मंगलं कारयामास गत्वा नागपुरे शुभे ।। १०१ ।।
सुवेला पितरं प्राह देहि मे नागभूषणम्।।
विवाहं हि करिष्यामि नोचेत्प्राणांस्त्यजाम्यहम् ।। १०२ ।।
इति श्रुत्वा नागवर्मा महीराजान्तमाययौ ।।
सुवेलाया अभिप्रायं वर्णयामास विस्तरात् ।। १०३ ।।
इत्युक्तः स महीराजो विस्मितोभूत्सुदुःखितः ।।
प्रेषयामास वै पत्रं यत्राह्लादादयः स्थिताः ।। १०४ ।।
इति ज्ञात्वा तदाऽऽह्लादः शूरपंचशतावृतः ।।
कृष्णांशवत्सजैस्सार्द्धं दिनांते च समागमत् ।। १०५ ।।
शतयोजनगामिन्यो वाजिन्यश्च द्वियामके ।।।।
सहस्रयोजनं वीर्यं तासां चैव दिने निशि।।१०६।।
कलांशादुद्भवा अश्वा वाजिना च हरेः स्वयम्।।
रत्नाश्वस्य कलांशश्च कपोतो हरणीभवः।।१०७।।
गायत्रो योभवद्वाजी कालचक्रप्रवर्तकः ।।
तत्कलांशात्समुद्भूतो रविदत्तः पपीहकः ।।
हरिणी नाम तच्छक्तिः कलांशाद्भूमिमागता ।। १०८ ।।।
सुखखानिः पपीहस्थो बलखानिः कपोतगः।।
आह्लादश्च करालस्थो बिंदुलस्थो हरेः कला ।।१०९।।
गत्वा ते तु महीराजं नत्वा तुंगासनां ययुः ।।
प्रसन्नः स महीराजो वचनं प्राह नम्रधीः ।। 3.3.31.११० ।।
मम पुत्राश्च युष्माभिस्त्रयः शूरा विवाहिताः ।।
तथैव मर्दनं वीरं समुद्वाह्य सुखी भव ।।१११।।
इति श्रुत्वा स आह्लादो गत्वा भूतलमुत्तमम् ।।
रसातलं च विख्यातं नागिनीं प्राह निर्भयः ।। ११२ ।।
सुप्तो हि तव भर्ता च पुंडरीकः शुभाननः ।।
बोधयाशु महाराज्ञि नागानां नो दयां कुरु ।।११३।।
इत्युक्ता साह तं वीरं पुंडरीकश्च मत्पतिः ।।
रुषाविष्टश्च बलवान्दाहयेच्च वपुस्तव ।। ११४ ।।
इति श्रुत्वा विहस्याह तव भर्तुर्न नो भयम् ।।
इत्येवं वचनं कृत्वा पद्भ्यां पुच्छमताडयत् ।। ११५ ।।
प्रबुद्धश्च तदा राजा नागानां च महाबलः।।
ज्वालामालां स्वदेहाच्च जनयामास वीर्यवान्।।११६।।
दृष्ट्वा तद्विषमुज्ज्वालं स ध्यात्वा सर्वमंगलाम्।।
शमयामास बलवान्देवीपूजनतत्परः ।।११७।।
पुंडरीकः प्रसन्नात्मा नागभूषणमुत्तमम् ।।
आह्लादाय ददौ शीघ्रं सर्वशृङ्गारसंयुतम् ।। ११८ ।।
आह्लादस्तु हयारूढो महीराजाय दत्तवान् ।।
विवाहं कारयामास वैवाहिकविधानतः ।।
कोटिस्वर्णं नृपात्प्राप्तं गृहीत्वा शीघ्रमाययौ ।। ११९ ।।
हयविद्यासमारूढास्ते हया गेहमागताः ।।
ज्ञेयाः पंचशतं सर्वे सशूरा गृहमाययुः ।। 3.3.31.१२० ।।
सूत उवाच ।।
मद्रदेशेषु यश्चासीन्मद्रकेशो महाबलः।।
पञ्चाब्दं पूजयामास स्वर्गवैद्यौ सुरोत्तमौ ।। १२१ ।।
तयोश्च वरदानेन दश पुत्रा बभूविरे ।।
सुता कान्तिमती जाता रूपयौवनशालिनी ।।१२२।।
स महीराजमाहूय त्रिलक्षबलसंयुतम् ।।
ददौ कन्यां विधानेन मद्रेशः सूर्यवर्मणे ।।१२३।।
नवोढां तु तदा पत्नीं सूर्यवर्मा गृहीतवान्।।
स्वगेहाय ययौ शीघ्रं महीराजो बलैस्सह ।। १२४ ।।
कर्बुरोनाम मायावी विभीषणसुतो बली ।।
राक्षसस्तत्र संप्राप्तो दृष्ट्वा कांतिमतीं शुभाम् ।। १२५ ।।
मद्रकेशस्य तनयां दिव्यशोभासमन्वि ताम् ।।
जहार पश्यतां तेषां सह्याद्रिगिरिमाययौ ।। १२६ ।।
महीराजस्तदा दुःखी विललाप भृशं मुहुः ।।
देहलीगेहमागम्य दूतमाहूय सत्व रम् ।। १२७ ।।
कृष्णांशं प्रेषयामास स गत्वा समवर्णयत् ।।
ज्ञात्वा ते तु हयारूढाः शूराः पंचशतावृताः ।। १२८ ।।
सह्याद्रिगिरिमागम्य कृष्णां शः कर्बुरं प्रति ।।
निर्भयो वचनं प्राह शृणु राक्षससत्तम ।। १२९ ।।
विभीषणो भक्तराजस्तस्य त्वं दयितः सुतः ।।
तस्मात्त्वया न कर्तव्यं पापं वंश विनाशनम् ।।
रावणेन पुरा सीता संहृता विदितं तव ।। 3.3.31.१३० ।।
इति श्रुत्वा स होवाच पुरेयं दयिता प्रिया ।।
मम गंधर्वतनया मुनिशापान्महीं गता ।। १३१ ।।
अतोऽहं तद्वियोगेन त्यक्त्वा लंकां महापुरीम् ।।
मद्रकेशमहं प्राप्य मद्रकेशभयादहम् ।।
न जहार प्रियां रम्यां तत्रोषित्वा दिनं बहु ।। १३२ ।।
अद्य मे वशगा साभून्नाम्ना कांतिमती शुभा ।।
जित्वा मां च गृहाणाशु समर्थाश्च वयं सदा ।। १३३ ।।
इति श्रुत्वा स कृष्णांशः खड्गयुद्धमचीकरत् ।।
सप्तरात्रेण तं जित्वा लब्ध्वा कांतिमतीं शुभाम् ।।
तदा च देहलीं प्राप्य महीराजान्तमाययौ ।।१३४।।
कोटिस्वर्णं ददौ राजा कृष्णांशाय महात्मने ।।
स वीरो बंधुभिः सार्धं प्रमदावनमाययौ ।।१३५।।
।। सूत उवाच ।। ।।
पट्टनाख्यपुरे राजा नाम्ना पूर्णामलो बली ।।
वसूनाराधायामास पंचवर्षान्तरे मुदा ।।
तदा प्रसन्नास्ते देवा ददुस्तस्मै वरं शुभम् ।। १३६ ।।
वरदानाच्च सञ्जाता दश पुत्रा महीपतेः ।।
विद्युन्माला सुता जाता रूपयौवनशालिनी ।। १३७
तद्विवाहार्थमाहूय महीराजं महाबलम् ।।
सप्तलक्षबलैः सार्द्धं तत्पुत्राय सुतां ददौ ।। १३८ ।।
महीराजसुतो भीमः पत्नीं प्राप्य मनोरमाम् ।।
गेहमागम्य तैः सार्द्धं देहलीं हर्षमाप्तवान् ।। १३९ ।।
तदा पैशाचदेशस्थः सहोदश्च महीपतिः ।।
म्लेच्छैश्च दशसाहस्रैर्विद्युन्मालार्थमुद्यतः ।।3.3.31.१४०।।
बलिदैत्याज्ञया प्राप्तः कुरुक्षेत्रं शुभस्थलम् ।।
भित्त्वा मूर्तीः सुराणां गोरक्तैस्तीर्थजलं कृतम् ।। ।। १४१ ।।
पत्रमालिख्य बलवान्महीराजाय धर्मिणे ।।
स्वदूतः प्रेषितस्तेन श्रुत्वा भूपोऽब्रवीदिदम् ।। १४२ ।।
भवान्म्लेच्छपती राजा विद्युन्मालार्थमुद्यतः ।।
मां शब्दवेधिनं विद्धि चौर्यदेशधुरंधरम् ।। १४३ ।।
इत्युक्त्वा स त्रिलक्षैश्च कुरुक्षेत्रमुपागतः ।।
तयोश्चासीन्महद्युद्धमहोरात्रं भयानकम् ।। १४४ ।।
निशीथे समनुप्राप्ते ज्येष्ठे मासि तमोमये ।।
पातालाद्बलिरागत्य दैत्यायुतसमन्वितः ।। १४५ ।।
नृपसैन्यं जघानाशु भक्षयित्वा पुनः पुनः ।।
भयभीतस्तदा राजा शारदां शरणं ययौ ।। १४६ ।।
एतस्मिन्नंतरे देवाः कृष्णांशाद्या महाबलाः ।।
क्षणमात्रेण संप्राप्तास्तदा पदचरा मुने ।। १४७ ।।
हत्वा दैत्यसहस्राणि बलिदैत्यमुपाययुः ।।
देशजौ वत्सजौ वीरौ देवसिंहस्तथैव च ।।
स्वखड्गैस्तर्पयामास दैत्यराजं महाबलम् ।। १४८ ।।
तदा प्रसन्नो बलवान्दैत्यराजो बलिः स्वयम् ।।
वरं वृणुत तानाह ते तु श्रुत्वाब्रुवन्वचः ।।१४९।।
आर्यदेशं च ते दैत्या नागच्छन्तु त्वया सह।।
म्लेच्छदेशं सदा प्राप्य भक्षध्वं म्लेच्छधर्मगान् ।। 3.3.31.१५० ।।
इति श्रुत्वा वचो घोरं विप्रियं च बलिः स्वयम् ।।
कृष्णांशमुदयं गत्वा तुष्टाव परया गिरा ।। १५१ ।।
तदा प्रसन्नः कृष्णांशो वचनं प्राह निर्भयः ।।
यावदहं भूमिवासी तावत्त्वं गेहमावस ।।
तत्पश्चाद्भूमिमागत्य यथायोग्यं कुरुष्व भोः ।। १५२ ।।
इति तद्वचनं श्रुत्वा सहोदो नीलसंयुतः ।।
पैशाचं देशमगमत्पुनः प्राप्तो रसातलम् ।। १५३ ।।
भूमिराजः प्रसन्नात्मा कोटिस्वर्णं ददौ तदा ।।
गजारूढाश्च ते पंच संययुश्च महावतीम् ।। १५४ ।।
।। सूत उवाच ।। ।।
वर्द्धनो भूमिराजस्य सुतः सर्वेभ्य उत्तमः।।
पंचमाब्दवया भूत्वा श्रीदं तुष्टाव भक्तितः।।
वर्षांतरे च भगवान्ददौ सर्वं शुभं निधिम् ।।१५५।।
तत्सर्वनिधिभावेन नृपकोशः समन्ततः ।।
पूर्णो बभूव कनकै राजराजप्रभावतः ।।१५६।।
किंनरी नाम या कन्या मंकणस्य प्रकीर्तिता ।।
कुबेरश्च ददौ तस्मै वर्द्धनाय प्रियाय च ।।
इति ते कथितं सर्वं विवाहचरितं मुने ।। १५७ ।।
धुन्धुकारो महाशूरो लक्षसैन्यसमन्वितः ।।
ब्रह्मानंदमुपागम्य युद्धार्थाय तमाह्वयत्।। १५८ ।।
एकत्रिंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ।।
एकाकी मलनापुत्रो दृष्ट्वा सैन्यमुपस्थितम् ।।
ब्रह्मास्त्रं चाप आधाय चार्धसैन्यमदाहयत् ।। १५९ ।।
पंचायुताश्च ते शूरा भयभीता दिशो गताः ।।
धुन्धुकारो रणं त्वक्त्वा भूमिराजमुपागमत् ।। 3.3.31.१६० ।।
महीराजस्तदा दुःखी भयभीतः समंततः ।।
महीपतिं समाहूय चन्द्रभट्टं च सोऽब्रवीत् ।। १६१ ।।
कथं जयो मे भविता तत्सर्वं मंत्रयाशु वै ।।
महीपतिस्तदा प्राह शृणु भूपशिरोमणे ।। ।। १६२ ।।
कृत्वा नारीमयं वेषं चामुण्डं बलशालिनम् ।।
वेलां मत्वा च तद्दोलां ब्रह्मानंदाय चार्पय ।। १६३ ।।
चत्वारस्ते सुताः शूरा धुंधुकारेण संयुता ।।
छद्मना च स्वशस्त्रैश्च घातयेयुस्तमूर्जिताः ।। १६४ ।।
इति श्रुत्वा महीराजो ब्रह्मानंदाय हर्षितः ।।
तथा कृत्वा ददौ दोलां पंचशूरैश्च पालिताम् ।। १६५ ।।
सायंकाले तु संप्राप्ते माघशुक्लाष्टमीदिने ।।
वेलावंशश्च चामुण्डो ब्रह्मानंदमुपाययौ ।। १६६ ।।
छद्मना च त्रिशूलं च बलात्कृत्वा रिपूदरे ।।
रुरोद बलवाञ्छूरस्ते तु शूराः समागताः ।। १६७ ।।
तारको हृदि तं बाणैः सूर्यवर्मा च तोमरैः ।।
भीमश्च गदया चात्र वर्द्धनश्च तदासिना ।।
धुंधुकारश्च भल्लेन जघान रिपुमूर्द्धनि ।। १६८ ।।
मूर्छितः पतितो भूमौ बह्मानंदो महाबलः ।।
महद्व्रणयुतस्तत्र स्वखङ्गं च समाददत् ।। १६९ ।।
भीमस्य च शिरः कायाद्वर्द्धनस्य तथैव च ।।
छित्त्वा तथैव भूमध्ये सूर्यवर्माणमागतंः ।। 3.3.31.१७० ।।
तारको धुंधुकारश्च चामु ण्डश्च तथैव च ।।
ब्रह्मानंदं तदा त्यक्त्वा महीराजान्तमाययौ ।। १७१ ।।
हतेषु तेषु पुत्रेषु महीराजो भयातुरः ।।
वेलापार्श्वमुपागम्य रुरोद बहु दुःखितः ।। १७२ ।।
इति श्रुत्वा तदा वेला दोलामारुह्य सत्वरम् ।।
ब्रह्मानंदं ययौ शीघ्रं मूर्च्छितं तं ददर्श ह ।। १७३ ।।
कनिष्ठामृतभावेन वेलाया बलवांस्तदा ।।
उत्थाय रुदतीं नारीं ददर्श रुचिरान्विताम् ।। १७४ ।।
का त्वं कस्य सुता रम्या संग्रामे मामुपस्थिता ।।
जलं देहि महा सुभूर्वचनं कुरु सुप्रियम् ।। १७५ ।।
इति श्रुत्वा तदा वेला जलं दत्त्वा शुचान्विता ।।
वचनं प्राह वै रात्रौ शृणु त्वं मलनासुत ।। १७६ ।।
वेला नाम महीभर्तुः सुताहं त्वामुपस्थिता ।।
मत्पतिश्च भवान्धीरश्छद्मना वंचकैर्हतः ।।
जीवनं कुरु राजेंद्र भुंक्ष्व भोगान्मया सह ।। १७७ ।।
इत्युक्तः स तु तामाह कलिकाले समागते ।।
जीवनान्मरणं श्रेष्ठं तस्मान्मद्वचनं कुरु ।। १७८ ।।
हरिनागरमारुह्य मया सार्द्धं शुभानने ।।
गत्वा तीर्थानि रम्याणि संत्यजामि कलेवरम्।।१७९।।
इत्पुक्त्वा तौ समारुह्य पूर्वे च कपिलान्तिकम्।।
गत्वा स्नात्वा च विधिवत्ततोध्ये जग्मतुर्मुदा।।3.3.31.१८०।।
पृथक्पृथक्सुतार्थानि स्नात्वा दत्त्वा च .जग्मतुः ।।
दक्षिणे सेतुबंधान्ते पश्चिमे द्वारिकामनु ।। १८१ ।।
उत्तरे बदरीस्थाने स्नात्वा तीर्थानि जग्मतुः ।।
गंधमादनमागत्य ब्रह्मानंदो महाबलः ।। १८२ ।।
वेलामुवाच वचनं भाद्रशुक्लाष्टमीदिने ।।
देहं त्यजामि भो राज्ञि तारकं जहि भूतले ।।१८३।।
इति श्रुत्वा तु सा प्राह स्वामिन्मद्वचनं कुरु ।।
कुरुक्षेत्रं मया सार्द्धं भवान्वै गंतुमर्हति ।।१८४।।
स्थित्वा तत्र समस्वान्तो भज त्वं सर्वमंगलाम् ।।
अहं महावतीं प्राप्य पुनर्वै देहलीं प्रति ।। १८५ ।।
तारकं च तथा हत्वा त्वत्समीपं व्रजाम्यहम् ।।
इत्युक्तः स तथेत्युक्त्वा ब्रह्मध्यानपरोऽभवत् ।। १८६ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकत्रिंशोऽध्यायः ।। ३१ ।।