भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। सूत उवाच ।। ।।
कृष्णांशेऽष्टादशाब्दे तु यथाजातं तथा शृणु ।।
मृते कृष्णकुमारे तु भूपतौ रत्नभानुना ।। १ ।।
महीराजः सुदुःखार्तो लक्षचंडीमकारयत् ।।
होमान्ते तु तदा देवी वागुवाच नृपं प्रति ।। २ ।।
वर्षेवर्षे तु ते सप्त भविष्यंत्यंगसम्भवाः ।।
कुमाराः कौरवांशाश्च द्रौपद्यंशा सुता नृप ।। ३ ।।
इत्युक्ते वचने तस्मिन्राज्ञी गर्भमथो दधौ ।।
कर्णांशश्च सुतो जातस्तारको बलवत्तरः ।। ४ ।।
द्वितीयाब्दे तथा जाते दुश्शासनशुभांशतः ।।
नृहरिरिति विख्यातस्तृतीयाब्दे तु चाभवत् ।। ५ ।।
उद्धर्षांशः सरदनो दुर्मुखांशस्तु मर्दनः ।।
विकर्णांशः सूर्य्यकर्मा भीमश्चांशो विविंशतेः ।। ६ ।।
वर्द्धनश्चित्रबाणांशो वेला तदनु चाभवत् ।।
यथा कृष्णा तथा सैव रूपचेष्टागुणैर्मुने ।। ७ ।।
भुवि तस्यां च जातायां भूकम्पो दारुणोऽभवत् ।।
अट्टाट्टहासमशिवं चामुंडा खे चकार ह ।।
रक्तवृष्टिः पुरे चासीदस्थिशर्करया युता ।। ८ ।।
ब्राह्मणाश्च समागत्य जातकर्मादिकां क्रियाम् ।।
कृत्वा नाम तथा चक्रे शृणु भूमिप साक्षरम् ।। ९ ।।९।।
इला च शशिनो माता विकल्पेनाऽभवद्भुवि ।।
तस्माद्वेलेति विख्याता कन्येयं रूपशालिनी ।। 3.3.17.१० ।।
जातायां च सुतायां स पिता विप्रेभ्य उत्तमम् ।।
ददौ दानं मुदा युक्तो वासांसि विविधानि च ।। ११ ।।
द्वादशाब्दवयः प्राप्ते सा सुता वरवर्णिनी ।।
उवाच पितरं नम्रा शृणु त्वं पृथिवीपते ।। १२ ।।
मंडपे रक्तधाराभिर्यो मां संस्नापयिष्यति ।।
द्रौपद्या भूषणं दाता स मे भर्ता भविष्यति ।।१३।।
स्वर्णपत्रे तदा राजा पद्यं वेलामुखोद्भवम् ।।
लिखित्वा तारकं प्राह त्वमन्वेषय तत्पतिम् ।। १४ ।।
सार्द्धं लक्षत्रयं द्रव्यं गृहीत्वा लक्षसैन्यकः ।।
नृपान्तरं ययौ शीघ्रं तारकः पितुराज्ञया ।। १५।।
सिंधुस्थाने चार्यदेशे भूपं भूपं ययौ बली ।।
न गृहीतं नृपैः केश्चित्तद्वाक्यं घोरमुल्बणम् ।।
महीपतिं स संप्राप्य मातुलं तद्वचोऽब्रवीत् ।। १६ ।।
श्रुत्वा स आह भो वीर ब्रह्मानन्दो महाबलः ।।
स च वाक्यं प्रगृह्णीयादाह्लादाद्यैः सुरक्षितः ।। १७ ।।
किं त्वया विदितं नैव चरितं तस्य विश्रुतम् ।।
भवान्षड्बंधुसहितः कृष्णांशाद्यैर्विवाहितः ।। १८ ।।
ते सर्वे वशगास्तस्य ब्रह्मानंदस्य धीमतः ।।
नास्ति भूमंडले कश्चित्तद्बलेन समो नृपः ।। १९ ।।
इति श्रुत्वा ययौ तूर्णं तारकः स्वबलैः सह ।।
तत्पद्यं कथयित्वाग्रे हस्तबद्धस्तदाभवत् ।। 3.3.17.२० ।।
कृष्णांशस्तु गृहीत्वाशु पद्यं वाक्यमुवाच ह ।।
अहं विवाहयिष्यामि ब्रह्मानंदं नृपोत्तमम् ।। २१ ।।
तूष्णीं भूतास्तदा सर्वे तारकः स द्विजैः सह ।।
अभिषेकं तदा कृत्वा स्वगेहं पुनराययौ ।। २२ ।।
माघमासे सिते पक्षे त्रयोदश्यां सुवासरे ।।
विवाहलग्नं शुभदं वरकन्यार्थयोस्तदा ।। २३ ।।
सप्तलक्षबलैः सार्द्धं लक्षणश्च सतालनः ।।
महावतीं पुरीं प्राप्तो बली परिमलादिभिः ।। २४ ।।
आह्लादो लक्षसैन्याढ्यः कृष्णांशेन समन्वितः ।।
बलखानिर्लक्षसैन्यः संयुतः सुखखानिना ।। २५ ।।
नेत्रसिंहो लक्षसैन्यो योगभोगसमन्वितः ।।
रणजिच्च बली बालो द्विलक्षबलसंयुतः ।। २६ ।।
एवं द्वादशलक्षाणां सैन्यानामधिपो बली ।।
तालनः सिंहिनीसंस्थो वडवां प्रययौ सह ।। २७ ।।
सैन्यैर्द्वादशलक्षैश्च सहितस्तालनो बली ।।
आययौ देहलीग्रामे महीराजानुपालिते ।। २८ ।।
देवो मनोरथारूढो विंदुलस्थः स कृष्णकः ।।
वडवामृतमासाद्य स्वर्णवत्याः सुतो गतः ।। ।। २९ ।।
रूपणश्च करालस्थ आह्लादश्च पपीहके ।।
बलखानिः कपोतस्थो हरिणस्थोऽनुजस्ततः ।। 3.3.17.३० ।।
रणजिन्मलनापुत्रः संस्थितो हरिनागरे ।।
पञ्चशब्दगजारूढो महावत्यधिपो गतः ।। ३१ ।।
विमानवरमारुह्य धीवरैः शतवाहिकैः ।।
मणिमुक्तास्वर्णमयं सहस्रैर्वाद्यकैर्युतम् ।। ३२ ।।
अयुतैश्च पताकैश्च वेत्रपाणिसहक्रकैः ।।
सहस्रैः शिबिकाभिश्च पञ्चसाहस्रकै रथैः ।। ३३ ।।
शकटैर्महिषोढैस्तु तथा पञ्चसहस्रकैः ।।
सर्वतोपस्कृतं रम्यं ब्रह्मानंदं समागतः ।। ३४ ।।
श्रुत्वा कोलाहलं तेषां महीराजो नृपोत्तमः ।।
विस्मितः स बभूवात्र शिबिराणि मुदा ददौ ।। ३५ ।।
दुर्गद्वारि क्रियां रम्यां कृत्वा विधिविधानतः ।।
द्रौपद्या भूषणं देहि वेलायै स तमब्रवीत् ।। ३६ ।।
इन्दुलस्तु ययौ स्वर्गं वासवं प्रति चाब्रवीत् ।।
द्रौपद्या भूषणं सर्वं देहि मह्यं सुरोत्तम ।। ३७ ।।
कुबेरात्स समानीय दिव्यमाभूषणं ददौ ।।
इन्दुलः प्रहरान्ते च प्राप्तः पित्रे न्यवेदयत् ।। ३८ ।।
आह्लादस्तु स्वयं गत्वा वेलाये भूषणं ददौ ।।
प्राप्ते ब्राह्मे मुहूर्ते तु विवाहस्तत्र चाभवत् ।। ३९ ।।
संप्राप्ते प्रथमावर्ते तारकः खड्गमाददौ ।।
आह्लादस्तं समासाद्य युयुधे बहुलीलया ।। 3.3.17.४० ।।
नृहरिस्तु द्वितीये च कृष्णांशं प्रति चारुधत् ।।
तथा सरदनं वीरं बलखानिरुपाययौ ।। ४१ ।।
मर्दनं सुखखानिस्तु चतुर्थावर्तकेऽरुधत् ।।
रणजित्सूर्यवर्माणं स भीमं रूपणो बली ।।
देवस्तु वर्धनं वीरं सप्तावर्ते क्रमाद्ययौ ।। ४२ ।।
शतभूपान्खड्गधरान्गजसेनादिकांस्तदा ।।
लक्षणाद्याः समाजग्मुर्मंडपे बहुविस्तते ।। ४३ ।।
भग्नभूतं नृपबलं दृष्ट्वा राजा रुषान्वितः ।।
महीराजो ययौ रूढो गजं चारिभयंकरम् ।। ४४ ।।
जित्वा तान्नेत्रसिंहादीञ्छब्दवेधी नृपोत्तमः ।।
लक्षणं प्रययौ शीघ्रं बौद्धिनीं हस्तिनीं स्थितम् ।। ४५ ।।
शिवं मनसि संस्थाप्य जित्वा बद्ध्वा रुषान्वितः ।।
अगमत्तमुपगृह्य दर्शयामास तं नृपम् ।। ४६ ।।
श्रुत्वा परिमलो राजा कृष्णांशं भीरुको ययौ ।।
वृत्तान्तं कथयामास चाह्रादादिपराजयम्।। ४७ ।।
अजितः स च कृष्णांशो नभोमार्गेण मंदिरम् ।।
गत्वा जगर्ज बलवान्योगिन्यानंददायकः ।। ४८ ।।
तदा स लक्षणो वीरस्त्यक्त्वा बंधनमुत्तमम् ।।
विष्णुं मनसि संस्थाप्य महीराजं समाययौ ।। ४९ ।।
गृहीत्वा चागमां दोलां स्वयं शिबिरमाप्तवान् ।। 3.3.17.५० ।।
एतस्मिन्नंतरे सर्वे त्यक्त्वा मूर्च्छां समंततः ।।
खड्गयुद्धेन ताञ्जित्वा बद्ध्वा तान्निगडैर्दृढैः ।। ५१ ।।
सान्वयाञ्छतभूपांश्च हत्वा तद्रुधिरावहैः ।।
द्रौपदीं स्नापयामासुर्वेलारूपां कलोत्तमाम् ।। ५२ ।।
विवाहान्ते च ते सर्वे शिबिराणि समाययुः ।।
समुत्सृज्य सुतान्सप्त सुभोज्यैस्ते ह्यभोजयन् ।। ५३ ।।
भुक्तवत्सु सुवीरेषु साहस्रास्तैः सुतैः सह ।।
रुरुधुः सर्वतो जघ्नुरस्त्रशस्त्रैः समंततः ।। ५४ ।।
सहस्रशूरांस्तान्हत्वा पुनर्बद्ध्वा महाबलान् ।।
शिबिराणि समाजग्मुस्तेषां हास्यविशारदाः ।। ५५ ।।
दशलक्षसुवर्णानि गृहीत्वा नृपतिर्बली ।।
वेलां नवोढामादाय गत्वा नत्वा तमब्रवीत् ।। ५६ ।।
प्रद्योतसुत हे राजँल्लक्षणोऽसौ महाबलः ।।
मम पत्नीं समादाय दासीं कर्तुं समिच्छति ।। ५७ ।।
इति श्रुत्वा परिमलः सर्व भूपसमन्वितः ।।
बहुधा बोधितश्चैव न बुबोध तदा नृपः ।। ५८ ।।
तदा महासती वेला विललाप भृशं मुहुः ।।
तच्छुत्वा स च कृष्णांशः सहितो बलखानिना ।।
तामाश्वास्य तदा वेलां नभोमार्गेण चाययौ ।।५९।।
लक्षणं तर्जयित्वासौ गृहीत्वा चागमन्मुदा।।
नभोमार्गेण गेहे तं कृष्णांशः समपेषयत् ।। 3.3.17.६० ।।
पुनस्त्यक्त्वा सप्त सुतान्सहितान्नृपतेस्तु ते ।।
शपथं कारयामासुर्दंभं प्रति महाबलाः ।।
उषित्वा दशरात्रांते दध्युर्गंतुमनो मुने ।।६१।।
महीराजस्तु बलवान्गृहीत्वा भूपतेः पदौ ।।
स उवाचाश्रुपूर्णाक्षस्तदा परिमलं नृपम् ।। ६२ ।।
महाराज वधूस्ते च वेलेयं द्वादशाब्दिका ।।
पितृमातृवियोगं च न क्षमंती तु बालिका ।। ६३ ।।
तस्मात्तां त्वं परित्यज्य गच्छ गेहं सुखी भव ।।
पतियोग्या यदा भूयात्तदा त्वां पुनरेष्यति।।६४।।
इत्यु्क्त्वा च वचो राजा स स्नेहादंकमस्पृशत्।।
चूर्णीभूते परिमले चाह्लादस्तत्र दुःखितः।।
महीराजं स पस्पर्श स राजा चूर्णतां गतः।। ६५।।
भग्नास्थी भूपती चोभौ पावकीयैश्चिकित्सकैः।।
सुखवंतौ गृहं प्राप्य कृतकृत्यत्वमागतौ।।६६।।
मलना स्वसुतं दृष्ट्वा प्राप्तमुद्वाहितं गृहे ।।
कृत्वोत्सवं बहुविधं विप्रेभ्यश्च ददौ धनम् ।।
होमं वै कारयामास चंडिकायाः प्रसादतः ।। ६७ ।।
सभायां लक्षणो वीरो यात्राकाले तमब्रवीत् ।।
अगमा जयचन्द्राय मत्वा जित्वा हृतां तु ताम् ।।
नभोमार्गेण संप्राप्तौ योगिनौ च शिवाज्ञया।।६८।।
जहतुस्तौ च मां जित्वा तत्तीक्ष्णभय मोहितम् ।।
अद्याहं धाम गच्छामि चिरं जीव नृपोत्तम ।।
इत्युक्तवंतं तं नत्वा ययुर्भूपाः स्वमालयम् ।। ६९ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तदशोऽध्यायः ।। १७ ।।