सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २६

विकिस्रोतः तः

।। सूत उवाच ।। ।।
श्रावणे मासि संप्राप्ते देहलीं च महीपतिः ।।
नागोत्सवाय प्रययौ सदैव कलहप्रियः ।। १ ।।
दृष्ट्वा नागोत्सवं तत्र गीतनृत्यसमन्वितम् ।।
महीराजं नमस्कृत्य वचनं प्राह नम्रधीः ।। २ ।।
राजन्महावतीग्रामे कीर्तिसागरमध्यगे ।।
वामनोत्सवमत्यं तं यवव्रीहिसमन्वितः ।।
पश्य त्वं तत्र गत्वा च ममैव वचनं कुरु ।। ३ ।।
इति श्रुत्वा महीराजो धुंधुकारेण संयुतः ।।
सप्तलक्षबलैर्युक्तश्चामुण्डेन समन्वितः ।।
प्राप्तः शिरीषविपिने तत्र वासमकारयत् ।। ४ ।।
महीपतिस्तु नृपतिं नत्वा वै चन्द्रवंशिनम् ।।
उवाच वचनं दुःखी धूर्तो मायाविशारदः ।। ५ ।।
राजन्प्राप्तो महीराजो युद्धार्थी त्वामुपस्थितः ।।
चन्द्रावलीं च तनयां ब्रह्मानंदं तवात्मजम् ।।
दिव्यलिंगं स संपूज्य बलात्काराद्ग्रहीष्यति ।। ६ ।।
तस्मात्त्वं स्वबलैः सार्द्धं मया सह महामते ।।
छद्मना तं पराजित्य नगरेऽस्मिन्सुखी भव ।। ७ ।।
 इति श्रुत्वा दैव वशो राजा परिमलो बली ।।
चतुर्लक्षबलैस्सार्द्धं निशीथे च समागतः ।। ८ ।।
शयितान्क्षत्रियाञ्छूरान्हत्वा पंचसहस्रकान् ।।
शतघ्नीं रोषणीं चक्रे बहुशूरविनाशिनीम् ।। ९ ।।
तदोत्थाय महीराजः कटिमाबध्य संभ्रमात् ।।
वैरिणं परमं मत्वा महद्युद्धमचीकरत् ।। 3.3.26.१० ।।
युद्ध्यंत्योः सेनयो स्तत्र मलना पुत्रगृद्धिनी ।।
शारदामादराद्गत्वा पूजयामास भक्तितः ।। ११ ।।
देविदेवि महादेवि सर्वदुःखविनाशिनि ।।
हर मे सकलां बाधां कृष्णांशं बोधयाशु च ।। १२ ।।
जप्त्वायुतमिमं मंत्रं हुत्वा तर्पणमार्जने ।।
कृत्वा सुष्वाप तद्वेश्मस्तदा तुष्टा स्वयं शिवा ।। १३ ।।
मलने महती बाधा क्षयं यास्यति मा शुचः ।। १४ ।।
इत्युक्त्वा शारदा देवी कृष्णांशं प्रति चागमत् ।।
पुत्र ते जननी भूमिर्महीराजेन पीडिता।।
क्षयं यास्यति शीघ्रं च तस्मात्त्वं तां समुद्धर ।। १५ ।।
इति श्रुत्वा वचो देव्यास्स वीरो विस्मयान्वितः ।।
देवकीं प्रति संप्राप्तः कथयामास कारणम् ।। १६ ।।
सा तु श्रुत्वा वचो घोरं स्वर्णवत्या समन्विता ।।
रुरोद भृशमुद्विग्ना विलप्य बहुधा सती ।। १७ ।।
कृष्णांशस्तु तदा दुःखी देवसिंहमुवाच ह ।।
किं कर्तव्यं मया वीर देह्याज्ञां दारुणे भये ।। १८ ।।
तच्छ्रुत्वा तेन सहितो लक्षणेन समन्वितः ।।
ययौ दिग्विजयार्थेन व्याजेन च महावतीम् ।। ।। १९ ।।
तालनो भीमसेनांशः सेनापतिरुदारधीः ।।
सप्तलक्षबलैस्सार्द्धं विनाह्लादेन संययौ ।। 3.3.26.२० ।।
कल्पक्ष्रेत्रमुपागम्य योगिनस्ते तदाभवन् ।।
सेनां निवेशयामास विपिने तत्र दारुणे ।। २१ ।।
कृष्णांशस्तालनो देवो लक्षणो बलवत्तरः ।।
गृहीत्वा लास्यवस्तूनि युद्धभूमिमुपागमन् ।।२२।।
सप्ताहं च तयोर्युद्धं जातं मृत्युविवर्द्धनम् ।।
सप्तमेऽहनि ते वीरास्संप्राप्ता रणमूर्द्धनि ।।२३।।
तस्मिन्दिने महाभाग महद्युद्धमवर्तत ।। २४ ।।
दृष्ट्वा पराजितं सैन्यं राजा परिमलो बली ।।
रथस्थश्चापमादाय महीराजमुपाययौ ।। २५ ।।
यादवश्च गजारूढस्तदा चंद्रावलीपतिः ।।
धुन्धुकारं समाहूय धनुर्युद्धमचीकरत् ।। २६ ।।
हरिनागरमारुह्य ब्रह्मानंदो महाबल. ।।
तारकं शत्रुमाहूय धनुर्युद्धं चकार ह ।। २७ ।।
मर्दनं राजपुत्रं च रणजिद्ग जसंस्थितः ।।
स्वशरैस्ताडयामास तत्सुतं च जघान ह ।। २८ ।।
रूपणो वै सरदनं हयारूढो जगाम ह ।।
आभीरीतनयो जातो मदनो नाम वै बली ।।
नृहरं राजपुत्रं च शंखांशश्च जगाम ह ।। २९ ।।
तेषु संग्राममेतेषु चामुण्डोऽयुतसैन्यपः ।।
महीपतेश्च वचनं मत्वा नगरमाययौ ।। 3.3.26.३० ।।
ददर्श नगरीं रम्यां चतुर्वर्णसमन्विताम् ।।
धनधान्ययुतां वीरो देवीभक्तिपरायणः ।। ३१ ।।
महीपतिस्तु वै धूर्तो दुर्गद्वारि समागतः ।।
चामुंडेन युतः पापी राजगेहमुपाययौ ।।३२।।
मलना भ्रातरं दृष्ट्वा वचनं प्राह दुःखिता ।।
भाद्रकृष्णाष्टमी चाद्य यवव्रीहि गृहे स्थितम् ।।३३।।
न प्राप्तं जल संस्थाने सुपुण्ये कीर्तिसागरे ।।
महीराजो महापापी वामनोत्सवमागतः ।।३४।।
विनाह्लादं च कृष्णांशं महद्दुःखमुपागतम् ।।
इत्युक्तस्य विहस्याह ब्राह्मणोऽयं महाबली ।।
कान्यकुब्जात्समायातः कृष्णांशेन प्रयोजितः ।।३५।।
देवीदत्तश्च नाम्नाऽयं स ते कार्यं करिष्यति ।।
श्रुत्वा चंद्रावली देवी सर्वभूषणसंयुता ।।३६।।
कामाग्निपीडितं विप्रं चामुंडं च ददर्श ह।।
मातरं प्रति चागम्य वचनं प्राह निर्भरम्।।३७।।
धूर्तोऽयं ब्राह्मणो मातर्निश्चयं मां हरिष्यति ।।
कोऽयं वीरो न जानामि कथं यामि पतिव्रता ।।३८।।
इति श्रुत्वा वचस्तस्या लज्जितस्स महीपतिः।।
चामुंडेन युतः प्राप्तो यत्राभूत्स महारणः।।३९।।
एतस्मिन्नंतरे ते वै ब्रह्माद्यास्तैः पराजिताः।।
त्यक्त्वा युद्धं गृहं प्राप्तास्त्रिलक्षबलसंयुताः ।।3.3.26.४०।।
कपाटं सुदृढं कृत्वा महाचिंतामुपाययुः ।
महीराजस्तु बलवान्महीपत्यनुमोदितः।।४१।।
प्रमदावनमागत्य षष्टिलक्षबलान्वितः।।
जुगोप तत्र बलवान्माननोत्सवहेतवे ।।
तालनाद्याश्च चत्वारः शिरीषाख्यपुरं ययुः।।
स्थलीभूतं च तं ग्रामं दृष्ट्वा ते विस्मयान्विताः।।
प्रययुस्ते सुखभ्रष्टा ददृशुर्हिमदं मुनिम्।।४३।।
प्रणम्योचुः शुचाविष्टा बलखा निर्मुने बली ।।
क्व गतः समरश्लाघी स च कुनागरैर्युतः ।।४४।।
श्रुत्वाह हिमदो योगी महीराजेन नाशितः ।।
छद्मना बलखानिश्च तस्येयं सुन्दरी चिता ।।४५।।
इति श्रुत्वा वचो घोरं कृष्णांशः शोकतत्परः ।।४६।।
विललाप भृशं तत्र हा बन्धो धर्मजांशक ।।
त्वदृते भूतले वासो ममातीव भयंकरः ।। ४७ ।।
दर्शनं देहि मे क्षिप्रं नो चेत्प्राणांस्त्यजाम्यहम् ।। ४८ ।।
इत्युक्तः स तु तद्भ्राता बलखानिः पिशाचगः ।।
सपत्नीकस्समायातो रोदनं कृतवान्बहु ।।
कथित्वा सर्ववृत्तान्तं यथाजातं स्ववैशसम् ।। ४९ ।।
दिव्यं विमानमारुह्य गतो नाकं मनोरमम् ।।
युधिष्ठिरे तस्य कला बलखानेर्लयं गता ।। 3.3.26.५० ।।
तदा दुःखी स कृष्णांशः कृत्वा भ्रातुस्तिलांजलिम् ।।
महावतीं समागत्य राजगेहमुपाययौ ।। ५१ ।।
वेणुशब्देन कृष्णांशो ननर्त जनमोहनः ।।
वीणाप्रवाद्यं च जगौ तालनो योगिरूपधृक ।। ५२ ।।
मृदंगध्वनिना देवो लक्षणः कांस्यवाद्यकः ।।
सुस्वरं च जगौ तत्र श्रुत्वा राजा विमोहितः ।। ५३ ।।
तदा तु मलना राज्ञी दृष्ट्वा तद्वामनोत्सवम् ।।
रुदित्वा वचनं प्राह क्व गतो मे प्रियंकरः ।। ५४ ।।
कृष्णांशो बन्धुसहितस्त्यक्त्वा मां मन्दभागिनीम् ।।
त्वया विरहितो देशो महीराजेन लुंठितः ।। ५५ ।।
इत्युक्तां मलनां दृष्ट्वा कृष्णांशः स्नेह कातरः ।।
वचनं प्राह नम्रात्मा देवि त्वं वचनं कुरु ।। ५६ ।।
योगिनश्च वयं राज्ञि सर्वयुद्धविशारदाः ।।
तवेदं सकलं कार्यं कृत्वा यामो हि नैमिषम् ।। ५७ ।।
ये यवव्रीहयश्चैव तव सद्मनि संस्थिताः ।।
गृहीत्वा योषितस्सर्वा गच्छन्तु सागरान्तिकम् ।।
वयं तु योगसैन्येन तव रक्षां च कुर्महे ।। ५८ ।।
इति श्रुत्वा वचस्तस्य तत्सुता च पतिव्रता ।।
मातरं वचनं प्राह कृष्णांशोऽयं न नर्तकः ।। ५९ ।।
पुण्डरीकनिभे नेत्रे श्यामांगं तस्य सुन्दरम् ।।
कृष्णांशेन विना मातः को रक्षार्थं क्षमो भुवि ।।
दुर्जयश्च महीराजः कृष्णांशेन विनिर्जितः ।। 3.3.26.६० ।।
इति तद्वचनं श्रुत्वा मलना प्रेमविह्वला ।।
यववीहयो निष्कास्य योषितां स्थापिताः करे ।। ६१ ।।
जगुस्ता योषितस्सर्वाः कृष्णांशचरितं शुभम् ।।
लक्षणः शीघ्रमागम्य योगिवेषान्स्वसैनिकान् ।।
सज्जीकृत्य स्थितस्तत्र तालनाद्यैः सुरक्षितः ।। ६२ ।।
कीर्तिसागरमागम्य ते वीरा बल दर्पिताः ।।
रुरुधुः सर्वतो नारीर्दोलायुतमितस्थिताः ।। ६३ ।।
महीपतिस्तु कुलहा ज्ञात्वा कृष्णांशमागतम् ।।
चंद्रवंशिनमागम्य सपुत्रश्च रुरोद ह ।। ६४ ।।
योगिभिस्तैर्महाराज लुंठिताः सर्वयोषितः ।।
मलना संहृता तत्र तथा चंद्रावली सुता ।। ६५ ।।
महीराजस्य ते सैन्या योगिवेषास्समागताः ।।
तारकाय सुतां प्रादान्महीराजाय मत्स्वसाम् ।। ६६ ।।
इति श्रुत्वा वचो घोरं ब्रह्मानन्दो महाबलः ।।
लक्षसैन्यान्वितस्तत्र ययौ रोषसमन्वितः ।। ६७ ।।
महीराजस्तु कलही सैन्यायुतमहात्मजः ।।
रक्षितः कामसेनेन तथा रणजिता ययौ ।। ६८ ।।
तयोश्चासीन्महयुद्धं सेनयोरुभयोर्भुवि ।।
तालनो योगिवेषश्च ब्रह्मानंदमुपाययौ ।। ६९ ।।
लक्षणश्चाभयं शूरं देवसिंहो महीपतिम् ।।
जित्वा बद्ध्वा च मुदितौ कामसेनस्समागतः ।। 3.3.26.७० ।।
लक्षणः कामसेनं च देवो रणजितं तदा ।।
बद्ध्वा तत्र स्थितौ वीरौ शत्रूसैन्यक्षयंकरौ ।। ७१ ।
एतस्मिन्नंतरे ब्रह्मा बद्ध्वा वै तालनं बली ।।
लक्षणान्तमुपागम्य धनुर्युद्धमचीकरत् ।। ७२ ।।
लक्षणं छिन्नधन्वानं पुनर्बद्ध्वा महाबलः ।।
देवसिंहमुपागम्य मूर्छितं तं चकार ह ।। ७३ ।।
हाहाभूते योगिसैन्ये प्रद्रुते सर्वतो दिशम् ।।
कृष्णांशो योषितस्सर्वा वचनं प्राह नम्रधीः ।। ७४ ।।
ब्रह्मानन्दोऽयमायातो मम सैन्य क्षयंकरः ।।
तस्माद्यूयं मया सार्द्धं गच्छाशु च तं प्रति ।। ७५ ।।
इत्युक्त्वा तास्समादाय ब्रह्मानन्दमुपाययौ ।।
तयोश्चासीन्महद्युद्धं नरनारायणां शयोः ।। ७६ ।।
कृष्णांशस्तत्र बलवान्नभोमार्गेण तं प्रति ।।
रथस्थं च समागम्य मोहयामास सोऽसिना ।। ७७ ।।
तदा तु मूर्छिते तस्मिन्मोचयित्वा च ता मुदा ।।
योगी सैन्यान्वितो युद्धात्पलायनपरोऽभवत् ।। ७८ ।।
पराजिते योगिसैन्ये ब्रह्मानंदो महाबलः ।।
योषितस्ताः समादाय स्वगेहाय दधौ मनः ।। ७९ ।।
महीराजस्तु संप्राप्तो महीपत्यनुमोदितः ।।
रुरोध सर्वतो नारीः शिवदत्तवरो बली ।। 3.3.26.८० ।।
नृहरश्चाभयं शूरं मर्दनश्चैव रूपणम् ।।
मदनं वै सरदनो ब्रह्मानंदं च तारकः ।। ८१ ।।
चामुण्डः कामसेनं च धनुर्युद्धमचीकरत् ।।
तदाभयो महावीरो धुन्वंतं नृहरं रिपुम् ।। ८२ ।।
छित्त्वा धनुस्तमागत्य खड्गयुद्धमचीकरत् ।।
नृहरः खड्गरहितोऽभवद्युद्धपराङ्मुखः ।।
तमाह वचनं क्रुद्धोऽभयो युद्धार्थमुद्यतः ।। ।। ८३ ।।
भवान्वै मातृष्वस्रीयो महीराजस्य चात्मजः ।। ८४ ।।
क्षत्रियाणां परं धर्मं कथं संहर्तुमिच्छति ।।
इति श्रुत्वा तु नृहरो गृहीत्वा परिघं रुषा ।। ८५ ।।
जघान तं च शिरसि स हतः स्वर्गमाययौ ।।
स च वै कृतवर्मांशो विलीनः कृतवर्मणि ।। ८६ ।।
मदनं गोपजातं च हत्वा सरदनो बली ।।
जयशब्दं चकारोच्चैर्पुनर्हत्वा रिपोर्बलम् ।।
उत्तरांशश्च स ज्ञेयो मदनश्चोत्तरे लयः ।। ८७ ।।
रूपणश्च समागत्य मूर्छयित्वा च मर्दनम् ।।
पुनस्सरदनं प्राप्य खड्गयुद्धं चकार ह ।। ८८ ।।
ब्रह्मानंदश्च बलवान्स बद्ध्वा तारकं रुषा ।।
महीराजान्तमागम्य धनुर्युद्धं चकार ह ।। ८९ ।।
नृहरं रणजित्प्राप्य स्वभल्लेन तदा रुषा ।।
जघान समरश्लाघी महीराजसुतं शुभम् ।।3.3.26.९०।।
स वै दुश्शासनांशश्च मृतस्तस्मिन्समागतः ।। ९१ ।।
निहते नृहरे बंधौ मर्दनः क्रोधतत्परः ।।
स्वशरैस्ताडयामास सात्यकेरंशमुत्तमम् ।। ९२ ।।
छित्त्वा तान्रणजिच्छूरस्स वै परिमलोद्भवः ।।
स्वभल्लेन शिरः कायान्मर्दनस्य स चाहरत् ।। ९३ ।।
मृतेऽस्मिन्मर्दने वीरे तदा सरदनो बली ।।
ताडयामास तं वीरं स्वभल्लेनैव वक्षसि ।। ९४ ।।
महत्कष्टमुपागम्य रणजिन्मलनोद्भवः ।।
स्वखङ्गेन शिरः कायादपाहरत वैरिणः ।। ९५ ।।
त्रिबंधौ निहते युद्धे तारकः क्रोधमूर्छितः ।।
रथस्थश्च रथस्थं च ताडयामास वै शरैः ।। ९६ ।।
छित्त्वा बाणं च रणजित्तथैव च रिपोर्द्धनुः ।।
त्रिशरैस्ताडयामास कर्णांशं तारकं हृदि ।। ९७ ।।
अमर्षवशमापन्नो यथा दंडैर्भुजंगमः ।।
ध्यात्वा च शंकरं देवं विषधौतं शरं पुनः ।। ९८ ।।
संधाय तर्जयित्वा च शत्रुकंठमताडयत् ।।
तेन बाणेन रणजित्त्यक्त्वा देहं दिवं गतः ।। ९९ ।।
हते तस्मिन्महावीर्ये ब्रह्मानंदश्च दुःखितः ।।
महीराजभयाद्ब्रह्मा पुरस्कृस्य च योषितः ।।
संध्याकाले तु संप्राप्ते भाद्रकृष्णाष्टमीदिने ।। 3.3.26.१०० ।।
कपाटं सुदृढं कृत्वा सैन्यैः षष्टिसहस्रकैः ।।
सार्द्धं गेहमुपागम्य शारदां शरणं ययौ ।। १०१ ।।
महीराजस्तु बलवान्पुत्रशोकेन दुःखितः ।।
संकल्पं कृतवान्घोरं शृण्वतां सर्वभूभृताम् ।। १०२ ।।
शिरीषाख्यपुरं रम्यं यथा शून्यं मया कृतम् ।।
तथा महावती सर्वा ब्रह्मानंदादिभिस्सह ।।
क्षयं यास्यंति मद्बाणैः सर्वे ते चंद्रवंशिनः ।। १०३ ।।
इत्युक्त्वा धुंधुकारं वै चाह्वयामास भूपतिः ।।
पंचलक्षबलैस्सार्द्धं शीघ्रमागम्यतां प्रिय ।। १०४ ।।
इति श्रुत्वा धुंधुकारो गत्वा शीघ्रं च देहलीम् ।।
उषित्वा सप्त दिवसान्युद्धभूमिमुपागमत् ।। १०५ ।।
तदाष्टलक्षसहितो महीराजो महाबलः ।।
तारकेण च संयुक्तो युद्धाय समुपाययौ ।। १०६ ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युग खण्डापरपर्याये कलियुगीयेतिहासससमुच्चये षड्विंशोऽध्यायः ।। २६ ।।