भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
कृष्णांशे च गृहं प्राप्ते चेन्दुले च विवाहिते ।।
महीपतिस्सदा दुःखी देहलीं प्रति चागमत्।। १ ।।
वृत्तांतं च नृपस्याग्रे कथयित्वा स तारकः ।।
परं विस्मयमापन्नः कृष्णांशचरितं प्रति ।। २ ।।
एतस्मिन्नंतरे मंत्री चंद्रभट्ट उदारधीः ।।
भूमिराजं वचः प्राह शृणु पार्थिवसत्तम।।३।।
मया चाराधिता देवी वैष्णवी विश्वकारिणी ।।
त्रिवर्षांते च तुष्टाभूद्वरदा भयहारिणी।।४।।
तया दत्तं शुभं ज्ञानं कुमतिध्वंसकारकम्।।
ततोऽहं ज्ञानवान्भूत्वा कृष्णांशं प्रति भृपते ।।
चरित्रं वर्णयामास तस्य कल्मषनाशनम् ।। ५ ।।
इत्युक्त्वा स च शुद्धात्मा ग्रंथं भाषामयं शुभम् ।।
माहात्म्यं देविभक्तानां श्रावयामास वै सभाम् ।।६।।
तच्छ्रुत्वा भूमिराजस्तु विस्मितश्चाभवत्क्ष णात् ।।
महीपतिस्तदा प्राह दिव्याश्वबलदर्पितः। ।।
उदयो नाम बलवान्यस्यैवं वर्णिता कथा ।।७।।
चत्वारो वाजिनो दिव्या जलस्थलखगाश्च ते ।।
शीघ्रं तांश्च समाहृत्य स्वयं भूप बली भव ।। ८ ।।
इति श्रुत्वा स नृपतिः श्रुतवाक्यविशारदम् ।।
आहूय कुंदनमलं प्रेषयामास सत्वरम् ।। ९ ।।
महावतीं समागत्य स दूतो भूपतिं प्रति ।।
उवाच वचनं प्रेम्णा महीराजस्य भूपतेः ।। 3.3.2४.१० ।।
वाजिनस्ते हि चत्वारो दिव्यरूपाः शुभ प्रभाः ।।
दर्शनाथें तव वधूर्वेला नाम ममात्मजा ।। ११ ।।
तयाहूतान्हयान्भूप देहि मे विस्मयं त्यज ।।
नो चेद्वेलाग्निना सर्वे क्षयं यास्यंति सैन्यपाः ।। १२ ।।
इति श्रुत्वा वचो घोरं स भूपो भयकातरः ।।
आह्लादादीन्समाहूय वचनं प्राह नम्रधीः ।।
हयान्स्वान्स्वान्मुदा देहि मदीयं वचनं कुरु ।। ।।१३।।
इति श्रुत्वा स आह्लादो ध्यात्वा सर्वमयीं शिवाम् ।।
उवाच मधुरं वाक्यं शृणु भूप शिवप्रिय ।।१४।।
यत्र नः संस्थिताः प्राणास्तत्र ते वा जिनः स्थिताः ।।
न दास्यामो वयं राजन्सत्यंसत्यं न चान्यथा ।। १५ ।।
इति श्रुत्वा वचस्तस्य राजा परिमलो बली ।।१६।।
शपथं कृतवान्घोरं शृण्वतां बलशालिनाम् ।।
भोजनं ब्रह्ममांसस्य पानीयं गोऽसृजोपमम्।।१७।।
शय्या स्वमातृसदृशी ब्रह्महत्योपमा सभा ।।
मम राष्ट्रे च युष्माभिर्वासः पापमयो महान् ।।१८।।
इति श्रुत्वा तु शपथं देवकी शोकतत्परा ।।
चकार रोदनं गाढं सगेहजनविग्रहा।।१९।।
पंचविंशाब्दके प्राप्ते कृष्णांशे योगतत्परे ।।
भाद्रशुक्लचतुर्दश्यां तद्गेहाद्धर्मतत्पराः ।। 3.3.2४.२० ।।
निर्ययुः कान्यकुब्जं ते जयचंद्रेण पालितम् ।।
स्वर्णवत्या पुष्पवत्या सहिताश्चित्ररेखया ।।२१।।
इन्दुलः प्रययौ शीघ्रमयुताश्वबलैस्सह ।।
करालं हयमारुह्य पंचशब्दं च तत्पिता ।।
कृष्णांशो बिंदुलारूढो देवकीमनुसंययौ ।।२२।।
त्यक्त्वा ते भूपतेर्ग्रामं सर्वसंपत्समन्वितम् ।।
पथि त्र्यहमुषित्वा ते जयचंद्रमुपाययुः ।।२३।।
नत्वा तं भूपतिं प्रेम्णा गदित्वा सर्वकारणम् ।।
उषित्वा शीतलास्थाने पूजयामासुरम्बिकाम्।।२४।।
जयचंद्रस्तु भूपालो देवसिंहेन वर्णितः।।
तेभ्यश्च न ददौ वृत्तिं भूमा परिमलाज्ञया।।२५।।
कुंठितो देवसिंहस्तु गत्वा कृष्णांशमुत्तमम् ।।
उदित्वा कारणं सर्वं स श्रुत्वा रोषमादधौ ।। २६।।
त्वरितं बिंदुलारूढो हयपंचशतावृतः ।।
लुंठयामास नगरं पालितं लक्षणेन तत् ।। २७ ।।
दृष्ट्वा तं लक्षणो वीरो हस्तिनः पृष्ठमास्थितः ।।
शरेण ताडयामास कृष्णांशहृदयं दृढम् ।।२८।।
निष्फलत्वं गतो बाणो विष्णुमंत्रेण प्रेरितः ।।
विस्मितः स तु भूपालो वाहनाद्भूमिमागतः ।। २९ ।।
नत्वा तच्चरणौ दिव्यौ कुलिशादिभिरन्वितौ ।।
तुष्टाव दंडवद्भूत्वा लक्षणो गद्गदं गिरा ।। 3.3.2४.३० ।।
।। लक्षण उवाच ।। ।।
वैष्णवं विद्धि मां स्वामिन्विष्णुपूजनतत्परम् ।।
जानेऽहं त्वां महाबाहो कृष्णशक्त्यवतारकम् ।।३१।।
त्वदृते को हि मे बाणं निष्फलं कुरुते भुवि ।।
क्षमस्व मम दौरात्म्यं नाथ ते मायया कृतम् ।।३२।।
इत्युक्त्वा तेन सहितो जयचन्द्रं महीपतिम्।।
गत्वा तं कथयामास यथा प्राप्तः पराजयम्।।३३।।
नृपस्तयोः परीक्षार्थं यौ तु छायाविमोहितौ।।
गजौ कुवलयापीडौ त्यक्तवाच्छीतलास्थले।।३४।।
तदाह्लादोदयौ वीरौ गृहीत्वा तौ स्वलीलया ।।
चकृषतुर्बलात्पुच्छे क्रोशमात्रं पुनःपुनः ।। ३५ ।।
मृतौ कुवलयापीडौ दृष्ट्वा राजा भयातुरः ।।
ददौ राजगृहं ग्रामं तयोरर्थे प्रसन्नधीः ।। ३६ ।।
इषशुद्धे तु संप्राप्ते लक्षणो नाम वै बली ।।
नृपाज्ञया ययौ शीघ्रं तैश्च दिग्विजयं प्रति ।। ३७ ।।
सप्तलक्षबलैस्सार्द्धं तालनाद्यैश्च संयुतः ।।
वाराणसीं पुरीं प्राप्य रुरोध नगरीं तदा ।। ३८ ।।
रुद्रवर्मा च भूपालो गौडवंशयशस्करः ।।
पंचायुतैः स्वसैन्यैश्च सार्द्धं युद्धार्थमाप्तवान् ।। ३९ ।।
याममात्रेण तं जित्वा षोडशाब्दस्य वै करम् ।।
कोटिमुद्रामयं प्राप्य जयचंद्राय चार्पयत् ।।3.3.2४.४० ।।
मागधेशं पुनर्जित्वा नाम्ना विजयकारिणम् ।।
विंशत्यब्दकरं प्राप्य स्वभूपाय समर्पयत् ।। ४१ ।।
पंचकोटीश्च वै मुद्रा राजतस्य पुनर्ययौ ।।
अंग वंगदेशपतिं वीरो लक्षणो वै युतश्च तैः।।
लक्षसैन्ययुतं भूपं कालीवर्माणमुत्तमम्।।
अहोरात्रेण तं जित्वा महायुद्धेन लक्षणः।। ४४।
विंशत्यब्द करं प्राप्य कोटिं स्वर्णमयं तदा।।
प्रेषयामास भूपाय जयचंद्राय वै मुदा।।४५।।
उष्ट्रदेशं ययौ वीरः पालितं तैर्महाबलैः।।
धोयीकविस्तत्रनृपो लक्षसैन्यसमन्वितः।४६।।
जगन्नाथाज्ञया प्राप्तस्तैश्च सार्द्धं रणोन्मुखे।।
तयोश्चासीन्महद्युद्धं तुमुलं रोमहर्षणम्।।
अहोरात्रप्रमाणेन कृष्णांशेन जितो नृपः।।४७।।
विंशत्यब्दकरं सर्वं कोटिस्वर्णसमन्वितम् ।।
संप्राप्य प्रेषयामास कान्यकुब्जाधिपाय वै ।। ४८ ।।
पुंड्रदेशं ययौ वीरो लक्षणो बलवत्तरः ।।
नृपं नागपतिं नाम पंचायुतबलैर्युतम् ।।
दिनमात्रेण तं जित्वा कोटिमुद्रा गृहीतवान् ।। ४९ ।।
महेंद्रगिरिमागत्य नत्वा तं भार्गवं मुनिम् ।।
नतो निवृत्य ते सर्वे नेत्रपालपुरं ययुः ।। 3.3.2४.५० ।।
योगसिंहस्तदागत्य कृष्णांशं प्रति भार्गव ।।
कोटिमुद्रा ददौ तस्मै सप्तरात्रम वासयत् ।। ५१ ।।
वीरसिंहपुरं जग्मुस्ते वीरा मदवत्तराः ।।
रुरुधुर्नगरीं सर्वां हिमतुंगोपरि स्थिताम् ।।
पालितां गोरखाख्येन योगिना भक्तकार णात् ।। ५२ ।।
भूपानुजः प्रवीरश्च सैन्यायुतसमन्वितः ।।
कृतवान्दारुणं युद्धं लक्षणस्यैव सेनया ।। ५३ ।।
प्रत्यहं बलवाञ्छूरो हत्वा शूरसहस्र कम् ।।
सायंकाले गृहं प्राप्य योगिनं तमपूजयत् ।। ५४ ।।
पूजनात्स प्रसन्नात्मा सैन्यमुज्जीव्य भूपतेः ।।
दत्त्वा गजबलं तेभ्यः पुनर्योगं करोति वै ।। ५५ ।।
सार्द्धमासो गतस्तत्र युद्ध्यतां बलशालिनाम् ।।
तदा ते तु निरुत्साहा देवसिंहं तमब्रुववन् ।। ५६ ।।
विजयो नः कथं भूप ब्रूहि नस्तत्त्वमग्रतः।।
इति श्रुत्वा स होवाच शृणु कृष्णांश मे वचः ।।५७।।
योगिनां गोरखं नाम पराजित्य स्वनृत्यतः ।।
पुनर्युद्धं कुरु त्वं वै ततो जय मवाप्स्यसि ।। ५८ ।।
इत्युक्तास्ते हि कृष्णाद्याः कृत्वा योगमयं वपुः ।।
स्थापयित्वा रणे सेनां पालितां लक्षणेन वै ।। ५९ ।।
प्रातः काले ययुस्ते वै मंदिरं तस्य योगिनः ।।
कृष्णांशो नर्तकश्चासीद्वेणुवाद्यविशारदः ।। 3.3.2४.६० ।।
देवसिंहो मृदंगाढ्यो वीणाधारी च तालनः ।।
कांस्यधारी तदाह्लादो जगौ गीतां सनातनीम् ।। ६१ ।।
तदर्थं हृदये कृत्वा गोरखस्सर्वयोगवान् ।।
वरं वृणुत तानाह ते तच्छ्रुत्वाऽब्रुवन्वचः ।। ६२ ।।
नमस्यामो वयं तुभ्यं यदि देयो वरस्त्वया ।।
देहि संजीविनी विद्यामाह्लादाय महात्मने ।।६३।।
इति श्रुत्वा हृदि ध्यात्वा तानुवाच प्रसन्नधीः ।।
विद्या संजीविनी तुभ्यं वर्षमात्रं भविष्यति ।।
तत्पश्चान्निष्कलीभूयागमिष्यति मदंतिकम् ।।६४।।
अद्यप्रभृति भो वीर मया त्यक्तमिदं जगत् ।।
यत्र भर्तृहरिः शिष्यस्तत्र गत्वा शये ह्यहम्।। ६५ ।।
इत्युक्त्वान्तर्हितो योगी जग्मुस्ते रणमूर्द्धनि ।।
जित्वा प्रवीरसिंहं च वीरसिंहं तथैव च ।। ६६ ।।
हत्वा तस्यायुतं सैन्यं लुण्ठयित्वा च तद्गृहम् ।।
कृत्वा दासमयं भूपं लक्षणः प्रययौ मुदा ।। ६७ ।।
कोशलं देशमागत्य जित्वा तस्य महीपतिम् ।।
सैन्यायुतं सूर्यधरं करयोग्यमचीकरत् ।। ६८ ।।
षोडशाब्दकरं प्राप्य मुद्राकोट्ययुतं मुदा ।।
नैमिषारण्यमागम्य तत्रोषुः स्नानतत्पराः ।। ६९ ।।
होलिकाया दिने रम्ये लक्षणो बलवत्तरः ।।
दत्त्वा दानानि विप्रेभ्यो महोत्सवमकारयत् ।। 3.3.2४.७० ।।
तदा वयं च मुनयः समाधिस्थाश्च भूपतिः ।।
यदा स लक्षणः प्राप्तो नैमिषारण्यमुत्तमम् ।। ७१ ।।
स्नात्वा सर्वाणि तीर्थानि संतर्प्य द्विजदेवताः ।।
कान्यकुब्जपुरं जग्मुश्चैत्रकृष्णाष्टमीदिने ।। ७२ ।।
इति ते कथितं विप्र यथादिग्विजयोभवत् ।।
शृणु विप्र कथां रम्यां बलखानिर्यथा मृतः ।। ७३ ।।
मार्गकृष्णस्य सप्तम्यां भूमिराजो महाबलः ।।
महीपतेश्च वाक्येन सामंतं प्राह निर्भयः ।। ७४ ।।
मया श्रुतस्ते तनयः शारदावरदर्पितः ।।
रक्तबीजत्वमापन्नस्तं मे देहि कृपां कुरु ।। ७५ ।।
इत्युक्तस्स तु सामन्तस्तेन राज्ञेव सत्कृतः ।
चामुंडं नाम तनयं समाहूयाब्रवीदिदम् ।। ७६ ।।
पुत्र त्वं नृपतेः कार्यं सदा कुरु रणप्रिय ।।
इति श्रुत्वा पितुर्वाक्यं स वै राजानमब्रवीत् ।। ७७ ।।
देह्याज्ञां भूपते मह्यं शीघ्रं जयमवाप्स्यसि ।।
इति श्रुत्वा स होवाच बलखानिर्महाबलः ।। ७८ ।।
मच्छिरीषवनं छित्वा गृहीत्त्वा राष्ट्रमुत्तमम् ।।
सुस्थितो निर्भयो गेहे बाहुशाली यतेंद्रियः ।।७९।।
यदि त्वं बलखानिं च जित्वा मे ह्यर्पयिष्यसि।।
हत्वा वा तस्य सकलं राष्ट्रं त्वयि भविष्यति ।। 3.3.2४.८० ।।
इत्युक्त्वा रक्तबीजं तं समाहूय स्वकं बलम् ।।
सप्तलक्षं ददौ तस्मै स तत्प्राप्य मुदा ययौ ।। ।। ८१ ।।
उषित्वा त्रिदिनं मार्गे शिरीषाख्यमुपागतः ।।
रुरोध नगरीं सर्वां बलखानेर्महात्मनः।। ८२ ।।
चामुंडागमनं श्रुत्वा बलखानिर्महाबलः।।
पूजयित्वा महमायां दत्त्वा दानान्यनेकशः ।।
लक्षसैन्येन सहितः प्रययौ नगराद्बहिः ।। ८३ ।।
तस्यानुजो महावीरस्सुखखानिर्बलैः सह ।।
हरिणीं तां समारुह्य शत्रुसैन्यमचिक्षपत् ।। ८४ ।।
बलखानिः कपोतस्थो नाशयित्वा रिपोर्बलम् ।।
लक्षसैन्यं मुदा युक्तश्चामुंडं प्रति चागमत् ।। ।। ८५ ।।
तयोश्चासीन्महद्युद्धं स्वस्वसैन्यक्षयंकरम् ।।
अहोरात्रप्रमाणेन निहताः क्षत्रिया रणे ।। ८६ ।।
प्रातःकाले तु संप्राप्ते कृत्वा स्नानादिकाः क्रियाः ।।
जग्मतुस्तौ रणे वीरौ धनुर्बाणविशारदौ ।। ८७ ।।
रथस्थो बलखानिश्च चामुण्डो गजपृष्ठगः ।।
चक्रतुस्तुमुलं घोरं नरविस्मयकारकम् ।। ८८ ।।
बाणैर्बाणांश्च संछिद्य देवीभक्तौ च तौ मुदा ।।
अन्योन्यं वाहने हत्वा भूतलत्वमुपागतौ ।।
खड्गचर्मधरौ वीरौ युयुधाते परस्परम्।।८९।।
यावन्तो रक्तबीजांगात्संजाता रक्तबिंदवः ।।
तावन्तः पुरुषा जाता रक्तबीजपराक्रमाः ।। 3.3.2४.९० ।।
तैश्च वीरैर्मदोन्मत्तैर्बलखानिस्समंततः ।।
संरुद्धोऽभूद् भृगुश्रेष्ठ शारदां शरणं ययौ।।९१।।
एतस्मिन्नंतरे वीरः सुखखानिस्ततोऽनुजः।।
आग्नेयं शरमादाय रक्तबीजानदाहयत्।।९२।।
पुरा तु सुखखा निश्च हव्यैर्देवं च पावकम् ।।
पंचाब्दान्पूजयामास तदा तुष्टस्स्वयं प्रभुः ।। ९३ ।।
पावकीयं शरं रम्यं शत्रुसंहारकारकम् ।।
ददौ तस्मै प्रसन्नात्मा तेनासावभवज्जयी ।। ९४ ।।
बलखानिस्तु बलवान्दृष्ट्वा शत्रुविनाशनम् ।।
पराजितं च चामुंडं बद्ध्वा गेहमुपागतम् ।। ९५।।
कृत्वा नारीमयं वेषं स भीतो ब्रह्महत्यया ।।
दोलामारोप्य बलवान्प्रेषयामास शत्रवे ।। ९६ ।।
हतशेषं पंचलक्षं सैन्यं गत्वा च देहलीम् ।।
वृत्तान्तं कथयामास यथा जातो महारणः ।। ९७ ।।
नारीवेषं च चामुंडं स दृष्ट्वा पृथिवीपतिः ।।
क्रोधाविष्टश्च बलवान्महीपतिमुवाच ह ।। ९८ ।।
कथं जयो मे भविता सुखखानौ च जीविते ।।
श्रुत्वा महीपतिः प्राह च्छद्मना कार्यमाकुरु ।। ९९ ।।
ब्राह्मी माता तयोर्ज्ञेया शुद्धा सैव पतिव्रता ।।
दूतीभिः कारणं ज्ञात्वा पुनर्युद्धं कुरुष्व भोः ।। 3.3.2४.१०० ।।
इति श्रुत्वा महीराजो दूतीस्ताश्छलकोविदाः ।।
आहूय प्रेषयामास बलखानिगृहं प्रति ।।१ ०१।।
ब्राह्मण्यस्तास्तदा भूत्वा बलखानिगृहं ययुः ।।
ससुतां तां प्रशस्याशु पप्रच्छुर्विनयान्विताः ।। १०२ ।।
तव पुत्रौ महावीरौ दिष्ट्या शत्रुक्षयंकरौ ।।
तयोर्मृत्युः कथं भूयाज्जीवतां शरदां शतम् ।। १०३ ।।
तदा ब्राह्मी वचः प्राह पावकीयः शरः शुभः ।।
सुखखानेर्जीवकरो बलखानेः पदाह्वकः ।। १०४ ।।
इति ज्ञात्वा तु ता दूत्यः प्रययुर्देहलीं प्रति ।।
कथयित्वा नृपस्याग्रे धनं प्राप्यं गृहं ययुः ।।१०५।।
महीराजस्तु तच्छ्रुत्वा महादेवमुमापतिम् ।।
पार्थिवैः पूजनं चक्रे सहस्रदिवसान्मुदा ।।१०६।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्विशोऽ ध्यायः ।। २४ ।।