भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २२
सूत उवाच ।।
महावत्यां तु संप्राप्ते कृष्णांशे बलवत्तरे ।।
मंगलं कृतवान्राजा तदा परिमलो बली ।। १ ।।
पुष्पवत्या तया सार्द्धं गीतनृत्यविशारदः ।।
कृष्णांशः प्रत्यहं गेहे मुमोह सखिभिः सह ।। २ ।।
हेमंतशिशिरे वीरो रहः क्रीडां करोति वै ।।
यथा शक्रोऽप्सरोभिश्च तथैव ह्युदयो बली ।। ३ ।।
ग्राम्यधर्मं न कृतवान्सर्वस्पर्शविशारदः ।।
एकदा नृत्यक्रीडायां देवी पुष्पवती स्वयम् ।। ४ ।।
कृष्णांशं वचनं प्राह पूर्वजन्मनि को भवान् ।।
इति श्रुत्वोदयो वीरो विहस्योवाच वै वचः ।। ५ ।।
नृपोहं चंद्रदासश्च पूर्वजन्मनि हे प्रिये ।।
बाल्यात्प्रभृति मे दुःखं प्राप्तं दैवविनिर्मितम्।।६।।
शालग्रामशिलापूजा प्रत्यहं वै मया कृता ।।
तेन पुण्यप्रभावेन सार्वभौमो बभूव ह ।।७।।
मृतेऽहनि तु संप्राप्ते शालग्रामे मनो दधौ ।।
सायुज्यं मे हरेश्चासीत्स्वयं ब्रह्मप्रसादतः।।८।।
कलिना प्रार्थितो विष्णुः कालात्मा परमेश्वरः ।।
स्वदेहान्मां तु निष्कास्य भूमौ जनिमचीकरत् ।।९।।
यदा यदा हि धर्मस्य ग्लानिर्भवति वै प्रिये।।
युगधर्मस्य मर्यादास्थापनाय भवाम्यहम्।।3.3.22.१ ०।।
सत्ये तु मानसी पूजा देवानां तृप्तिहेतवे ।।
त्रेतायां वह्निपूजा च यज्ञदानादिका क्रिया ।।११।।
द्वापरे मूर्तिपूजा च देवानां वै प्रियंकरी ।।
कलौ तु दारुणे प्राप्ते ब्रह्मपूजनमुत्तमम्।।१२।।
अहं हंसः सत्ययुगे त्रेतायां यज्ञपूरुषः ।।
हिरण्यगर्भश्च प्रिये द्वापरेऽहं सुखप्रदः ।।
शालग्रामः कलौ प्राप्ते देवानां तृप्तये ह्यहम् ।। १३ ।।
मुनयो देवतास्सर्वास्तथा पितृगणाः प्रिये ।।
सर्वे ते तृप्तिमायांति शालग्रामस्य पूजनात् ।। १४ ।।
द्विजातिभिस्त्रिवर्णैश्च पूजनं चंदनादिकैः ।।
शूद्रैश्च स्नानमात्रेण भक्ति भावेन पूजनम् ।।१५।।
म्लेच्छैश्च दर्शनं पुण्यं विनयाद्भक्तिभावतः ।।
शालग्रामः स्वयं ब्रह्म सच्चिदानंदविग्रहः ।।
तस्य दर्शनमात्रेण क्षयं यास्यंति वै मलाः ।।१६।।
इति ते कथितं देवि युगमर्यादमुत्तमम् ।।
पुरा त्वं कस्य तनया सत्यं कथय मेऽचिरम्।।१७।।
पुष्पवत्युवाच।।
पूर्वजन्मनि वेश्याहं चंद्रकांतिरिति श्रुता ।।
गाननृत्यादिकं वाद्यं देवस्याग्रे मया कृतम् ।। १८ ।।
तेन पुण्यप्रभावेण स्वर्गलोकमुपागता ।।
देवैश्च प्रार्थिता तत्र रूप यौवनशालिनी ।। १९ ।।
ब्रह्मचर्यं न तत्याज स्वर्गलोकेऽपि वै ह्यहम् ।।
तेन पुण्यप्रभावेण चोषा बाणसुताऽभवम् ।।
अनिरुद्धः स्वयं ब्रह्म मम पाणिं गृहीतवान् ।। 3.3.22.२० ।।
कलिना प्रार्थितो देवो मम स्वामी स्वहेतवे ।।
अर्चावतारमासाद्य मार्कंडेयस्थलं गतः ।। २१ ।।
स्वप्रसादस्य महिमा दर्शितस्तेन तत्र वै ।।
अत्रैव स्थितिमर्यादो दारुरूपस्य मे पतेः ।। २२ ।।
अहं तस्याज्ञया स्वामिञ्जम्बुकस्य सुताभवम् ।।
दिव्यरूपसमायुक्ता नाम्नाहं विजयैषिणी ।। २३ ।।
कृतं ममैव मरणं त्वद्भ्रात्रा बलखानिना ।।
मकरंदस्य भगिनी भूत्वा त्वां पतिमागता ।।२४।।
तेन दोषेण त्वद्भ्राता यातनां तीव्रमागतः ।।
राज्ञ इन्नगठस्यैव गेहे गजपतेः स्वयम् ।।
इत्युक्त्वा मौनमास्थाय रेमे पत्या समं मुदा ।। २५ ।।
होलिकासमये प्राप्ते मलना स्नेहदुःखिता ।।
सुतां चंद्रावलीं रम्यां स्वप्नांते सा ददर्श ह ।।
रुरोद निशि दुःखेन स्वसुतास्नेहकातरा ।। २६ ।।
तदोदयो महावीरो ज्ञात्वा रोदन कारणम् ।।
शूरैश्च दशसाहस्रैस्सार्द्धं बहुधनैर्युतः ।।
एकाकी प्रययौ वीरो यत्र चंद्रावलीगृहम् ।। २७ ।।
महीपतिस्तु तच्छत्रुर्ज्ञात्वा कारणमुत्तमम् ।।
पश्चाज्जगाम कार्यार्थी स तु दुर्योधनांशकः ।।
बलीठाठमिति ख्यातं ग्रामं यादवपालितम् ।। २८ ।।
वीरसेनो नृपस्तत्र त्रिलक्षबलसंयुतः ।।
अष्टौ सुताश्च तस्यासन्रूपयौवनशालिनः ।। २९ ।।
कामसेनः प्रसेनश्च महासेनस्तथैव च ।।
सुखसेनो रूपसेनो विष्वक्सेनो मधुव्रतः ।।
मधुपश्च क्रमाज्जाता यादवांशाश्च यादवाः ।। 3.3.22.३० ।।
तत्र गत्वा च कृष्णांशस्सभायां नरकेसरी ।।
दंडवत्प्रणतो भूत्वा वीरसेनं महीपतिम् ।। ३१ ।।
मलनालिखितं पत्रं दत्त्वा राज्ञे महामनाः ।।
दशभारं सुवर्णस्य पुनर्वासमचीकरत् ।। ३२ ।।
व्यंजनानि विचित्राणि भुक्त्वा यादवसंयुतः ।।
चंद्रावलीं समागत्य कुशलं च न्यवेदयत् ।। ३३ ।।
प्रेमोत्सुका च भगिनी कृष्णांशं प्राह दुःखिता।।
भवान्द्व्यब्दवया वीर तदाहं च विवाहिता ।।३४।।
विंशदब्दस्ततो जातो विस्मृता पितृमातृभिः ।।
समर्थेन त्वया वीर संस्मृता भगिनी स्वयम् ।। ३५ ।।
अद्य मे सफलं जन्म जीवितं सफलं च मे ।।
बंधुदर्शनमात्रेण सर्वं च सफलं मम ।। ३६ ।।
प्रसन्नात्मोदयस्तत्र भगिनीं प्राह नम्रधीः ।।
जम्बुकेन गृहं सर्वं लुण्ठितं बलशालिना ।। ३७ ।। ।
तस्य दुःखेन भूपालो भयभीतो दिनेदिने ।।
महाकष्टेन विजयो जम्बुकाच्चाभयोऽभवत् ।। ३८ ।।
महीराजस्तु बलवान्रुरोध नगरीं मम ।।
मया विवाहितो भ्राता ब्रह्मा तत्सुतया सह ।। ३९ ।।
पुनश्च सिंहलद्वीपे जयंतार्थे वयं गताः ।।
एवंविधानि दुःखानि बहूनि ह्यभवन्पितुः ।। 3.3.22.४० ।।
अतस्त्वां प्रति सुप्रीता वयं भगिनिकिंकराः ।।
मृदुवाक्यमिति श्रुत्वा तदा चंद्रावली मुदा ।। ४१ ।।
गेहं निवासयामास स्वकीयं प्रेमविह्वला ।।
एतस्मिन्नन्तरे धूर्तो महीपतिरुपाययौ ।। ४२ ।।
सभायां वीरसेनस्य राज्ञा तेनैव सत्कृतः ।।
वार्तांतरं समासाद्य तमुवाच महीपतिः ।। ४३ ।।
निष्कासिताश्च ते सर्वे राज्ञाह्लादादयः खलाः ।
चौरितो नृपतेः कोशो हीनजात्यैर्महाबलैः ।।४४।।
तदा तु कुंठिताः सर्वे शिरीषाख्यपुरेऽवसन् ।।
छिद्रदर्शी तु कृष्णांशो गेहं तव समागतः ।। ४५ ।।
चंद्रावल्याश्च वै दोलां गृहीत्वा स गमिष्यति ।।
सत्यं ब्रवीमि भूपाल नान्यथा वचनं मम ।। ।। ४६ ।।
इति श्रुत्वा वीरसेनो ज्ञात्वा तत्सत्यकारणम् ।।
कामसेनं समाहूय चंद्रावल्याः पतिं सुतम् ।।४७।।
वचनं प्राह भोः पुत्र बंधनं कुरु तस्य वै ।।
इति श्रुत्वा कामसेनो विषमादाय दारुणम् ।। ४८ ।।
भोजनाय ददौ तस्यै ज्ञात्वा चन्द्रावली तदा ।।
भ्रातुरंतिकमासाद्य पात्रमादाय सा ययौ ।। ४९ ।।
कामसेनश्च कुपितो गृहीत्वा दंडवेतसम् ।।
स्वप्रियां ताडयामास स दृष्ट्वा तं तदाकुपत् ।। 3.3.22.५० ।।
गृहीत्वा भुजयोस्तं वै बंधनाय समुद्यतः ।।
बंधनत्वं गते पुत्रे वीरसेनो महाबलः ।। ५१ ।।
पुत्रानाज्ञापयामास तस्य बंधनहेतवे ।।
एतस्मिन्नंतरे वीरो दोलामादाय सत्वरम् ।। ।। ५२ ।।
सेनामध्ये समागम्य महद्युदमचीकरत् ।।
एकतो दशसाहस्रास्त्रिलक्षास्तु तथैकतः ।।
अहोरात्रमभूद्युद्धं दारुणं रोमहर्षणम् ।।५३ ।।
हता लक्षं महाशूरा उदयेन महाबलाः ।।
शेषाः प्रदुद्रुवुस्सर्वे यादवा भयकातराः ।। ५४ ।।
दृष्ट्वा पराजितं सैन्यं सप्त पुत्रा महाबलाः ।।
स्वान्गजांश्च समारुह्य कृष्णांशं रुरुधू रुषा ।। ५५ ।।
स वीरो बिंदुलारूढो भूमौ कृत्वा गजासनान् ।।
तेषामस्त्राणि संच्छिद्य बध्नाति बलदर्पितः।।५६।।
इति श्रुत्वा वीरसेनः सूर्यभक्तिपरायणः ।।
सौरमस्त्रं समादाय तस्य सैन्यमदाहयत् ।।
तेनास्त्रेणैव कृष्णांशः सहयो मूर्च्छितो भुवि ।। ५७ ।।
वीरसेनस्तु तं बद्ध्वा मोचयित्वा सुतान्वधूम् ।।
स्वगेहमागतस्तृर्णं नानावाद्यान्यवादयत् ।। ५८ ।।
हतरोषास्तदा वीराः कृष्णांशस्य ययुर्दिशः ।।
हेतुं परिमलस्याग्रे सर्वमूचुस्तदादितः ।। ५९ ।।
महीपतिं महाधूर्तं मत्वा राजाब्रवीदिदम् ।।
गच्छ त्वं मलनापुत्र लक्षसैन्यसमन्वितः ।। 3.3.22.६० ।।
बद्ध्वा स्वभगिनीकांतं स्वबंधुं मोचयाशु वै ।।
इति श्रुत्वा च स सुतो लक्षसेनासमन्वितः ।।६१।।
शीघ्रं गत्वा च नगरीं रुरोध बलवान्रुषा ।।
युद्धी भूते बले तस्मिन्वीरसेनो नृपोत्तमः ।।
सौरमस्त्रमुपादाय दाहनार्थं समुद्यतः ।। ६२ ।।
सज्जीभूते तदस्त्रे तु ब्रह्मानंदो महाबलः ।।
ब्रह्मास्त्रेणैव स शरं वारयामास वै रुषा ।। ६३ ।।
दृष्ट्वा भयान्वितो भूपस्तमेव शरणं ययौ ।।
ब्रह्मानंदस्तु तं भूपं वचनं प्राह निर्भयः ।। ६४ ।।
धूर्तवाक्येन हे भूप मद्बंधुर्बाधितस्त्वया ।।
अवध्या च सदा नारी त्वत्सुतस्तामताडयत् ।।
अतस्त्वं भगिनीयुक्तं स्वसुतं देहि मे नृप ।। ६५।।
इति श्रुत्वा च नृपतिर्वचनं प्राह नम्रधीः ।।
मत्सुता च गृहे नास्ति कामसेनं गृहाण भोः ।। ६६ ।।
इत्युक्त्वा वीरसेनश्च सुतं चंद्रावलीं तथा ।।
दत्त्वा तस्मै प्रसन्नात्मा तत्प्रस्थानमकारयत् ।। ६७ ।।
ब्रह्मानन्दोऽपि बलवान्कृष्णांशेन समन्वितः ।।
सेनयाशीतिसाहस्र्या ययौ सार्द्धं महावतीम् ।। ६८ ।।
मलना स्वसुतं दृष्ट्वा प्रेमविह्वलकंपिता ।।
स्नापयित्वाश्रुधाराभिर्द्विजातिभ्यो ददौ धनम् ।। ६९ ।।
इति ते कथितं विप्र कृष्णांशचरितं शुभम् ।।
शृण्वतां कलिपापघ्नं कथयिष्यामि वै पुनः ।। 3.3.22.७० ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये द्वाविंशोऽध्यायः ।। २२ ।।