सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २७

विकिस्रोतः तः

।। सूत उवाच ।। ।।
सप्तविंशाब्दके प्राप्ते कृष्णांशे सर्वमंगले ।।
भाद्रकृष्णदशम्यां च मलना शोककातरा ।।
जननायकमाहूय वचनं प्राह दुःखिता ।। १ ।।
अये कच्छपदेशीय गोतमान्वयसंभव ।।
हरिनागरमारुह्य कान्यकुब्जं व्रजाधुना ।। २ ।।
पुत्रमाह्लादमाहूय सानुजं मत्प्रियंकरम् ।।
इति श्रुत्वा तु वचनं हृदि संचिंत्य त्रै पुनः ।। ३ ।।
मलनां दुःखितां प्राह न त्वायास्यति स प्रभुः ।।
राज्ञः परिमलस्यैव वाक्यं मत्वा सुदुःखदम् ।। ४ ।।
इति श्रुत्वा तु वचनं रुरोद मलना सती ।।
पुनर्मूर्च्छां गता भूमौ जीवनं त्यक्तुमुद्यता ।। ५ ।।
हा रामांश महाबाहो वत्स कृष्णांश सुन्दर ।।
क्व गतौ सह देवक्या त्यक्त्वा मां मंदभागिनीम् ।।६।।
तदा परिमलापुत्रो दृष्ट्वा राज्ञीं तथा गताम् ।।
बहुधाश्वास्य बलवान्कान्यकुब्जपुरं ययौ ।। ७ ।।
।। ऋषय ऊचुः ।। ।।
त्वया परिमलापुत्रस्संप्रोक्तो जननायकः ।।
रोमहर्षण नो ब्रूहि सोऽयं कस्तेन किं कृतम् ।। ८ ।।
।। सूत उवाच ।। ।।
इंद्रप्रस्थपुरेवात्सीत्प्रद्योतः कथितो मया ।।
पिता परिमलस्यैवामात्योऽनंगमहीपतेः ।। ९ ।।
तस्य कन्या समाजाता नाम्ना परिमला मुने ।।
दुःशलांशसमुद्भूता रंभेव सुकुमारिका ।। 3.3.27.१० ।।
तद्विवाहार्थमुद्योगः कृतः पित्रा स्वयंवरः ।।
पुत्रः कच्छपभूपस्य स नाम्ना कमलापतिः ।।
तामुद्वाह्म विधानेन स्वगेहाय ययौ मुदा।। ११ ।।
तयोस्समागमो जातः पुत्रोऽयं जननायकः ।।
शत्रुविद्यापरः शूरः खड्गयुद्धविशारदः ।।१२।।
जित्वा भूपान्बलाद्वीरः सिंधुतीरलनिवासिनः ।।
षडंशकरमादाय पितृराज्यमुपस्थितः ।।१३।।
एकदा तु महीराजः स्वसैन्यपरिवारितः ।।
कच्छदेशमुपागम्य करार्थं समुपस्थितः ।।१४।।
तयोश्चासीन्महद्युद्धं जननायकभूपयोः।।
मासान्ते सूर्यवंशीयो महीराजेन निर्जितः ।। १५ ।।
त्यक्त्वा राष्ट्रं च सकुलः संप्राप्तश्च महावतीम् ।।
परिमलस्तु तदा राजा तस्मै ग्रामं शुभं ददौ ।। १६ ।।
निवासं कृतवांस्तत्र स्वनाम्ना प्रथितं भुवि ।।
स वै कच्छपदेशीयो ययौ परिमलाज्ञया।। १७ ।।
तदासौ च महीराजो महीपत्यनुमोदितः ।।
चामुंडं शीघ्रमाहूय लक्षसैन्यसमन्वितम् ।।
आदेशं कृतवान्राजा तस्य बंधनहेतवे ।। १८ ।।
स च नेत्रवतीकूले संप्राप्ते लक्ष सैन्यपः ।।
रुरोध सूर्यवंशीयं जननायकमुत्तमम् ।।१९।।
स तदा खड्गमादाय बाहुशाली यतेंद्रियः ।।
तत्र शूरशतं हत्वा नभोमार्गमुपाययौ ।।3.3.27.२०।।
सेनापतेश्च मुकुटं गजस्थस्य गृहीतवान् ।।
लज्जितः स तु चामुंडो वचनं प्राह नम्रधीः ।।२१।।
भवान्वृत्तिकरो मह्यं क्षत्रियो ब्राह्मणस्य वै ।।
देहि मे मुकुटं वीर चिरं जीव सुखी भव।।२२।।
इति श्रुत्वा स विनयं दत्त्वा तस्मै शुभं वसु ।।
कुठारनगरे प्राप्तो वामनेन सुरक्षितः ।।२३।।
दृष्ट्वा तत्र वटच्छायां श्रमेणातीव कर्षितः।।
सुष्वाप निर्भयो वीरस्तत्र स्थाने सुखप्रदे ।। २४ ।।
तदा तु वामनो ज्ञात्वा स्वदूतैस्तत्र कारणम् ।।
वस्त्राण्याच्छाद्य चागम्य चाहरद्धरिनागरम् ।। २५ ।।
हृते तस्मिंश्च दिव्याश्वे प्रबुद्धो जननायकः ।।
चिंतामवाप्य महतीं रोदनं कृतवान्बहु ।। २६ ।।
अश्वांघ्रिचिह्नमालोक्य वामनं प्राप्य निर्भयः ।।
वचनं प्राह नम्रात्मा नृपं गौरान्वयोद्भवम् ।। २७ ।।
क्षत्रियाणां हि संहास्यो भयदो भुवि सर्वदा ।।
स भवान्राजनीतिज्ञो देहि मेऽश्वं सुखी भव ।।२८।।
नो चेत्त्वां वै सनगरं कृष्णांशः क्षपयिष्यति ।।
इति श्रुत्वा तु वचनं वामनो गौरवंशजः।।२९।।
भयभीतो विनिश्चित्य प्रददौ हरिनागरम् ।। 3.3.27.३० ।।
प्रतोदं स्वर्णरचितं नानारत्नसमन्वितम् ।।
लोभाच्च न ददौ राजा मृषा शपथकारकः ।।३१ ।।
तदा परिमलापुत्रः कुंठितः प्राह भूपतिम् ।।
प्रतोदलोभात्ते राजन्क्षयं दुर्गो गमिष्यति ।। ३२ ।।
 इत्युक्त्वा प्रययौ वीरः कान्यकुब्जं महोत्तमम्।।
लक्षणो हस्तिनीसंस्थो वचनं प्राह गर्वितः ।।
कस्त्वं प्राप्तो हयारूढो निर्भयः क्षत्रियोत्तमः ।। ३३ ।।
स होवाच महाराज प्रेषितश्चंद्रवंशिना ।।
तवान्तिकं समायातः शरणागतवत्सल ।। ३४ ।।
महीराजश्च बलवान्सकुलं चंद्रवंशिनम् ।।
हनिष्यति च रौद्रास्त्रैर्महीपत्यनुमोदितः ।। ३५ ।। ।
अतस्त्वं स्वबलैस्सार्द्धं सहाह्लादादिभिर्युतः ।।
गच्छगच्छ महाराज मृतानुजीवयाधुना ।। ३६ ।।
इत्युक्तो लक्षणस्तेन जयचंद्रं प्रणम्य सः ।।
सर्वं वै कथयामास महीराजो यथागतः ।। ३७।।
जयचंद्रस्तु तच्छ्रुत्वा चाहूय जननायकम् ।।
वचनं प्राह क्रुद्धात्मा शृणु गौतमवंशज ।। ३८ ।।
राजा परिमलः क्रूरस्त्यक्त्वा मां निजभूपतिम् ।।
प्रीतिं च कृतवांस्तेन मच्छत्रोर्देहलीपतेः ।। ३९ ।।
प्रियं संबधिनं मत्वा संत्यक्तास्तेन रक्षकाः ।।
यथा कृतं फलं तेन भोक्तव्यं च तथा भुवि ।। 3.3.27.४० ।।
इति श्रुत्वा तु वचनं कृष्णांशः प्राह नम्रधीः ।।
राजञ्छुद्धः परिमलो महीपत्यनुवाचकः ।।
अतो वै त्वां समुत्सृज्य भूमिराजवशं गतः ।।४१।।
भवान्वै सर्वधर्मज्ञस्तत्क्षमस्वापराधकम् ।।
आज्ञां देहि महाराज निवत्स्यामस्तदंतिकम्।। ४२ ।।
इति श्रुत्वा तु वचनं जयचंद्रो महीपतिः ।।
कृष्णांशं प्राह भो वीर देहि मे भुक्तिमूल्यकम् ।।
शीघ्रं व्रज त्वं सकुलो नो चेन्नो गंतुमर्हसि ।। ४३ ।।
इति श्रुत्वा विहस्याह कृष्णांशस्सर्वमोहनः ।।
मया दिग्विजयः सर्वः कृतो भीरुभयंकरः ।।
तद्देयं देहि मे राजन्गृहाण भुक्तिमूल्यकम्।।४४।।
इत्युक्तस्स तु भूपालः कृष्णांशेन विलज्जितः ।।
सैन्यमाज्ञापयामास सप्तलक्षं महाबलम् ।। ४५ ।।
तदा वै सकुलो वीरश्चाह्लादो लक्षणान्वितः ।।
नृपस्याग्रे समास्थाय नमस्कृत्य ययौ मुदा ।। ४६ ।।
कुठारनगरं प्राप्य नृपदुर्गं रुरोध ह ।।
ज्ञात्वा स वामनो भूपः प्रतोदं च ददौ मुदा ।। ४७ ।।
सैन्यायुत युतं भूपं वामनं लक्षणो बली ।।
पश्चात्कृत्य ययौ शीघ्रं यमुनातटमुत्तमम् ।। ४८ ।।
यमुनाजलमुत्तीर्य कल्पक्षेत्रमवाप्तवान्।।
गंगासिंहं च नृपतिं षष्टिसाहस्रसंयुतम् ।।
पुरस्कृत्य ययौ वीरो लक्षणो बलवत्तरः ।। ४९ ।।
नदीं वेत्रवतीं रम्यां समागम्य बलैस्सह ।।
तत्रोषुः क्षत्रियाः शूरास्सर्व शस्त्रास्त्रसंयुताः ।। 3.3.27.५० ।।
एतस्मिन्नंतरे वीरश्चामुंडो लक्षसैन्यपः ।।
शतघ्नीः स्थापयामास भैरवीः शत्रुनाशिनीः ।। ५१ ।।
तयोश्चासीन्महद्युद्धं शतघ्रीरणसंस्थयोः ।।
प्रहरान्ते च तत्सैन्यं दृष्ट्वा शूरः पराजितम् ।। ५२ ।।
रक्तबीजः समागम्य गजस्थस्त्वरितो बली।।
स्वबाणैस्ताडयामास सैन्यं तालनपालितम् ।। ५३ ।।
केचिच्छूरा हता युद्धे केचित्तत्र पराजिताः ।।
दुद्रुवुर्भयभीताश्च चामुंडेन च पीडिताः ।। ५४ ।।
प्रभग्नं स्वबलं दृष्ट्वा तालनः परिघायुधः ।।
जघान तेन स गजं चामुंडो भूमिमागतः ५५ ।।
खड्गयुद्धपरो वीरस्तालनं पीरघायुधम्।।
पराजित्य ययौ पश्चाच्छत्रु सैन्यक्षयंकरः ।।५६।।
लक्षणस्त्वरितो गत्वा स्वभल्लेन च तं रिपुम् ।।
भुजयोस्ताडयामास तदा ते बहुधाऽभवन्।। ५७ ।।
सहस्रं रक्तबीजाश्च खड्ग शक्त्यृष्टिपाणयः ।।
तिष्ठतिष्ठेति भाषन्तः क्षत्रियान्युद्धदुर्मदान् ।। ५८ ।।
आह्लादाद्याश्च ते शूरा रक्तबीजभयातुराः ।।
त्यक्त्वा युद्धं ययुस्सर्वे ब्रह्मानंदं महाबलम् ।। ५९ ।।
ब्रह्मानंदस्तु तान्दृष्ट्वा गत्वा स्वपितरं प्रति ।।
वृत्तांतं कथयामास लक्षणागमनं मुने ।। 3.3.27.६० ।।
श्रुत्वा परिमलो राजा प्रेमविह्वलगद्गदः ।।
आह्लादपार्श्वमागम्य रुरोद भृशमातुरः ।। ६१ ।।
तदा तु देवकी देवी नृपतिं प्रेमतत्परम् ।।
उवाच सुमुखी दीना वयं ते भक्ति तत्पराः ।। ६२ ।।
भवता संपरित्यक्ता विचरामोऽन्यभूपतिम् ।।
क्षमस्व मम दौरात्म्यं पूर्वजन्मविपाकजम्।। ६३ ।।
इति श्रुत्वा च नृपतिः परमा नंदनिर्भरः ।।
मंत्रिणश्चाधिकारं च रामांशाय ददौ मुदा ।।
स्वकीयं लक्षसैन्यं च तत्पतिश्चोदयः कृतः ।। ६४ ।।
ततः पंचदिनान्ते तु महीराजस्समागतः ।।
रुरोध नगरीं सर्वां चामुंडबलदर्पितः ।।
तयोश्चासीन्महयुद्धं मासमात्रं भयानकम् ।।६५।।
प्रभाते विमले जाते कृष्णांशो लक्षसैन्यपः।।
चामुडान्तमुपागम्य सहस्रं स्वांगसंभवम् ।।
चिच्छेद च शिरस्तेषां चामुंडानां पृथक्पृथक् ।। ६६ ।।
छिन्ने शिरसि ते सर्वे लक्षवीरा बभूविरे ।।
तदा तद्व्याकुलं सैन्यं चामुण्डैस्तैः प्रपीडितम् ।।६७।।
विस्मितश्चैव कृष्णांशो भयभीतस्तदा मुने ।।
तुष्टाव शारदां देवीं सर्वमंगलकारिणीम् ।। ६८ ।।
कृष्णांश उवाच।।
नमस्ते शारदे मातर्ब्रह्मलोकनिवासिनि।।
त्वया ततमिदं विश्वं शब्दमात्रनिरंतरम्।।६९।।
रक्तबीजविनाशाय चामुंडारूपधारिणि।।
नमस्ते दिव्यचामुण्डे पाहि मां शरणागतम्।।3.3.27.७०।।
इति श्रुत्वा स्तवं देवी वरदा सर्वकारिणी।।
तस्य खड्गमुपागम्य रक्तबीजं ददाह वै।। ७१।।
भस्मीभूते लक्षरिपौ चामुण्डो भूमिमागतः।।
बबंध तं स कृष्णांशो ब्रह्मानंदांतिकं ययौ।।
भूमिराजस्तु तच्छ्रुत्वा भयभीतः समागतः।।
तदा परिमलं भूपं दयालुं प्रेमविह्वलम् ।।
उवाच वचनं राजा क्षमस्व मम दुष्कृतम् ।। ७३ ।।
महीपतेश्च वचनान्महद्भयमुपागतम् ।।
अद्यप्रभृति भो वीर संत्यक्तः कलहः प्रियः ।।
भवांश्च मम संबन्धी वयं वै तव किंकराः ।।७४ ।।
इति श्रुत्वा परिमलो राजानमिदमब्रवीत् ।।
रत्नभानोश्च तनयं लक्षणं नाम विश्रुतम् ।।
शरण्यं शरणं याहि विष्णुभक्तं दयापरम् ।। ७५ ।।
इति श्रुत्वा भूमिराजो द्विजरूपधरो बली।।
साष्टांगं दंडवद्भूमौ लक्षणस्य चकार ह ।। ७६ ।।
तदा तु लक्षणो वीरः कृत्वा स्नेहं नृपोपरि ।।
सप्तलक्षबलैः सार्द्धं कान्यकुज्जमुपाययौ ।। ७७ ।।
फाल्गुने मासि संप्राप्ते सर्वे स्वंस्वं गृहं ययुः ।। ७८ ।।
बलखानेर्गयाश्राद्धमचीकरदविप्लुतः ।।
चैत्रमासि सिते पक्षे संप्राप्य निजमंदिरे ।।
ब्राह्मणान्भोजयामास सहस्रं वेदतत्परान् ।। ७९ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्त विंशोऽध्यायः ।। २७ ।।