भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
विंशाब्दे चैव कृष्णांशे यथा जातं तथा शृणु ।।
सागराख्यसरस्तीरे कदाचिदिंदुलो बली ।।
जप्त्वा सप्तशतीस्तोत्रं तत्र ध्यानान्वितोऽभवत् ।।१।।
एतस्मिन्नंतरे हंसा आकाशाद्भू मिमागताः ।।
तेषां च रुतशब्दैश्च स ध्यानादुत्थितोऽभवत् ।। २ ।।
वक्ष्यमाणं वचः प्राहुर्धन्योऽयं दिव्यविग्रहः ।।
पर्वतानां हिमगिरिर्वनं वृंदावनं तथा ।। ३ ।।
महावती पुरीणां च सागरः सरसामपि ।।
नारीणां पद्मिनी नारी नृणां श्रेष्ठस्त्वमिंदुलः ।। ४ ।।
भो इन्दुल महाप्राज्ञ मानसे सरसि स्थिताः ।।
वयं श्रुत्वा श्रियो वाक्यं नलिनी सागरं गताः ।। ५ ।।
दृष्ट्वा तत्र शुभां नारीं सर्वाभरणभूषिताम् ।।
सप्तालिभिर्युतां रम्यां गीतनाट्य विशारदाम् ।। ६ ।।
दृष्ट्वा मोहत्वमापन्ना वयं देशान्तरं गताः ।।
विलोकिता नराः सर्वेऽत्रास्माभिर्जगतीतले ।।
त्वत्समो न हि कोऽप्यत्र पद्मिनी सदृशो वरः ।। ७ ।।
तस्मात्त्वं नः समारुह्य तां देवीं द्रष्टुमर्हसि ।।
तथेत्युक्त्वा शक्रसुतो हंसराजं समारुहत् ।। ८ ।।
सिंहलद्वीपके रम्ये ह्यार्यसिंहो नृपः स्थितः ।।
तत्सुता पद्मिनी नाम्ना रूपयौवनशालिनी ।।
रागिण्यः सप्त विख्यातास्तत्सख्यः प्रमदोत्तमाः ।। ९ ।।
नलिनीसागरे रम्ये गिरिजामंदिरं शुभम् ।।
तत्र स्थितां च तां देवीमिन्दुलः स ददर्श ह ।। 3.3.18.१० ।।
सापि तं सुन्दरं दृष्ट्वा हंसदेहे समास्थितम् ।।
संमोह्याहूय तं देवं तेन सार्द्धमरीरमत् ।।११।।
वर्षमेकं ययौ तत्र नानालीलासु मोहितः ।।
नक्तं दिवं न बुबुधे रममाणस्तया सह ।। १२।।
भक्तिगर्वत्वमापन्ने चाह्लादे जगदंबिका ।।
दृष्ट्वा चान्तर्दधे देवी गर्वाचरणकुंठिता ।। १३ ।।
तस्य प्राप्तं महद्दुःखमाह्लादस्य जयैषिणः ।।
स कैश्चित्पुरुषैर्वीरः कथितोऽभूत्स्व मंदिरे ।। १४ ।।
इन्दुलं रूपसम्पन्नं लंकापुरनिवासिनः ।।
राक्षसास्तं समाहृत्य स्वगेहं शीघ्रमाययुः ।। १५ ।।
इति श्रुत्वा वचो घोरं सकुलो विललाप ह ।।
हाहाशब्दो महांश्चासीत्तेषां तु रुदतां मुने ।। १६ ।।
कृष्णांशो रुदितं प्राहाह्लादं ज्येष्ठं शृणुष्व भोः ।।
जित्वाहं राक्षसान्सर्वांस्तालनाद्यैः समन्वितः ।।
इंदुलं त्वां समेष्यामि भवान्धैर्यपरो भवेत् ।।१७।।
बलखानिश्च कृष्णांशो देवसिंहश्च तालनः ।।
सप्तलक्षबलैः सार्द्धं लकां प्रति ययुर्मुदा ।। १८ ।।
मार्गप्राप्ताश्च ये भूपा ग्रामपा राष्ट्रपास्तथा ।।
यथायोग्य बलिं रम्यं प्राप्य तस्मै न्यवेदयन् ।।१९।।
ये भूपा मदमत्ताश्च जित्वा तांस्तालनो बली ।।
बद्ध्वा तैश्च समागच्छत्सेतुबंधं शिवस्थलम् ।।3.3.18.२०।।
पूजयित्वा च रामेशं रामेण स्थापितं शिवम् ।।
सिंहलद्वीपमगन्षण्मासाभ्यंतरे तदा ।।२१।।
नलिनीसागरं प्राप्य तत्र वासमकारयन् ।।
पत्रं संप्रेषयामास बलखानिर्नृपाय च ।।२२।।
आर्य्यसिंह महाभाग स्वपोतान्देहि तीर्णकान् ।।
भवाँश्च स्वबलैः सार्द्धं लंकां प्रति व्रजाधुना ।।
नो चेत्त्वां सबलं जित्वा राष्ट्रभंगं करोम्यहम् ।।२३।।
इति श्रुत्वा पत्रवचो भूपतिर्बलवत्तरः ।।
रक्षितः शक्रपुत्रेण युद्धाय समुपाययौ ।।२४।।
इन्दुलः स्तंभनं मंत्रं संस्थाप्य शर उत्तमे ।।
स्तंभयामास तत्सैन्यं तालनाद्यैः सुरक्षितम् ।। ।।२५।।
दिवसे सुखशर्मा च त्रिलक्षैः स्वदलैः सह ।।
आर्य्यसिंहस्य तनयो महद्युद्धमचीकरत् ।। २६ ।।
निशामुखे च संप्राप्ते शक्रपुत्रो महाबलः।
शतपुत्रैः क्षत्रियाणां सार्द्धं युद्धाय चाययौ ।।२७।।
तेषां हया हरिद्वर्णा योगिवेषधरा बलात् ।।
महतीं ते सहस्रं च रिपोः सेनां व्यनाशयत् ।।
तत्पश्चाद्गेहमासाद्य तदा तैः सुखितोऽवसत् ।। २८ ।।
एवं जाताश्च षण्मासास्तयोर्युद्धं हि सेनयोः ।।
क्रमेण संक्षयं प्राप्तं बलखानेर्महद्बलम् ।। २९ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टादशोऽध्यायः ।। १८ ।।