भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search

। । सूत उवाच ।। ।।
चतुर्दशाब्दे कृष्णांशे यथा जातं तथा शृणु ।।
जयन्तः शक्रपुत्रश्च जानकीशापमोहितः ।।
कलौ जन्मत्वमापन्नः स्वर्णवत्युदरेऽवसत् ।। १ । ।
चैत्रशुक्ल नवम्यां च मध्याह्ने गुरुवासरे ।।
स जातश्चन्द्रवदनो राजलक्षणलक्षितः ।। २ । ।
जाते तस्मिन्सुतश्रेष्ठे देवाः सर्षिगणास्तदा ।।
इन्दुलोयं महीं जातो जयन्तो वासवात्मजः ।।
इत्यूचुर्वचनं तस्मादिन्दुलो नाम चाभवत् । । ३ ।।
आह्लादो जातकर्मादीन्कारयित्वा शिशोर्मुदा ।।
ब्राह्मणेभ्यो ददौ स्वर्णधेनुवृन्दं हयान्गजान् ।। ४ ।।
इन्दुले तनये जाते द्विमासांते महीतले ।।
योगसिंहस्तदागत्य स्वर्णवत्यै ददौ धनम् ।।
नेत्रसिंह सुतं दृष्ट्वा मलनास्नेहसंयुता ।।
पप्रच्छ कुशलप्रश्नं भोजयित्वा विधानतः ।। ६ ।।
शतवृन्दाश्च नर्तक्यो नानारागेण संयुताः ।।
तत्रागत्येव ननृतुर्यत्र भूपसुतः स्थितः ।। ७ ।।
सप्तरात्रमुषित्वा स योगसिंहो ययौ गृहम् ।।
षण्मासे च सुते जाते देवेन्द्रः स्नेहकातरः ।। ८ ।।
पुत्रस्नेहेन तं पुत्रं स जहार स्वमायया ।।
संहृत्य बालकं श्रेष्ठमिन्द्राण्यै च समर्पयत् ।। ९ ।।
स्नेहप्लुता शची देवी स्वस्तनौ तमपाययत् ।।
देव्या दुग्धं स वै पीत्वा षोडशाब्दसमोभवत् ।। 3.3.14.१० ।।
इन्दुं पीयूषभवनं गृह्णाति वपुषा स्वयम् ।।
अतः स इन्दुलो नाम जयन्तश्च प्रकीर्तितः ।।
स बालः स्वपितुर्विद्यां पठित्वा श्रेष्ठतामगात् ।। ११ ।।
विनष्टे बालके तस्मिन्देवी स्वर्णवती तदा ।।
रुरोदोच्चैस्तदा दीना हा पुत्र क्व गतोऽसि भोः ।। १२ ।।
ज्ञात्वाह्लादं तथा भूतं दशग्रामे तथाविधे ।।
रौद्रः कोलाहलो जातो रुदतां च नृणां मुने ।। १३ ।।
आह्लादः स्वकुलैः सार्द्धं निराहारो यतेंद्रियः ।।
शारदां शरणं प्राप्तस्त्रिरात्रं तत्र चावसत् ।। १४।।
तदा तुष्टा स्वयं देवी वागुवाचाशरीरिणी ।।
हे पुत्र स्वकुलैः सार्द्धं मा शुचस्त्वं सुतं प्रति ।। ।। १५ ।।
इन्द्रपुत्रो जयन्तश्च स्वर्गलोकमुपागतः ।।
दिव्यविद्यां पठित्वा स त्रिवर्षांते गमिष्यति ।। १६ ।।
यावत्त्वं भूतलेऽवात्सीस्तावत्स भूतले वसेत् ।।
तत्पश्चात्स्वर्गतिं प्राप्य जयन्तो हि भविष्यति ।। १७ ।।
इत्युक्ते वचने देव्या निश्शोकास्ते तदाभवन् ।।
दशग्रामपुरं प्राप्य समूषुर्ज्ञान तत्पराः ।। १८ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चय चतुर्दशोऽध्यायः ।। १४ ।।