भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search

सूत उवाच ।।
षड्विंशाब्दे च कृष्णांशे यथा जातं तथा शृणु ।।
मुने बिंदुसरो नाम दक्षिणस्यां दिशि स्थितम् ।।१।।
तस्य तीरेऽवसद्ग्रामो योजनायामसंयुतः ।।
नाम्ना बिंदुगढो दुर्गो वर्णधर्मप्रवर्तकः ।। २ ।।
तस्मिन्ग्रामेऽवसद्भूपो विष्वक्सेनान्वयोद्भवः ।।
शारदानन्दनो नाम ब्रह्मध्यानपरायणः।।३।।
ब्रह्मचर्यप्रभावेण तद्वीर्यं शिरसि स्थितम् ।।
अतस्स कामपालाख्यः प्रथितोऽभून्महीतले।।४।।
यज्ञैः संपूजयामास सुरज्येष्ठं प्रजापतिम्।।
यज्ञांशभुक्तमात्रेण राज्ञी गर्भमुपादधौ।।५।।
दशमासान्तरे जाता कन्या सर्वगुणालया ।।
पद्मिनी नाम विख्याता सर्वशोभासमन्विता।। ६ ।।
द्वादशाब्दवयः प्राप्तौ बभूव वरवर्णिनी ।।
पद्माकरो भूपसुतो महीराजपदानुगः ।।७।।
पितुराज्ञानुसारेण भूपानाहूय सत्वरम् ।।
स्वयं वरं भगिन्याश्च कारयामास वै मुदा ।। ८ ।।
नानादेश्या ययुर्भूपा मुख्यशूरसमन्विताः ।।
सहाह्लादैश्चतुवीरैर्लक्षणः पितुराज्ञया ।। ९ ।।
ययौ बिंदुगढं ग्रामं स्थितो यत्र महोत्सवः ।।
महीराजस्तु बलवान्दृष्ट्वा लक्षणमागतम् ।। 3.3.25.१० ।।
स्वसेनां स्थापयामास रक्षार्थे सर्वभूभुजाम् ।।
एतस्मिन्नंतरे देवी सखीभिः सह पद्मिनी ।। ११ ।।
सर्वभूपान्विलोक्याशु लक्षणांतमुपाययौ ।।
श्यामांगं च युवानं च सर्वलक्षण लक्षितम् ।। १२ ।।
चत्वारिंशत्तथा पंचाशन्मानाब्दवयोवृतम् ।।
व्यूढोरस्कं दृढस्कंधं निर्जरं रोगवर्जितम् ।। १३ ।।
दृष्ट्वा तमात्मसदृशमाह्लादाद्यैश्च रक्षितम् ।।
जयमालां ददौ तस्मै पद्मिनी लक्षणाय च ।। १४ ।।
तदा स लक्षणो वीरो गृहीत्वा पाणिमुत्तमम् ।।
स्वरथं च समारुह्य राज्ञां मध्ये ययौ मुदा ।। १५ ।।
पृध्वीराजस्तथा सर्वे भूमिपा बलसंयुताः ।।
रुरुधुः सर्वतो वीरं लक्षणं बलवत्तरम् ।। १६ ।।
तालनः सिंहिनीसंस्थो गृहीत्वा परिघं मुदा ।।
सैन्यानि योधयामास भीमसेनांशसंभवः ।। १७ ।।
पंचशब्दगजारूढश्चाह्लादस्तोमरायुधः ।।
रिपून्विदारयामास बलभद्रांशसंभवः ।। १८ ।।
कृष्णांशो बिन्दुलारूढो गृहीत्वा खड्गमुत्तमम् ।।
भूपतीन्बहुधा छित्त्वा महावधमकारयत् ।। १९ ।।
देवो मनोरथारूढो भैरवं भल्लमादधौ ।।
हत्वा च बहुधा सैन्यं ननर्द च पुनःपुनः ।। 3.3.25.२० ।।
लक्षणो धनुरादाय वैष्णवास्त्राणि वै पुनः ।।
संधाय च जघानाशु महीराजस्य सैन्यपान् ।। २१ ।।
याममात्रमभूयुद्धं तेषां तैश्च समन्वितम् ।।
त्यक्त्वा युद्धं महीराजः सर्वभूपसमन्वितः ।। २२ ।।
ययौ स देहलीग्रामे शारदानंदनस्तदा ।।
संस्थाप्य मण्डपशुभं कृत्वा वैवाहिकीः क्रियाः ।।
ददौ कन्यां विधानेन धनधान्यादिसंवृताम् ।। २३ ।।
एतस्मिन्नन्तरे प्राप्तो महीपतिरुवाच तम् ।।
पद्माकरं भूपसुतं लक्षसैन्यसमन्वितम् ।। २४ ।।
अहो मित्र महावीर कीदृशी ते मतिः स्थिता ।।
विष्वक्सेनान्वये त्वं वै संजातः क्षत्रियोत्तमः ।। २५ ।।
लक्षणो धर्मरहितो वर्णसंकरसंयुतः ।।
आह्लादाद्याश्च ते शूरा आभीरमातृसंभवाः ।।
तैर्युतश्च निवासो वै संत्याज्यो धर्मकोविदैः ।। २६ ।।
इति पद्माकरः श्रुत्वा सर्वमायाविशारदः ।।
स कृत्वा शाम्बरीं मायां बद्ध्वा तानेव दुर्जयान् ।।
स्वगेहे स्थापयामास कारागारे शिलामये ।। २७ ।।
देव्याश्च वरदानेन देवसिंहस्तदा निशि ।।
त्यक्त्वा मायामोहमयी कान्यकुब्जमुपाययौ ।। २८ ।।
इंदुलाग्रे च तत्सर्वे गदित्वा तेन संयुतः ।।
प्राप्तो बिंदुगढं शीघ्रं दिव्यमायाविशारदः ।। २९ ।।
पद्माकरस्तु तच्छुत्वा कृत्वा मायां च शाम्बरीम् ।।
मोहनायोद्यतस्तत्र यथा मेघो रविं दिवि ।। 3.3.25.३० ।।
इंदुलश्च तदा चापे संधाय शरमुत्तमम् ।।
कामास्त्रेण तु तन्माया भस्मीभूताभवत्क्षणात् ।। ३१ ।।
तदा ते बोधिताः सर्वे कामास्त्रेण महाबलाः ।।
भित्त्वा लोहमयं जालं कपाटं च तथा दृढम् ।। ३२ ।।
बहिर्भूता: समाजग्मुः शत्रुसैन्यान्यनाशयन् ।।
क्षत्रियाः पंचसाहस्रा मृता यमपुरं ययुः ।। ३३ ।।
शारदानंदनो भूपस्तत्रागत्य विनम्य तान् ।।
स्वसुतां च ददौ तस्मै लक्षणाय महात्मने ।।३४।।
नानाविधानि भोज्यानि प्रशस्याभरणानि च ।।
सर्वेभ्यश्च ददौ राजा सहस्रेभ्यस्तदा मुदा ।। ३५ ।।
कुमारिकां स्वकीयां च बहुरोदनतत्पराम्।।
स मत्वा कामपालो वै स्वगेहात्तं न्यवासयत् ।।
आगतो लक्षणो गेहं माघकृष्णाष्टमीदिने ।। ३६ ।।
जयचंद्रस्तु तं दृष्ट्वा लक्षणं प्रेमविह्वलः ।।
शतग्रामान्ददौ तेभ्यस्तालनादिभ्य एव च।।३७।।
दत्त्वा ततोऽन्यदानानि गोवस्त्राभरणानि च ।।
प्रददौ ब्राह्मणेभ्यश्च स चकार महोत्सवम् ।।३८।। ।।
।। सूत उवाच ।। ।।
महीराजो वरं प्राप्तः शंकरात्पार्थिवार्चनात् ।।
संयोज्य फाल्गुने मासि सेनां शत्रुभयंकराम् ।। ३९ ।।
सप्तलक्षैश्च सहितः शिरीषाख्यपुरं ययौ ।।
नृपाज्ञया च चांमुडो रुरोध नगरं पुनः ।। 3.3.25.४० ।।
सुखखानिस्तदा क्रुद्धो लक्षसैन्यसमन्वितः ।।
नगराद्बहिरागत्य महावधमकारयत् ।। ४१ ।।
पावकास्त्रेण बलवान्हत्वा दशसहस्रकम् ।।
महीराजमुपागम्य वचनं प्राह निर्भयः ।। ४२ ।।
अद्य त्वां च हनिष्यामि त्वं वा हन्ता रणे मम ।।
स्वविद्यां कुरु भूप त्वं नो चेद्यास्यसि वैशसम् ।। ४३ ।।
इति श्रुत्वा महीराजो रौद्रास्त्रं चाप आदधे ।।
तदस्त्राच्च महावह्निः प्रादुर्भूतो भयंकरः ।। ४४ ।।
सुखखानिस्तदाग्नेयं संदधौ तस्य शांतये ।।
रौद्राग्निना च सशरः सुखखानिर्लयं गतः ।। ४५ ।।
तदस्त्रं शिवतूणीरे गतं कार्यं विधाय तत् ।।
बलखानिस्तु तच्छ्रुत्वा भयभीतः समागतः ।। ४६ ।।
भ्रातुर्वैरमुपादाय जघान च रिपोर्बलम् ।।
ध्यात्वा च शारदां देवीं भूमिराजमुपागमत् ।। ४७ ।।
भूमिराजस्तु तं दृष्ट्वा तद्बलाधिक्यमोहितः ।।
उवाच वचनं प्रेम्णा बलखाने शृणुष्व भोः ।। ४८ ।।
क्रोशमात्रान्तरे गर्ता द्वादशैव मया कृताः ।।
रक्षिता द्वादशशतैः शूरैर्युद्धविशारदैः ।। ४९ ।।
शूराञ्जित्वा समुल्लंघ्य गर्तान्द्वादशसम्मितान् ।।
ममार्द्धं सकलं राष्ट्रं गृहाण बलिसत्तम ।। 3.3.25.५० ।।
इति श्रुत्वा प्रियं वाक्यं तद्राज्ञा सत्यभाषितम् ।।
कपोतं हयमारुह्य खड्गहस्तो वनं ययौ ।। ५१ ।।
दृष्ट्वा गर्तान्महावीरो हत्वा शूराञ्छतञ्छतम्।।
ययौ स द्वादशान्गर्त्तान्बाहुशाली जितेंद्रियः ।। ५२ ।।
चामुंडस्तु तदागत्य शरायुतसमन्वितः ।।.
रुरोध सर्वतो वीरं छद्मकारी द्विजाधमः ।। ५३ ।।
बलखानिश्च महतीं सेनां तस्य जघान ह ।।
चामुंडं तमुपागम्य ननर्द च पुनःपुनः ।। ५४ ।।
त्रयोदशं गुप्तगर्तं तृणैराच्छादितं मृदा ।।
विषधौतैर्महाभल्लैस्संरुद्धं विवरप्रभम् ।। ५५ ।।
पतितः सकपोतश्च स वीरो दैवमोहितः ।।
अंधकारे महाघोरं गंभीरं क्रोशमात्रकम् ।। ५६ ।।
विदीर्णस्तत्र चरणस्स पद्मो वत्सजस्य वै ।।
महाकष्टेन तद्वाजी गर्तादागत्य वै बहिः ।।
स्वपदैस्ताडयामास महीराजस्य तद्बलम् ।। ५७ ।।
चामुंडस्तु तदागत्य बलखानेश्च वै शिरः ।।
छित्त्वा जघान तत्सैन्यं हाहाभूतं विनेश्वरम् ।। ५८ ।।
गजमुक्ता च तच्छुत्वा चितामारोप्य वै पतिम् ।।
दाहयामास चांगानि सा पत्या सह वै सती ।। ५९ ।।
तदा ब्रह्मा स्ववध्वा च सार्द्धमागत्य तत्र वै ।।
सुखखानिं च संहूय ददाह तत्कलेवरम् ।। 3.3.25.६० ।।
शून्यभूतं च नगरं भस्म कृत्वा स वै नृपः ।।
जगाम देहली शीघ्रं महोत्साहसमन्वितः ।। ६१ ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये विक्रमाख्यानकाले पंचविंशोऽध्यायः ।। २५ ।।