भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १६

विकिस्रोतः तः

।। सूत उवाच ।। ।।
प्राप्ते सप्तदशाब्दे च कृष्णांशे तत्र चाभवत् ।।
शृणु त्वं मुनिशार्दूल दृष्टं यद्योगदर्शनात् ।। १ ।।
रत्नभानौ मृते राज्ञि मरुधन्वमहीपतिः ।।
गजसेनस्तदा विप्र पृथ्वीराजभयातुरः ।। २ ।।
आराध्य पावकं देवं यज्ञध्यानव्रतार्चनैः ।।
द्वादशाब्दं सदाचारः प्रेमभक्त्या ह्यतोषयत् ।। ३।।
तदा प्रसन्नो भगवान्पावकीयं हयं शुभम् ।।
ददौ तस्मै सुतौ चोभौ कन्यां च गजमुक्तिकाम् ।। ४ ।।
पावकास्ते हि चत्वारः समुद्भूता महीतले ।।
अग्निवर्णा महावीराः सर्वलक्षणलक्षिताः ।। ५ ।।
अष्टादशवयोभूताः सर्वे ते मुनिपुंगव ।।
जातमात्रा देवसमाः सर्वविद्याविशारदाः ।। ६ ।।
अष्टादशाब्दवयसा सा कन्या वरवर्णिनी ।।
दुर्गायाश्च वरं प्राप्ता धर्मांशस्त्वां वरिष्यति ।। ७ ।।
शार्दूलवंशी स नृपः कृतवान्वै स्वयंवरम् ।।
नानादेश्या नृपाः प्राप्ताः सुताया रूपमोहिताः ।। ८ ।।
मार्गशीर्षे सिते पक्षे चाष्टम्यां चंद्रवासरे ।।
तस्याः स्वयंवरश्चासीत्सा नृपान्प्रति चाययौ ।। ९ ।।
विद्युद्वर्णं मुखं तस्याश्चंचलायास्तथागतम् ।।
दृष्ट्वा मुमोह धर्मांशो बलखानिर्महीपतिः ।। 3.3.16.१० ।।
सापि दृष्ट्वा च तं वीरं मुमोह गजमुक्तिका ।।
बुद्ध्वा तस्मै ददौ मालां वैजयंती शुभानना ।। ११ ।।
तारकाद्याश्च भूपालाः सर्वशस्त्रास्त्रसंयुताः ।।
रुरुधुः सर्वतो वीरं ते बलात्कन्यकार्थिनः ।। १२ ।।
तथाविधान्नृपान्दृष्ट्वा भूपान्पंचशतान्बली ।।
स शीघ्रं खङ्गमुत्सृज्य शतभूपशिरांस्यहन् ।। ।। १३ ।।
सर्वतो वध्यमानं तं बलखानिं स तारकः ।।
तद्भुजाभ्यां ददौ खड्गं स तदंगे द्विधाभवत् ।। १४ ।।
महीराजसुतो ज्येष्ठो दृष्ट्वा खड्गं तथा गतम् ।।
अपोवाह रणाच्छूरस्तत्पश्चात्ते नृपा ययुः ।। १५ ।।
पराजिते नृपबले बलखानिर्महाबलः ।।
तां कन्यां शिबिकारूढां स्वगेहं सोऽनयद्बली ।। १६ ।।
तां गच्छंतीं सुतां दृष्ट्वा गजसेनो महीपतिः ।।
महीपत्याज्ञया प्राप्तो ज्ञात्वा तं क्षत्रियाधमम् ।। १७ ।।
जंबुकघ्नं महावीरं मायया तममोहयत् ।।
जाते निद्रातुरे वीरे दुर्गायाः शापमोहिते ।। १८ ।।
निगडैस्तं बबंधाशु दृढैर्लोहमयै रुषा ।।
लोहदुर्गं च संप्राप्य ग्रामरूपं महीपतिः ।। १९ ।।
चांडालांश्च समाहूय कठिनांस्तत्रवासिनः ।।
वधायाज्ञापयामास तस्य दंडैरनेकशः ।। 3.3.16.२० ।।
ते रौद्रास्तं समाबध्य ताडयामासुरूज्जिताः ।।
तत्ताडनात्तदा निद्रा तत्रैव विलयं गता ।। २१ ।।
दृष्ट्वा ततस्तु चंडालान्बलखानिरताडयत् ।।
तलमुष्टिप्रहारेण चांडाला मरणं गताः ।। २२ ।।
मृते पंचशते रौद्रे तच्छेषा दुद्रुवुर्भयात् ।।
कपाटं सुदृढं कृत्वा नृपांतिकमुपाययुः ।। २३ ।।
स नृपः कारणं ज्ञात्वा हस्तबद्धो महाबली ।।
उवाच तत्र गत्वासौ वचनं कार्यतत्परः ।।२४।।
भवान्महाबलो वीर चांडालैर्बंधनं गतः ।।
दस्युभिर्लुंठितस्तत्र निद्रावश्यो वनं गतः।।२५।।
मत्सुता भवने प्राप्ता दिष्ट्या त्वं जीवितं गतः ।।
उद्वाह्य मत्सुतां शीघ्रं स्वगेहं यातुमर्हसि ।।
इति श्रुत्वा प्रियं वाक्यं तं प्रशस्य तथाकरोत्।।२६।।
मंडपे वेदकर्माणि विवाहार्थं चकार सः ।।
जातायां मंडपार्चायां पत्रमाह्लादहेतवे ।। २७ ।।
तदाज्ञया लिखित्वासौ गजसेनोऽग्निसेवकः ।।
उष्ट्रारूढं समाहूय शीघ्रं पत्रमचोदयत् ।। २८ ।।
बलखानेर्विवाहोऽत्र भवान्सैन्यसमन्वितः ।।
संप्राप्य योग्यद्रव्याणि भुक्त्वा त्वं तृप्तिमावह ।। २९ ।।
इत्युक्ते निशि जातायां बलखानिर्महाबलः ।।
भोजनं कृतवांस्तत्र विषजुष्टं नृपार्पितम् ।। 3.3.16.३० ।।
गरलं तेन संभुक्तं न ममार वराच्छुभात् ।।
ततः काले च संप्राप्ते दृष्ट्वा मोहत्वमागतम् ।।
पुनर्बबंध निगडैस्ताडयामास वेतसैः ।। ३१ ।।
विषदोषमसृक्द्वारान्निस्सृतं सर्वदेहतः ।।
तदा बुबोध बलवान्भूपतिं प्राह नम्रधीः ।। ३२ ।।
राजन्किमीदृशं जातं त्वत्सैन्यं ताडने रतम् ।।
स आह भो महावीर मत्कुले रीतिरीदृशी ।।
यातनां प्रथमं प्राप्य तदनूद्वाहितो भवेत् ।। ३३ ।।
इत्युक्ते सति भूपाले गजमुक्ता समागता ।।
पितरं प्राह वचनं कोऽयं तत्ताडने गतः ।। ३४ ।।
नृपः प्राह सुते शीघ्रं याहि त्वं निजमंदिरे ।।
कृषिकरोयमायातो द्रव्यार्थं ताडने गतः ।। ३५ ।।
इति श्रुत्वा वचो घोरं बलखानिर्महाबलः ।।
छित्त्वा तद्बंधनं घोरं खड्गहस्तः समाययौ ।। ३६ ।।
शूरान्पंचशतं तं च रुद्ध्वा शस्त्रैः समंततः ।।
प्रजघ्नतस्तु तान्सर्वान्बलखानिर्व्यनाशयत् ।। ३७ ।।
गजसेन सुतो ज्येष्ठः सूर्यद्युतिरुपागतः ।।
बद्ध्वा पुनस्तं बलिनं गर्तमध्ये समाक्षिपत् ।। ३८ ।।
तथा गतं पतिं दृष्ट्वा गजमुक्ता सुदुःखिता ।।
निशि तत्र गता देवी दत्त्वा द्रव्यं तु रक्षकान् ।। ३९।।
पतिं निष्कास्य रुदती व्यजनं पतये ददौ ।।
रात्रौरात्रौ तथा प्राप्ता व्यतीतं पक्षमात्रकम् ।। 3.3.16.४० ।।
एतस्मिन्नंतरे वीरश्चाह्लादः सप्तलक्षकैः ।।
सैन्यैः सहाययौ शीघ्रं श्रुत्वा तत्रैव कारणम् ।। ४१ ।।
बलखानिर्गतो गर्ते रुरोध नगरीं तदा ।।
गजैः षोडशसाहस्रैर्गजसेनो रणं ययौ ।। ४२ ।।
त्रिलक्षैश्च हयैः सार्द्धं सूर्यद्युतिरुपाययौ ।।
कांतामलस्तदा प्राप्तस्त्रिलक्षैश्च पदातिभिः ।। ४३ ।।
तयोश्चासीन्महद्युद्धमहोरात्रं हि सैन्ययोः ।।
रक्षिते तालनाद्ये च गजसेनाद्यके तदा ।। ४४ ।।
द्वितीयेऽह्नि समायाते गजसेनो महाबलः ।।
प्रभग्नं स्वबलं दृष्ट्वा पावकीऽयं समारुहत् ।।
दाहयामास तत्सैन्यं तालनाद्यैश्च पालितम् ।। ४५ ।।
भस्मीभूतं बलं दृष्ट्वा तालनः शत्रुसम्मुखे ।।
गत्वा भल्लेन भूपालं ताडयामास वेगतः ।। ४६ ।।
मूर्छितं नृपमाज्ञाय सूर्यद्युतिरुपाययौ ।।
पावकीयं समारुह्य दाहयामास तालनम् ।। ४७ ।।
एतस्मिन्नंतरे शूरौ देवौ चाह्लादकृष्णकौ ।।
बबन्धतू रुषाविष्टौ सूर्यद्युतिमरिंदमम् ।। ४८ ।।
सुबद्धं भ्रातरं ज्ञात्वा हयं कांतामलोऽरुहत् ।।
देवसिंहं च संमोह्य कृष्णांशं प्रति सोऽगमत् ।।
गृहीत्वा तं स कृष्णांशं तस्य तेजः समाहरत् ।। ४९ ।।
सप्तलक्षबलं सर्वं वह्निभूतमभूत्तदा ।।
अमरत्वात्स आह्लादस्तदा तु समजीवयत् ।। 3.3.16.५० ।।
गजसेनस्यार्द्धसैन्यं तैश्च सर्वैर्विनाशितम् ।।
विजयं नृपतिः प्राप्य हर्षितो गेहमाययौ । ५१ ।।
वह्निभूतं च कृष्णांशं दृष्ट्वाह्लादः सुदुःखितः ।।
दुर्गां देवीं स तुष्टाव मनसा रणमूर्द्धनि ।। ५२ ।।
तदा देवी वचः प्राह वत्स ते पुत्र एव च ।।
स्वर्गादागत्य सर्वाणि पुनरुज्जीवयिष्यति ।। ५३ ।।
इत्युक्ते वचने देव्या इन्दुलो वासवाज्ञया ।।
द्वादशाब्दसमं रूपं धृत्वा विद्याविशारदः ।।
वडवामृतमारुह्य हयं तत्र समागतः ।। ५४ ।।
तदङ्गादुद्धृता वाहा मेघा इव समन्ततः ।।
पावकं शमयामासुस्त्रयस्ते देवतोपमाः ।। ५५ ।।
शमीभूते तदा वह्नौ स्वमुखात्सहयो मुदा ।।
लालामुद्वाहयामास तया ते जीवितास्ततः ।। ५६ ।।
जीविते सप्तलक्षे तु शमीभूते हि पावके ।।
गजसेनः सुताभ्यां च प्रयातः सर्वतोदिशम् ।। ५७ ।।
लक्षं सैन्यं तु ये शिष्टास्ते सर्वेऽपि भयातुराः ।।
दुद्रुवुर्भार्गवश्रेष्ठ दिव्यरूपत्वधारिणः ।। ५८ ।।
केचित्संन्यासिनो भूत्वा केचिद्वै ब्रह्मचारिणः ।।
जीवत्वं प्राप्तवन्तस्ते तथान्ये संक्षयं गताः ।। ५९ ।।
बद्ध्वा तान्गजसेनादींस्त्रीञ्छूरान्स च तालनः ।।
कृष्णांशेन समायुक्त इंद्रदुर्गं समाययौ ।। 3.3.16.६० ।।
बलखानिं च निष्कास्य तालनस्तदनंतरम् ।।
पृष्टवान् कारणं सर्वं श्रुत्वा तन्मुखतो वचः ।।
तान्वीरांस्ताडयामास वेतसैः स्तंभबंधनैः ।। ६१ ।।
गजमुक्ताज्ञया विप्र सेनापतरिरुदारधीः ।।
तालनस्तान्समुत्सृज्य विवाहार्थं समाययौ ।।
बलखानिर्हयारूढो गजमुक्ता च मंडपे ।। ६२ ।।
गजसेनस्तदा दिव्यैर्भोजनैस्तानभोजयत् ।।
निवास्य लोहदुर्गे तान्कपाटः सुदृढीकृतः ।।
लक्षशूरान्स संस्थाप्य स्वयं रुद्रपुरं ययौ ।।६३।।
ते रात्रौ लोहदुर्गेषु ह्युषित्वा यत्नतो बलात् ।।
प्रभाते च कपाटे न द्वारं दृष्ट्वा तदाब्रवीत् ।।
द्वारमुद्घाटयाशु त्वं नो चेत्प्राणांस्त्यजिष्यसि ।। ६४ ।।
इति सेनापतिः श्रुत्वा लक्षशूरान्समादिशत् ।।
नानायत्नैश्च हंतव्याः शत्रवो भयकारिणः ।। ६५ ।।
इति श्रुत्वा तु ते शूराः शतघ्न्यस्तैः सुरोपिताः ।।
एकैकं क्रमशो जघ्नुर्वृंदं ते वैरतत्पराः ।। ६६ ।।
हते दशसहस्रे तु कृष्णांशो बिंदुलं हयम् ।।
समारुह्य जघानाशु स्वखड्गेन महद्बलम् ।। ६७ ।।
हतशेषा भयार्ताश्च सहयाशीतिसम्मिताः ।।
इंद्रदुर्गं प्रति प्राहुर्यथा जातो बलक्षयः ।। ६८ ।।
श्रुत्वा भयातुरो राजा स्वसुताभ्यां समन्वितः ।।
गजमुक्तां पुरस्कृत्य वहुद्रव्यसमन्विताम् ।।
स्वपापं क्षालयामास दत्त्वा कन्यां विधानतः ।। ६९ ।।
षोडशोष्ट्राणि स्वर्णानि गृहीत्वाह्लाद एव सः ।।
ययौ स्वगेहं सहितः पुत्रभ्रातृसमन्वितः ।। 3.3.16.७० ।।
संप्राप्ते गेहमाह्लादे देवी स्वर्णवती स्वयम् ।।
इन्दुलं स्वांकमारोप्य ललाप करुणं बहु ।। ७१ ।।
मृताहं च त्वया पुत्र पुनरुज्जीविता खलु ।।
धन्याहं कृतकृत्यास्मि जयन्त तव दर्शनात् ।।७२।।
इति श्रुत्वेन्दुलो वीरो नत्वाह जननीं मुदा।।
अनृणं नाधिगच्छामि त्वत्तो मातः कदाचन।।७३।।
संप्राप्ते गेहमाह्लादे राजा परिमलः सुधीः ।।
वाद्यानि वादयामास विप्रेभ्यश्च ददौ धनम्।। ७४।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापपरपर्याये कलियुगीयेतिहाससमुच्चये षोडशोऽध्यायः ।। १६ ।।