भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १९
।। सूत उवाच ।। ।।
दृष्ट्वा सैन्यनिपातं च बलखानिर्महाबलः ।।
संप्राप्य मानसीं पीडां युद्धार्थं विमुखोऽभवत् ।।१।।
देवसिंहं समाहूय त्रिकालज्ञं महामतिम् ।।
तं मंत्रं मंत्रयामास कार्यसिद्धिर्यथा भवेत् ।।
श्रुत्वोवाच महायोगी देवसिंहो महाबलः ।।२।।
महेंद्रतनयः कश्चित्सर्वशस्त्रास्त्रकोविदः ।।
त्वत्सैन्यं रोधयित्वा वै दिव्यास्त्रेण दिवामुखे ।।
रात्रौ स्वयं समागम्य करोति बलसंक्षयम् ।।३।।
अतस्त्वं मत्सहायेन तालनेन समन्वितः ।।
कृष्णांशेन समागम्य शक्र पुत्रं शुभाननम् ।।
विजयी भव शीघ्रं हि नो चेद्यायां यमक्षयम् ।।४।।
इति श्रुत्वा वचस्तस्य देवसिंहस्य भाषितम् ।।
यत्नं चकार बलवान्भ्रातृमित्रसमन्वितः ।।।।
एकविंशाब्दकृष्णांशे संप्राप्ते युद्धकोविदे ।।
सेनां निवेशयामास पोतेषु हयवाहनः ।।६।।
अर्द्धं सैन्यं च तत्रैव स्थापयित्वा महाबलः ।।
अर्द्धसैन्येन कृष्णांशो दक्षिणां दिशमागमत् ।। ७ ।।
हयारूढाश्च ते शूराः सर्वे युद्धसमन्विताः ।।
कपाटं दृढमुद्घाट्य नगरान्तमुपाययुः ।।८।।
हत्वा ते रक्षिणः सर्वाँल्लुंठयित्वा पुरं शुभम् ।।
रिपोर्दुर्गं समासाद्य चक्रुः शत्रोर्महाक्षयम् ।। ९ ।।
राज्ञोऽन्तः पुरमागत्य कृष्णांशो बलवत्तरः ।।
ददर्श सुन्दरीं बालां पद्मिनीं पद्मलोचनाम् ।।
सप्तालिभिर्वृतां रम्यां गीतनृत्यविशारदाम् ।। 3.3.19.१० ।।
बलाद्दोलां समारोप्य लुंठयित्वा रिपोर्गृहम्।।
जगाम शिविरे तस्मिन्यत्र जातो महारणः ।। ११ ।।
बलखानिस्तु बलवान्देवतालनसंयुतः ।।
जघान शात्रवीं सेनामिन्दुलास्त्रेण पालिताम् ।। १२ ।।
सुखवर्माणमागत्य सेनाध्यक्षं रिपोः सुतम् ।।
सर्वतस्तं स्वकीयास्त्रैर्जघ्नुस्ते मदविह्वलाः ।। १३ ।।
हते तस्मिन्महावीर्ये जयन्तः क्रोधमूर्च्छितः ।।
सेनामुज्जीवयांचक्रे शक्रपुत्रः प्रतापवान् ।। १४ ।।
श्यालं च सुखवर्माणं संजीव्य स्वगृहं ययौ ।।
तत्र दृष्ट्वा जनान्सर्वान्बहुरोदनतत्परान् ।। १५ ।।
विस्मितः स ययौ गेहं यथा पूर्वं तथाविधः ।।
न ददर्श प्रियां तत्र सखीभिः सहितां मुने ।। १६ ।।
आर्य्यसिंहगृहं गत्वा पृष्टवान्सर्वकारणम् ।।
ज्ञात्वा संलुठितं गेहं शत्रुभिः शस्त्रकोविदैः ।। १७ ।।
रुरोद सुभृशं वीरो हा प्रिये मदविह्वले ।।
दर्शयाद्य मुखं रम्यं त्वत्पतिस्त्वां समुत्सुकः ।।१८।।
इत्येवं रोदनं कृत्वा वडवोपरि संस्थितः ।।
धनुस्तूणीरमादाय खड्गं शत्रुविमोहनम् ।।
एकाकी स ययौ क्रुद्धो निशि यत्र स्थितो रिपुः ।। १९ ।।
एतस्मिन्समये वीरो बलखानिर्महाबलः ।।
दृष्ट्वा तां सुन्दरीं बालां विललाप भृशं मुहुः ।। 3.3.19.२० ।।
हा इन्दुल महावीर हा मद्बंधो प्रियंकर ।।
त्वद्योग्येयं शुभा नारी रूपयौवनशालिनी।।२१।।
दर्शनं देहि मे शीघ्रं गृहाणाद्य शुभाननाम् ।।
इत्युक्त्वा मूर्च्छितो भूत्वा मानसे पूजयञ्छिवाम् ।।२२।। ।
तस्मिन्काले च संप्राप्तः शक्रपुत्रो महाबलः।।
जघान शात्रवीं सेनां कृष्णांशेनैव पालिताम् ।। २३ ।।
दृष्ट्वा सैन्यनिपातं च तालनो वाहिनीपतिः।। ।
सिंहनादं ननादोच्चैः सिंहिन्युपरि संस्थितः ।। २४ ।।
न जयः सैन्यनाशेन तव वीर भविष्यति ।।
मां हत्वा जहि मत्सैन्यं योगिन्बालस्वरूपक ।। ।।।२५।।
इति श्रुत्वा वचस्तस्य शक्रपुत्रो भयंकरः ।।
जघान हृदये बाणान्स तु खड्गेन चाच्छिनत् ।।
स्वभल्लेन पुनर्वीरो दंशयामास वक्षसि ।।२६।।
इंदुले मूर्छिते तस्मिन्वडवा दिव्यरूपिणी ।।
आकाशोपरि संप्राप्य जयन्तं समबोधयत् ।।२७।।
तदा स बालस्त्वरितः कालास्त्रं चाप आदधे।।
तेन जातो महाञ्छब्दस्तालनः स ममार ह ।। २८ ।।
मृते सेनापतौ तस्मिन्कृष्णांशो मदविह्वलः ।।
नभोमार्गेण संप्राप्य जगर्ज्ज च मुहुर्मुहुः ।। २९ ।।
इन्दुलः क्रोधताम्राक्षस्त्वाग्नेयं शरमाददे ।।
वह्निभूतं नभस्तत्र स्वयोगेन महाबलः ।।
कृत्वा शीघ्रं ययौ शत्रुं स तु वायव्यमादधे ।। 3.3.19.३० ।।
स्वयोगेनैव कृष्णांशः पीत्वा वायव्यमुत्तमम् ।।
पुनर्जगाम तत्पार्श्वं कलैकः स हरेः स्वयम् ।।३१।।
तथाविधं रिपुं दृष्ट्वा शक्रपुत्रो महाबलः ।।
गंधर्वास्त्रं समादाय मोहनायोपचक्रमे ।। ३२ ।।
पुनर्योगबलेनैव तदस्त्रं संक्षयं गतम् ।।
वारुणं शरमादाय तस्योपरि समाक्षिपत् ।। ३३ ।।
स्वयोगेनैव कृष्णांशो जलं सर्वं मुखेऽकरोत् ।।
एवं सर्वाणि चास्त्राणि पीत्वा पीत्वा पुनःपुनुः ।।३४।।
ययौ शीघ्रं प्रसन्नात्मा बाहुशाली यतेन्द्रियः ।।
इंदुलस्तु तदा क्रुद्धोऽश्विनीं त्यक्त्वा भुवि स्थितः ।।
चर्म खड्गं गृहीत्वाशु खड्गयुद्धमचीकरत् ।।३५।।
एतस्मिन्नंतरे प्राप्ता देवाद्याः सर्वभूमिपाः ।।
ददृशुस्तन्महद्युद्धं सर्वविस्मयकारणम् ।। ३६ ।।
प्रातःकाले च संप्राप्ते बलखानिर्महाबलः ।।
ददर्श वालकं रम्यं जटाजिनसमन्वितम् ।। ३७ ।।
श्रमेण कर्शितो वीरः शक्रपुत्रः प्रतापवान् ।।
बलखानेः पितुर्बन्धोः शपथं कृतवान्स्वयम् ।। ३८ ।।
स्वखड्गेनैव कृष्णांश शिरस्तव हराम्यहम् ।।
नो चेन्मे दूषिता माता नाम्ना स्वर्णवती सती ।।
इत्युक्त्वा खड्गमादाय ययौ शीघ्रं रुषान्वितः ।। ३९ ।।
बलखानिस्तु तं ज्ञात्वा त्यक्त्वास्त्रं प्रेमकातरः ।।
पुत्रांतिकमुपागम्य वचनं चेदमब्रवीत् ।। 3.3.19.४० ।।
हे इन्दुल महाभाग पितृमातृयशस्कर ।।
आह्लादप्राणसदृश स्वर्णवत्यंगमानस ।। ४१ ।।
पूर्वं हत्वा च मां वीर स्वपितृव्यं ततः पुनः ।।
तथैवोदयसिंहं च देवसिंहं तथा कुलम् ।।
सुखी भव महावीर गेहे वै सुखवर्मणः ।। ४२ ।।
इति श्रुत्वा वचस्तस्य ज्ञात्वा च स्वकुलं शिशुः ।।
त्यक्त्वा खड्गं पतित्वा च स्वपितृव्यस्य पादयोः ।।
कृतवान्रोदनं गाढमपराधनिवृत्तये ।। ४३ ।।
उवाच मधुरं वाक्यं शृणु तात मम प्रिय ।।
नारीयं दूषिता वेदैर्नृणां मोहप्रदायिनी ।। ४४ ।।
देवो वा मानुषो वापि पन्नगो वापि दानवः ।।
आर्य्य नारीमयैर्जालैर्बन्धनाय समुद्यतः ।।४५।।
सोहमाजन्मशुद्धस्य पितुराह्लादकस्य च ।।
गेहे जातो जयन्तश्च शक्रपुत्रः स्वयं विभो ।। ४६ ।।
पद्मिन्या जनितं मोहं गृहीत्वा ज्ञातवान्न हि ।।
क्षमस्व मम मन्दस्य शेषमज्ञानजं पितुः ।। ४७ ।।
इत्युक्त्वा स पुनर्बालो रुरोद स्नेहकातरः ।।
सेनामुज्जीवयामास तालनं च महाबलम् ।।४८।।
इति श्रुत्वा वचस्तस्य कृष्णांशो वचनं शिशोः ।।
परमानन्दमागम्य हृदये तमरोपयत्।।
उत्सवं कारयामास तत्र देशे जनेजने ।।४९।।
आर्य्यसिंहस्तु तच्छ्रुत्वा नानाद्रव्यसमन्वितः ।।
ददौ कन्यां विधानेन पद्मिनीमिंदुलाय वै ।।3.3.19.५०।।
शतं हयांस्तथा नागान्मुक्तामणि विभूषितान् ।।
कन्यार्थे तान्ददौ राजा जामात्रे बहुभूषणम् ।।५१।।
प्रस्थानमकरोत्तेषां स प्रेम्णा वाक्यगद्गदः ।।
ते तु सर्वे मुदा युक्ताः स्वगेहं शीघ्र माययुः ।। ५२ ।।
उषित्वा मासमेकं तु तस्मिन्मार्गे भयानके ।।
कीर्तिसागरमासाद्य चक्रुस्ते बहुधोत्सवम्।।५३।।
आह्लादस्तु प्रसन्नात्मा सुतं पत्नीसमन्वितम् ।।
दृष्ट्वा विप्रान्समाहूय ददौ दानान्यनेकशः ।।५४ ।।
दशहाराख्यनगरं संप्राप्तः स्वकुलैस्सह ।।
कृष्णांशस्य महाकीर्तिर्जाता लोके जने जने ।।५९।।
पृथ्वीराजस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ।।
सा तु वै पद्मिनी नारी दुर्वासःशापमोहिता ।। ५६ ।।
अप्ससरस्त्वं स्वयं त्यक्त्वा भूमौ नारीत्वमागता ।।
द्वादशाब्दप्रमाणेन सोषित्वा जगतीतले ।।५७।।
यक्ष्मणा मरणं प्राप्य स्वर्गलोकमुपाययौ ।।
नव मासान्कृतो वासस्तया चाह्ला दमंदिरे ।।५८।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकोनविंशोऽध्यायः ।।१९।।