भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २३

विकिस्रोतः तः

।। सूत उवाच ।। ।।
चतुर्विशाब्दकं प्राप्ते कृष्णांशे बलशालिनि ।।
इषशुक्लदशम्यां च कृतो राज्ञा महोत्सवः ।। १ ।।
भोजयित्वा द्विजश्रेष्ठान्दत्त्वा तेभ्यो हि दक्षिणाः ।।
स्वभृत्येभ्यस्तथा वित्तं यथायोग्यं क्रमाद्ददौ ।। २ ।।
कार्तिक्यां शुभयुक्तायां कृष्णांशो बलसंयुतः ।।
इन्दुलेन च संयुक्तो देवसिंहेन संयुतः ।। ३ ।।
अयुतैः स्वर्णद्रव्यैश्च शूरैर्दशसहस्रकैः ।।
ययौ बर्हिष्मतीस्थाने नानाभूपसमन्विते ।। ४ ।।
एतस्मिन्नंतरे तत्र चित्ररेखा समागता ।।
वृता सप्तालिभिर्देवी चित्रगुप्तप्रपूजिनी ।। ५ ।।
गंगामध्ये महारम्यं यानं मायामयं तया ।।
कृतं कौतूहलयुतं बहुसंपत्समन्वितम् ।। ६ ।।
आगतास्तत्र राजानो नाना तद्दर्शनोत्सुकाः ।।
तदोदयो देवयुतो जयंतेन समन्वितः ।।
शतशूरैश्च सहितो दर्शनार्थमुपाययौ ।। ७ ।।
चित्ररेखा महारम्या वाहीकनृपतेः सुता ।।
ददर्श सुदरं कान्तमिंदुलं शशिवन्मुखम् ।।
येन स्वप्नांतरे रम्यं सार्द्धं भुक्तं तया सुखम् ।। ८ ।।
तमाह्लादसुतं ज्ञात्वा साभिनंदनदेहजा ।।
कृत्वा मोहमयं जालं शुकभूतं तदेंदुलम् ।। ९ ।।
हृत्वा स्वयंवरे रम्ये परमानन्दमाययौ ।।
पुनराहृत्य तां मायां स्वगेहाय ययौ मुदा ।। 3.3.23.१० ।।
कृष्णांशस्तु तदा बुद्ध्वा न ददर्श स्वकं शिशुम् ।।
देवसिंहं बोधयित्वा पप्रच्छ क्व गतः शिशुः ।। ११ ।।
कालज्ञो देवसिंहोऽपि मोहितश्चित्रमायया ।।
न ज्ञातस्तेन वै बालः क्व गतः केन वा हृतः ।। १२ ।।
विस्मितं देवसिंहं च दृष्ट्वा कृष्णांशको बली ।।
रुरोदोच्चैस्तदा गाढं चित्रमायाविमोहितः ।। १३ ।।
श्रुत्वा तु रोदनं तस्य खलस्तत्र महीपतिः ।।
ययौ शीघ्रं प्रसन्नात्मा यत्राह्लादः स्वयं स्थितः ।।
रुदित्वा तत्र वै गाढं वचनं प्राह नम्रधीः ।। १४ ।।
उदयो नाम ते भ्राता मोहयित्वा मदेन तौ ।।
देवमिन्दुलमेवासौ हत्वा धारास्वरोपयत् ।। १५ ।।
प्रत्यक्षं च मया दृष्टं तेन वीरेण वै कृतम् ।।
शतं स्वर्णं च मे दत्त्वा विनयेनावरोधितः ।। १६ ।।
देवसिंहस्ततो बुद्ध्या न ज्ञातं तेन यत्कृतम् ।।
इति श्रुत्वा तु वचनं निश्चयं नाधिगच्छति ।। १७ ।।
एतस्मिन्नंतरे प्राप्तौ तौ वीरौ रोदने रतौ ।।
तद्वियोगेन कृष्णांशः स्वदेहं त्यक्तुमुद्यतः ।। १८ ।।
आह्लादो निश्चयं ज्ञात्वा भाषितं च महीपतेः ।।
कृष्णांशं ताडयामास वैतसैश्चर्मकर्तनैः।।१९।।
तस्य माता तथा पत्नी भगिनी प्रेमदुःखिताः ।।
आह्लादं बोधयामासुर्धूर्तमायाविमोहितम् ।।
न बोधितस्तदा वीरश्चित्रमायाविमोहितः ।। 3.3.23.२० ।।
तदा पुष्पवती देवी स्वपतिं भ्रातृपीडितम् ।।
दृष्ट्वा तत्र गता शीघ्रं पतिदुःखेन दुःखिता ।।२१।।
विनापराधं कृष्णांशो महानिंदामवाप्तवान् ।।
तदा वेदविदो विप्रा आह्लादं प्राहुरूर्जितम् ।। २२ ।।
वधस्त्यागः समो ज्ञेयो योग्यं बुद्ध्या विचारय ।।
इत्युक्तः स तुरीयात्मा पुत्रशोकेन दुःखितः ।। ।।२३ ।।
चांडालांश्च समाहूय बद्ध्वा तं पुत्रघातिनम् ।।
दत्त्वा तेभ्यः सपत्नीकं वधं कुरुत मा चिरम् ।। २४ ।।
अस्य नेत्रे समुत्पाट्य मां दर्शयत संयुताः ।।
इति श्रुत्वा गतास्ते वै गहनं व्याघ्रसेवितम् ।। २५ ।।
देवसिंहस्ततो गत्वा दत्त्वा तेभ्यो महद्धनम् ।।
संप्राप्य दंपती वीरश्चांडालेभ्यो वनं ययौ ।। २६ ।।
बलखानेस्तु या पत्नी गजमुक्ता पतिव्रता ।।
दंपती पालयामास गुह्यगेहे मुदा युता ।। २७ ।।
चांडालास्ते तु संगत्य मृगनेत्रे च तं ददुः ।।
देवसिंहस्तदागत्य क्रोधात्मा च तमब्रवीत् ।।
धिक्त्वां पापं दुराचारं त्वया मे हिंसितः सखा ।। २८ ।।
जीवितस्त्वत्सुतो भूमौ तदन्वेषणहेतवे ।।
यास्यामि विविधान्राष्ट्रान्सत्यंसत्यं ब्रवीम्यहम् ।।
इत्युक्त्वा प्रययौ वीरः शिरीषाख्यपुरं शुभम् ।। २९ ।।
गजमुक्तामनुज्ञाप्य दंपती प्राप्य निर्भयः ।।
मयूरनगरं रम्यं निशि घोरं समाययौ ।। 3.3.23.३० ।।
मकरंदस्तु बलवान्ज्ञात्वा तत्सर्वकारणम् ।।
स्वसुः पतिं च भगिनीं स्वांते प्रेम्णा न्यवासयत् ।। ३१ ।।
धर्ममाराधयामास यज्ञैर्नानाविधैः स्तवैः ।।
प्रसन्नो धर्मराजश्च मकरन्दमुवाच ह ।। ३२ ।।
अभिनंदनभूपस्य सुता चित्रप्रपूजिनी ।।
नाट्यात्मजा केसरिणी तत्सखी दंभकोविदा ।। ३३ ।।
केसरिण्या गुरुर्ज्ञेयः कुतुको योगुरूपधृक् ।।
तेन प्रसारिता माया शतयोजनमन्तरा ।। ३४ ।।
शत्रुभिर्दुर्गमा भूमिः शत्रुपाषाणकारिणी ।।
चित्रगुप्तप्रभावेण निर्भयो भूपतिः स्वयम् ।। ३५ ।।
चित्ररेखाभूपसुता जयंतस्तु तया हृतः ।।
नररूपधरो रात्रौ शुकरूपधरो दिने ।।
इन्दुलश्च स्थितो दुःखी चित्रमायाविमोहितः ।। ३६ ।।
कृष्णांशश्च भवान्देवः सहितः सूर्यवर्मणा ।।
मया दत्तानि यंत्राणि गृहीत्वा ते मुदा युताः ।।
चित्ररेखां समागत्य नृत्यादींस्तैः समं कुरु ।। ३७ ।।
मोहयित्वा च तां देवीं पठित्वा तन्मतं शुभम् ।।
पुनरागच्छ वै शीघ्रं सैन्ययोगं पुनः कुरु ।। ।। ३८ ।।
इत्युक्त्वान्तर्दधे देवस्स राजा विस्मयान्वितः ।।
कृष्णांशं वर्णयामास यथा धर्मेण भाषितम् ।। ३९ ।।
फाल्गुने मासि संप्राप्ते त्रयस्ते योगिरूपिणः ।।
ययुरिन्नगटं रम्यं नृत्यगीतविशारदाः ।। 3.3.23.४० ।।
मृदंगांकस्तदा देवो मकरंदो विपंचिमान्।।
नृत्यगानकरो वीरः कृष्णांशः सर्व मोहनः ।। ४१ ।।
मोहयित्वा च नगरं तथा गजपतिं नृपम् ।।
सकुलं च ससैन्यं च तुष्टो राजाब्रवीदिदिदम् ।। ४२ ।।
वांछितं ब्रूहि मे योगिन्स श्रुत्वा प्राह नम्रधीः ।।
देहि मे सूर्यवर्माणं स्वसुतं कार्यहेतवे ।।४३।।
कृत्वा कार्यमहं शीघ्रं पुनर्दास्यमि ते सुतम्।।
विधिना निर्मितो धर्मो राजभिर्विश्वरक्षणम् ।।४४।।
इति श्रुत्वा गजपतिर्दत्त्वा तेभ्यः स्वकं सुतम् ।।
स्वराज्ञीमाययौ राजा गतास्ते कार्यतत्पराः ।।४५।।
पक्षमात्रेण बाह्लीकं नगरं प्रययुर्मुदा ।।
धर्मदत्तानि यंत्राणि गृहीत्वा शत्रुमंदिरम् ।। ४६ ।।
आययुर्लास्यतत्त्वज्ञा नृपमोहनतत्पराः ।।
सर्वे च नागराः प्राप्तास्तत्र क्षत्रगणा मुदा ।।४७।।
मोहितास्तैश्च ते सर्वे गीतनृत्यविशारदैः ।।
महद्धनं ददौ तेभ्यस्तोमरान्वयसंभवाः ।।४८।।
तानादाय पुनर्भूपः स्वगेहमभिनंदनः ।।
आययौ गेहनृत्यार्थी कारयामास वै पुनः ।।४९।।
मकरंदस्तदा वीणां मृदंगं भीष्मजो बली।।
मंजीरं सूर्यवर्मा च कृष्णांशो गाननृत्यकम् ।।3.3.23.५०।।
गृहीत्वा मोदयामासुर्नारीवृन्दा महोत्तमम् ।।
चित्ररेखा स्वयं दृष्ट्वा तेषां मोहनहेतवे ।। ५१ ।।
मायां निर्वापयामास निष्फला साऽभवत्क्षणात् ।।
मोहिता तैश्च सा देवी तानुवाच मुदान्विता ।। ५२ ।।
वांछितं ब्रूहि मे वीर कृष्णांशश्चाह तां वधूम्।।
शुकं देहि च मे देहि नो चेच्छापं ददाम्यऽहम् ।। ५३ ।।
इति श्रुत्वा चित्ररेखा शोकव्याकुलचेतना ।।
कृष्णांशं योगिनं प्राह सत्यं कथय को भवान् ।। ५४ ।।
इंद्राद्या देवतास्सर्वे मया निर्मितया यया ।।
मोहिताः क्षणमात्रेण न भवान्मोहितो मया ।।५५।।
देवो नारायणो वापि धर्मो वापि शिवः स्वयम् ।।
इत्युक्तस्स तु कृष्णांशो वचनं प्राह निर्भयः ।।५६।।
उदयो नाम मे राज्ञि देवसिंहोऽयमुत्तमः ।।
मच्छ्यालो मकरंदोऽयं सूर्यवर्मा तथाविधः ।। ५७ ।।
इन्दुलस्य वियोगेन वयं योगित्वमागताः ।।
मद्गुरुश्च तथोन्मादी संकुलस्तद्वियोगतः ।। ५८ ।।
शुकं देहि महामाये इंदुलं देहि वा यदि ।।
इत्युक्त्वाशु रुरोदोच्चैर्हा इन्दुल महाबल ।। ५९ ।।
दर्शनं देहि मे शीघ्रं नो चेत्प्राणांस्त्यजाम्यहम् ।।
इत्येवंवादिनं वीरं चित्ररेखा महोत्तमा ।। 3.3.23.६० ।।
कृत्वा लज्जां पुनः प्राह मां च पुत्रं गृहाण भोः ।।
कृत्वा नरमयं रूपं स्वकान्तं सर्वसुंदरम् ।। ६१ ।।
पतित्वा तच्चरणयो रुरोदोच्चैश्च दंपती ।।
तथाविधौ च तौ दृष्ट्वा कृष्णांशो हर्षसंयुतः ।। ६२ ।।
इंदुलेनैव लिखितं गृहीत्वा पत्रमुत्तमम्।।
धर्मयंत्रप्रभावेण मयूरनगरं ययौ ।। ६३ ।।
सूर्यवर्मा गतो गेहं मकरंदेन मानितः ।।
देवसिंहस्तु बलवान्गृहीत्वा पत्रमुत्तमम् ।।६४।।
ययौ मनोरथारूढो यत्राह्लादः शुचान्वितः ।।
को भवानिति तं प्राह महोन्मादीव दृश्यते ।। ६५ ।।
देवसिंहं च मां विद्धि तव पुत्रान्वेषणे रतम् ।।
पत्रं गृहाण भो वीर लिखितं तत्सुतेन वै ।। ६६ ।।
इति श्रुत्वा स आह्लादश्चा ह्लादं परमाप्तवान् ।।
ज्ञात्वा तत्कारणं सर्वं यथाविधि सुतो हृतः ।।६७।।
महीपतिं समाहूय वचनं प्राह नम्रधीः।।
सत्यं कथय मे भूप कृष्णांशेन हतस्सुतः ।। ६८ ।।
स होवाच श्रुतं वीर कृष्णांशेन यथा हतः ।।
इत्युक्त्वा तु विहस्याशु कार्यसिद्धिमुपागतः ।। ६९ ।।
अह्लादः क्रोधताम्राक्षः केशाना कृष्य तं मुदा ।।
वेतसैस्ताडयामास स्वहस्तेन पुनः पुनः ।। 3.3.23.७० ।।
श्रुत्वा परिमलो राजा सपत्नीकस्समागतः ।।
बहुधा मोदयामास रामांशं बहुरूपिणम् ।। ७१ ।।
अरे धूर्त महापापिन्मद्बंधुर्घातितस्त्वया ।।
गतो यत्र मम प्राणस्सकुलं त्वां नयाम्यहम् ।। ७२ ।।
तदा महीपतिर्दुःखी निःश्वासो मौनमास्थितः ।।
तदघं हृदि संस्थाप्य महापीडामवाप्तवान् ।। ७३ ।।
एतस्मिन्नंतरे वीरो बलखानिः समागतः ।।
विमुच्य मातुलं धूर्तं ज्येष्ठबन्धुमसान्त्वयत् ।। ७४ ।।
स चकार विवाहार्थमुद्योगं भ्रातृजस्य वै ।।
नेत्रसिंहो नृपः प्राप्तो लक्षसैन्यसमन्वितः ।। ७५ ।।
तारकश्च तमायातस्सार्द्धं शूरसहस्रकैः ।।
वीरसेनः स्वयं प्राप्तः शूरैः सार्द्धं नवाऽयुतैः ।। ७६ ।।
तालनश्च ततः प्राप्तो लक्षसैन्यसम न्वितः ।।
सूर्यवर्मा तथा प्राप्तो लक्षसैन्यसमन्वितः ।। ७७ ।।
ब्रह्मानंदः स्वयं प्राप्तस्त्रिलक्षबलसंयुतः ।।
आह्लादश्च शुचाविष्टो लक्षसैन्य समन्वितः ।। ७८ ।।
हा बंधो क्व गतस्त्वं वै मां त्यक्त्वा पुरुषाधमम् ।।
इत्युक्त्वा प्रययौ वीरः शोकव्याकुलचेतनः ।। ७९ ।।
बलखानिस्तु बलवाँल्लक्षसैन्यसमन्वितः ।।
देवसिंहेन सहितो बाह्लीकं प्रति सोगमत् ।। 3.3.23.८० ।।
अहोरात्रप्रमाणेन मासैकः पथि वै गतः ।।
ज्येष्ठकृष्णस्य पंचम्यां वाह्लीकग्राममाप्तवान् ।।
व्यूहः स्वकीयसैन्यानां रचितो बलखानिना ।। ८१ ।।
एको रथः स्थितो युद्धे तत्पश्चात्संस्थिता गजाः ।।
पञ्चाशच्च क्रमात्तेषां वाजिनश्च शतंशतम् ।। ८२ ।।
तेषां पश्चात्क्रमाज्ज्ञेया पत्तयो दश संस्थिताः ।।
एका सेना च सा ज्ञेया तत्प्रमाणं ब्रवीम्यहम् ।। ८३ ।।
एको रथो गजास्सर्वे शतार्द्धं तु हयास्तु ये ।।
सेनायां पञ्चसाहस्राः शतघ्न्यस्तु तथा स्मृताः।। ८४ ।।
पञ्चायुतानि सेनायां सर्वे पदचराः स्मृताः ।।
एवंविधाश्च ताः सेना बलखानेश्च षोडश ।। ८५ ।।
गजास्तु दशसाहस्रा मदमत्ताः पृथग्ययुः ।।
युद्धे ऽस्मिन्गणितं ह्येवं शूराः शत्रुप्रहारिणः ।। ८६ ।।
अभिनन्दनभूपस्य म्लेच्छाः पैशाचधर्मिणः ।।
त्रिलक्षाश्च हयारूढा एकलक्षाः शतप्रिपाः? ।। ।। ८७ ।।
एकलक्षः पदचरा भुशुण्डीपरिघायुधाः ।।
तोमरान्वयसंयुक्ताः क्षत्रियाः प्रयुतानि वै ।।
गजस्थास्तत्र संप्राप्ता यत्राह्लादमहा चमूः ।। ८८ ।।
तयोश्चासीन्महद्युद्धं तुमुलं रोमहर्षणम् ।।
मदमत्ताश्च ते सर्वे निर्भया रणमाययुः ।। ८९ ।।
सप्ताहोरात्रमभवद्युद्धं समरशालि नाम् ।।
बाह्लीकस्यार्द्धसेना च क्षयं नीता च तैर्नृपैः ।। 3.3.23.९० ।।
एकलक्षं हताः सर्वे बलखानेश्च सैन्यपैः ।।
हाहाभूते शत्रुसैन्ये भयभीते दिशो गते ।।
हर्षिता बलखान्याद्या जय दुर्गे वचोऽब्रुवन्।।९१।।
दृष्ट्वा सैन्यविनाशं च राज्ञः सप्तकुमारकाः ।।
कौरवांशाश्च ते जग्मुर्यत्र जातो महारथाः।।९२।।
महानन्दश्च नन्दश्च परानन्दोपनन्दकौ ।।
सुनन्दश्च सुरानन्दः प्रनन्दः क्रमतोभवाः ।। ९३ ।।
गजस्थास्ते महावीरास्तोमरान्वयसंभवाः ।।
सेनां जघ्नुः शरैस्तीक्ष्णैर्बलखानेर्महात्मनः ।। ९४ ।।
भयभीताश्च ते सर्वे बलखानिमुपाययु ।।
दृष्ट्वा सैन्यं पराभूतं बलखानिस्तदा रुषा ।। ९५ ।।
अभ्यधावत वेगेन कपोतस्थो महाबलः ।।
नंदं प्रति तथा देवः परानंदं च तालनः ।। ९६ ।।
उपनन्दं सूर्यवर्मा सुनन्दं प्रति तारकः ।।
नेत्रसिंहः सुरानन्दं प्रनन्दं प्रति यादवः ।। ९७ ।।
युध्यमानास्तु ते सर्वे परस्परं वधैषिणः ।।
दिनार्द्धमभवद्युद्धं बहुवीरप्रणाशनम् ।। ९८ ।।
पराजितास्तु ते पुत्रा बाह्लीकस्य महाबलाः ।।
त्यक्त्वा युद्धं ययुर्गेहं भीरुका बलखानिना ।। ९९ ।।
दृष्ट्वा तेषां बलं घोरमभिनन्दनभूमिपः ।।
कुतुकं च समाहूय नाट्यां केसीरणीं तथा ।।
कथितं कारणं राज्ञा यथा जातः पराजयः ।। 3.3.23.१०० ।।
इति श्रुत्वा तु कुतुकस्तमाश्वास्य महीपतिम् ।।
स ध्यात्वा शांबरीं मायां महादेवेन निर्मिताम् ।।
तत्सैन्यं मोहयामास शिलाभूतमचेतनम् ।। १०१ ।।
तदा केसरिणी नाट्या अष्टौ बद्ध्वा महाबलान्।।
राज्ञः पार्श्वमुपागम्य दत्त्वा तान्गेहमाययौ ।।१०२।।
बाह्लीकश्च प्रसन्नात्मा बद्ध्वा तान्निगडैर्दृढैः ।।
लुंठित्वा द्रविणं तेषां कोशमध्ये समाक्षिपत् ।। १०३ ।।
देव्याश्च वरदानेन देवसिंहो भयातुरः ।।
महावतीं समागम्य स्वर्णवत्यै न्यवेदयत् ।। १०४ ।।
ज्ञात्वा स्वर्णवती देवी सर्वविद्याविशारदा ।।
श्येनीं मूर्तिं समास्थाय ययौ पुष्पवतीं प्रति ।। १०५ ।।
दृष्ट्वा तु दंपती तत्र मकरंदं गृहे स्थितौ ।।
रुदित्वा कथयामास यथा प्राप्तः पराजयः ।। ।। १०६ ।।
कृष्णांशस्तु तदा दुःखी मकरन्दं वचोऽब्रवीत् ।।
गच्छ वीर मया सार्द्धं मद्गुरुर्बंधनं गतः ।। १०७ ।।
कुलक्षये महत्पापं सुप्रोक्तं पूर्व सूरिभिः ।।
निमग्नान्दुःखजलधौ समुद्धर मम प्रिय ।। १०८ ।।
इति श्रुत्वा तु तच्छयालः शूरायुतसमन्वितः ।।
संन्यस्तवेषमास्थाय खड्गचर्मसमन्वितः ।।
कृष्णांशेन हयारूढो बाह्लीकं त्वरितो ययौ ।। १०९ ।।
तदा स्वर्णवती देवी पुष्पवत्या समन्विता ।।
श्येनीरूपमुपास्थाय ययौ यत्र महारणः ।। 3.3.23.११० ।।
स छित्त्वा शांबरीं मायां बोधयित्वा स्वसैनिकान् ।।
रुरोध नगरीं तस्य बाह्लीकस्य महात्मनः ।। १११ ।।
दृष्ट्वा ताञ्छत्रुसंयुक्तान्कुतुकस्तु तया सह ।।
पुनश्च शांबरीं मायां प्रेषयामास तान्प्रति ।। ११२ ।।
छित्त्वा सा सकलां मायां बद्ध्वा तौ दैत्यसन्निभौ ।।
नगरं दाहयामास तस्य भूपस्य मायया ।। ११३ ।।
न दाहो दाहमापन्नो न भस्मी भस्मवान्खलु ।।
स्वर्णवत्या कृतं चित्रं स्वयं देव्या च मायया ।। ।। ११४ ।।
तदा पुष्पवती देवी हत्वा केसरिणी रुषा ।।
तन्मांसैस्तर्पयामास गृध्रगोमायुवायसान् ।। ११५ ।।
कुतुकं च तथाभूतं हत्वा स्वर्णवती स्वयम् ।।
कारागारे लोहमये स्थितान्वीरानमोचयत् ।। ११६ ।।
पुनरागम्य सा देवी तया सार्द्धं शुभानना ।।
मकरन्दः स्थितो यत्र कृष्णांशेन समन्वितः ।। ११७ ।।
ते सर्वे विस्मिताश्चासञ्ज्ञात्वा देव्या विमोहिताः ।।
क्रोधवन्तो महावीरा युद्धाय समुपाययुः ।। ११८ ।।
पुनश्चासीत्तयोर्युद्धं सेनयोरुभयोर्मृधे ।।
बलखानिं महानन्दो नन्दश्चाह्लादमाययौ ।। ११९ ।।
परानंदस्तथा देवं तारकं चोपनंदनः ।।
सुनन्दो नेत्र सिंहं च सुरानंदश्च तालनम् ।। 3.3.23.१२० ।।
प्रनन्दो वीरसेनं च ब्रह्मानन्दं स भूपतिः ।।
गजस्थिताश्च ते सर्वे धनुर्युद्धपरायणाः ।।
अहोरात्रमभूद्युद्धं तेषां च तुमुलं क्रमात् ।। १२१ ।।
एतस्मिन्नन्तरे रात्रौ चित्ररेखा समागता ।।
स्वकीयान्व्याकुलीभूतांस्तादृशांश्च विलोक्य वै ।। १२२ ।।
चित्रगुप्तं तदा ध्यात्वा चित्रमायामचीकरत् ।।
तदा तद्बांधवाश्चासन्बहुधा चाभिनंदनाः ।। १२३ ।।
तान् दृष्ट्वा विस्मिताः सर्वे भयभीताश्च दुद्रुवुः ।।
त्यक्त्वा युद्धमयीं भूमिं शोकव्याकुलचेतना ।। १२४ ।।
पंचयोजनमागत्य ततो वासमकारयन् ।।
संध्याकाले तमोभूते निरुत्साहा महाबलाः ।। १२५।।
हा कृष्णांश महाबाहो शरणागतवत्सल ।।
इन्दुलस्ते कुमारोऽयं संहृतश्चित्ररेखया ।। १२६ ।।
तया विमोहिता वीरा वयं ते शरणं गताः ।।
इत्युक्त्वा रोदनं चक्रुः क्व गतोऽसि महामते ।।१२७।।
तदा कोलाहलश्चासीद्रुदतां बलशालिनाम् ।।
आह्लादं गर्हयित्वा ते मूर्छिता भुवि विह्वलाः ।। १२८ ।।
आह्लादस्तुऽतथा श्रुत्वा वज्रपाताहतः स्वयम् ।।
उन्मादिवत्तदा भूत्वा ताडयामास वक्षसि ।। १२९ ।।
एतस्मिन्नंतरे योगी कृष्णांशो भगवत्कला ।।
चंद्रोदये स्वयं प्राप्तश्चाष्टम्यां भृगुवासरे ।। 3.3.23.१३० ।।
शूरश्च दशसाहस्रैर्मकरंदेन संयुतः ।।
तत्सेनां बोधयामास पालितां बलखा निना ।। १३१ ।।
जित्वा तान्सर्वभूपालान्गृहीत्वा विपुलं धनम् ।।
पञ्चशब्दस्थितं बंधुं प्रत्यागत्य जगर्ज वै ।। १३२ ।।
तस्य शब्देन शेषांशो बोधितो बलशालिना ।।
शकुनं शुभमालोक्य भुजावुत्थाप्य वीर्यवान् ।।
स्वांके निवेशयामास कृष्णांशं योगिरूपिणम् ।। १३३ ।।
स्नापयित्वा श्रुधाराभिः कृष्णांशं प्रेमविह्वलः ।।
दत्त्वा द्विजातिमुख्येभ्यो वर्णयामास कारणम् ।। १३४ ।।
कृष्णांशोऽपि प्रसन्नात्मा स्वकीयां सकलां कथाम्।।
वर्णयित्वा यथाभूतां पुनर्बाह्लीकमाययौ ।।१३५।।
चित्रविद्यां स्वयं कृत्वा पाठितां चित्ररेखया ।।
बद्ध्वाभिनंदनं भूपं ससुतं च समंत्रिणम् ।।
विवाहं कारयामास जयंतस्य तया सह ।। १३६ ।।
बाह्लीकस्तु प्रसन्नात्मा दत्त्वा च विपुलं धनम् ।।
स्वसुतां चित्ररेखां च जयन्ताय मुदा ददौ ।।१३७।।
शतं गजान्हयांस्तत्र सहस्राणि धनैर्युतान् ।।
शतं दासांस्तथा दासीर्जयंताय स्वय ददौ ।। १३८ ।।
प्रस्थानं कारयामास बलखानेर्महात्मनः ।।
श्रावणे मासि संप्राप्तास्ते सर्वे च महावतीम् ।। १३९ ।।
स्वंस्वं गेहं ययुस्सर्वे भूपाश्चाह्लादमानिताः ।।
इति ते कथितं विप्र चरित्रं कलिनाश नम्।।
शृण्वतां सर्वपापघ्नं कथयिष्यामि वै पुनः ।। 3.3.23.१४० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहा ससमुच्चये त्रयोविंशोऽध्यायः ।। २३ ।।