भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २०

विकिस्रोतः तः

।। ।। सूत उवाच ।। ।।
मुने पांचालदेशे तु राजासीद्बलवर्द्धनः ।।
तस्य पत्नी विशालाक्षी जलदेवीति विश्रुता ।। १ ।।
बिसेनवंशभूपालो वेदतत्त्वविशारदः ।।
सस्त्रीकः पूजयामास वरुणं यादसां पतिम् ।।२ ।।
तस्य पुत्रावुभौ जातौ क्षत्रधर्मपरायणौ ।।
लहरो ज्येष्ठतनयो मयूरध्वज एव हि ।। ३ ।।
द्वादशाब्दवया भूत्वा मयूरध्वज एव सः ।।
आज्ञया ज्येष्ठबंधोश्च स्कंददेवमतोषयत् ।। ४ ।।
यतेंद्रियस्तथा मौनी वानप्रस्थ परायणः ।।
पंचाब्दं तद्व्रती भूत्वा जपध्यानपरोभवत् ।। ५ ।।
तदा प्रसन्नो भगवान्सेनानीरग्निभूः स्वयम् ।।
स्वरूपं दर्शयामास सर्वाश्चर्यसमन्वि तम्।। ६ ।।
मयूरध्वज एवापि दृष्ट्वा सर्वमयं शिशुम् ।।
देवसेनासहायं च तुष्टाव श्लक्ष्णया गिरा ।। ७ ।।
मयूरध्वज उवाच ।।
जयति ते वपुर्दिव्यविग्रहं नयति सर्वदा देवतागणान् ।।
पिबति मात्रियं दुग्धमुत्तमं वधति सर्वदा दैत्यदानवान् ।। ८ ।।
नमस्ते देवसेनेश महिषासुरमर्दन ।।
षडानन महाबाहो तारकप्राणनाशक ।। ९ ।।
प्रसन्नो भव सर्वात्मन्गुहशक्तिधराव्यय ।।
किंकरं पाहि मां नित्यं शरणागतवत्सल ।। 3.3.20.१० ।।
इति श्रुत्वा स्तुतिं तस्य सेनानीस्तमुवाच वै ।।
किं तेऽभीष्टं नृपश्रेष्ठ मत्तः सर्वमवाप्स्यसि ।। ११ ।।
इत्युक्तस्तेन देवेन भूपतिः प्राह नम्रधीः ।।
बलं मे देहि भगवन्सहायं कुरु सर्वदा ।। १२ ।।
तथेत्युक्त्वा तु तं स्कंदस्तत्रैवान्तर्दधे पुनः ।।
स नृपस्तु प्रसन्नात्मा कारयामास वै पुरम् ।। १३ ।।
नाम्ना मयूरनगरं नरवृंदसमन्वितम् ।।
द्वियोजनायामयुतं स्कंददेवेन रक्षितम् ।। १४ ।।
लहरो नामा तद्बंधुर्द्विदशाब्दप्रयत्नतः ।।
वरुणं पूजयामास नदीनदसमन्वितम् ।। १५ ।।
तदा प्रसन्नो भगवान्वरुणो यादसां पतिः ।।
वरं ब्रूहीति वचनं प्रेम्णोवाच महीपतिम् ।। १६ ।।
इति श्रुत्वाऽमृतमयं वचनं लहरो नृपः ।।
तुष्टाव श्लक्ष्णया वाचा पाशिनं पयसां पतिम् ।। १७ ।।
।। लहर उवाच ।। ।।
यस्य चित्तं महज्ज्ञेयं तपो बलसमन्वितम् ।।
अतः प्रचेतास्ते नाम नमस्तुभ्यं प्रचेतसे ।। १८ ।।
रुणद्धि पयसां वेगं न केनाप्यवरोधितः ।।
अतस्त्वं वरुणो नाम नमस्ते वरुणाय वै ।। १९ ।।
दैत्यानां बंधनार्थाय देवानां जयहेतवे ।।
दिव्यः पाशस्त्वयानीतः पाशिने ते नमोनमः ।। 3.3.20.२० ।।
इति स्तुतस्तदा देवो राज्ञा तेनैव धीमता ।।
नगरीं कारयामास लाहरीमथ चोत्तमाम् ।।२१।।
त्रियोजनायामयुतां चतुर्वर्णसमन्विताम् ।।
स्वयं च ग्रामरक्षार्थे तत्रोवास जला धिपः।। २२ ।।
भूपस्तु तत्प्रसादेन प्राप राज्ञीं शुभाननाम् ।।
रावी नाम महाश्रेष्ठा ज्ञेया देवांगनोपमा ।। २३ ।।
तस्यां स जनयामास सुतान्षो डशसंमितान् ।। धार्तराष्ट्रांशजान्मुख्यान्गजतुल्यबलान्वितान् ।।२४।।
तत्पश्चात्कन्यका जाता नाम्ना मदनमंजरी ।।
द्वादशाब्दवयःप्राप्ते सुतायाः स तु भूपतिः ।। २५ ।।
देवसिंहं वरं मत्वा चंद्रवंशिनमुत्तमम् ।।
प्राहूय ज्येष्ठतनयं प्रेषयामास भूपतिः।।२६ ।।
रणधीरस्तु तनयो लक्षमुद्रान्वितो बली ।।
सहस्रशबरसहितः प्राप्तवान्स महावतीम् ।। २७ ।।
नत्वा परिमलं भूपं तदीयात्कुलशालिनः ।।
स्वहेतुं वर्णयामास विवाहार्थे स्वसुः स्वयम् ।।२८।।
श्रुत्वा परिमलो भूपो देवसिंहं महामतिम् ।।
आहूय वचनं प्राह विवाहार्थे मनः कुरु ।। ३९ ।।
देवसिंहस्तु बलवान्पितृव्यं प्राह नम्रधीः ।।
विवाहं न करिष्यामि ब्रह्मचर्यं व्रतं मम ।। 3.3.20.३० ।।
बहुधा प्रार्थितस्सर्वैर्द्विजवृंदसमन्वितैः ।।
न तत्याज व्रतं श्रेष्ठं देवसिंहो महामतिः ।। ।। ३१ ।।
तदा परिमलो भूपो रणधीरं वचोऽब्रवीत् ।।
सुखखानिरयं बालो विवाहार्थे वदाम्यहम्।। ३२ ।।
तथेति मत्वा स नृपो रणधीरो गृहं ययौ ।।
पितरं कथयामास सुखखानिर्महाव्रतः ।। ३३ ।।
एतस्मिन्नन्तरे धूर्तो महीपतिरुवाच तम् ।।
अयोग्योऽयं विवाहोऽत्र पावकीये कुलोत्तमे ।। ३४ ।।
शूद्रीयोऽत्र वरो राजन्वर्णसंकरकारकः ।।
तस्मात्त्वं सैन्यसहितो जेतुं तान्गंतुमर्हसि ।। ३५ ।।
कारागारे लोहमये बंधनं कुरु भूपतेः ।।
मत्कीर्तिः स्वर्गगा नित्यं जगत्यंते भविष्यति ।। ३६ ।।
जितस्तैर्जम्बुको राजा नेत्रसिंहस्तु यो नृपः ।।
तथा गजपतिर्भूपः पृथ्वीराजो महाबलः ।। ३७ ।।
आर्यसिंहस्तथान्ये च जितास्ते बलवत्तराः ।।
इति श्रुत्वा वचो रम्यं लहरो नृपसत्तमः ।। ३८ ।।
सेनां संस्थापयामास चतुरंगबलान्विताम् ।।
चतुर्लक्षमितां श्रेष्ठां पालितां षोडशात्मजैः ।। ३९ ।।
माघशुक्लदशम्यां च बलखानिं महाबलः ।।
संप्राप्तः स्वकुलैस्सार्द्धं चतुर्लक्षबलान्वितम् ।।3.3.20.४०।।
देशे पांचालके रम्ये लहरीनगरे स्थितः ।।
द्वादशाब्दे च कृष्णांशे तत्र वासमकारयत् ।। ४१ ।।
नृपतेराज्ञया शूरा युद्धाय समुपाययुः ।।
बलखानिस्तु धर्मात्मा दृष्ट्वा शूरांस्तथागतान्।।
वीरानाज्ञापयामास स्वकीयान्संगरे पुनः ।। ४२ ।।
तयोर्युद्धमभूद्घोरं सेनयोर्लोमहर्षणम् ।।
पंचमेऽह्नि दिवा प्राप्ते बलखानिर्महाबलः ।।
कृष्णांशेनैव सहितो रिपोर्वधमकारयत्।। ४३ ।।
पराजिताश्च ते शूरा हतशेषा भयातुराः ।।
तान्दृष्ट्वा षोडशसुता रथं स्वंस्वं समास्थिताः ।।
युद्धायाभिमुखं जग्मुर्धनुर्बाणविशारदाः ।। ४४ ।।
कृष्णांशस्तांस्तथा दृष्ट्वा शरवर्षसमन्वितान् ।।
एकाकी प्रययौ शीघ्रं खड्गचर्मधरो बली ।। ४५ ।।
तेषां धनूंषि संछिद्य बद्ध्वा तान्युद्धदुर्मदान्।।
आह्लादाय ददौ वीरः कृष्णांशो रणकोविदः ।। ४६ ।।
पुत्राणां बन्धनं श्रुत्वा लहरो नृपसत्तमः ।।
प्लावयामास तत्सैन्यं बलखानेर्महात्मनः ।। ४७ ।।
जलीभूते तथा सैन्ये जयन्तो बलवत्तरः ।।
वायव्यास्त्रेण समरे शुशोष सकलं जलम् ।।
लहरस्य ततः सेनामुवाह बहुयोजनम् ।। ४८ ।।
तदा तु भगवान्देवो वरुणो यादसां पतिः ।।
सुतामुद्वाहयामास लहरस्य महीपतेः ।। ४९ ।।
लहरोऽपि प्रसन्नात्मा ज्ञात्वांशं जगतीतले ।।
भक्तिं चकार शुद्धानामंशानां परया मुदा ।। 3.3.20.५० ।।
दत्त्वा च बहुधा द्रव्यं परिक्रम्य पुनःपुनः ।।
स्वान्ते निवेशयामास मासमात्रं प्रसन्नधीः ।। ५१ ।।
अंशास्तेऽपि महापूजां गृहीत्वा लहरप्रदाम् ।।
दोलामारोप्य तां देवीं स्वगेहाय ययुर्मुदा ।। ५२ ।।
इति ते कथितं विप्र कृष्णांशचरितं शुभम् ।।
सुखखानेर्विवाहं च श्रुत्वानंदमवाप्नुयात् ।।५३।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये विंशोऽध्यायः ।।२०।।