भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
द्वादशाब्दे हि कृष्णांशे यथाजातं तथा शृणु ।।
इषशुक्लदशम्यां च राज्ञां जातः समागमः ।। १ ।।
कान्यकुब्जे महारम्ये नानाभूपाः समाययुः ।।
श्रुत्वा पराजयं राज्ञो महीराजस्य लक्षणः ।। २ ।।
कृष्णांशदर्शने वांछा तस्य चासीत्तदा मुने ।।
पितृव्यं भूपतिं प्राह द्रष्टुं यास्यामि तं शुभम् ।। ३ ।।
जितो येन महीराजः सर्वलोकप्रपूजितः ।।
इति श्रुत्वा वचस्तस्य जयचंद्रो महीपतिः ।।
भ्रातृजं प्रणतं प्राह शृणु शुक्लयशस्कर ।।४।।
राजराजपदं ते हि कथं संहर्तुमिच्छसि।।
इत्युक्त्वा जयचंद्रस्तु तदाज्ञां नैव दत्तवान् ।। ५ ।।
राजानस्ते च सहिताः स्वसैन्यैः परिवारिताः ।।
कृष्णांशं द्रष्टुमिच्छन्तः संययुश्च महीपतिम् ।। ६ ।।
शिरीषाख्यपुरस्थं च ज्ञात्वा कृष्णांशमुत्तमम् ।।
महीपतिं पुरस्कृत्य समाजग्मुर्नृपास्तदा ।। ७ ।।
ददृशुस्तं महात्मानं पुंडरीकनिभाननम् ।।
प्रसन्नवदनाः सर्वे प्रशशंसुः समंततः ।। ८ ।।
तदा महीपतिः क्रुद्धो वचनं प्राह भूपतीन् ।।
यस्येयं च कृता श्लाघा युष्माभिर्दूरवासिभिः ।।
पितरौ तस्य बलिनौ माहिष्मत्यां मृतिं गतौ ।। ९ ।।
जम्बुको नाम भूपालो नार्मदीयैः समन्वितः ।।
बद्ध्वा तौ प्रययौ गेहं लुंठयित्वा धनं बहु ।।
शिलापत्रे समारोप्य तयोर्गात्रमचूर्णयत् ।।
शिरसी च तयोश्छित्त्वा वटवृक्षे समारुहत् ।। 3.3.12.१० ।।
अद्यापि तौ स्थितौ वीरौ हा पुत्रेति प्रभाषिणौ ।।
प्रेतदेहे च पितरौ यस्य प्राप्तो महाबलो ।।
तस्योदयो वृथा ज्ञेयो वृथाकीर्तिः प्रियंकरी ।। ११ ।।
इति श्रुत्वा स कृष्णांशो भूपतीन्प्राह नम्रधीः ।।
गतौ मत्पितरौ सार्द्धं गुर्जरे यत्र वै रणः ।। १२ ।।
म्लेच्छैर्नराशनैः सार्द्धं तन्नृपेण रणोऽभवत् ।।
देशराजो वत्सराजो युद्धं कृत्वा भयंकरम् ।।
म्लेच्छैस्तैश्च हतौ तत्र श्रुतेयं विश्रुता कथा ।।१३।।
मातुलेनाद्य कथितं नवीनं मरणं तयोः।।
चेत्सत्यं वचनं तस्य पौरुषं मम पश्यत ।।१४।।
इत्युक्त्वा तान्स कृष्णांशो मातरं प्राह सत्वरम् ।।
हेतुं च वर्णयामास भाषितं च महीपतेः ।। १५ ।।
श्रुत्वा वज्रसमं वाक्यं रुरोद जननी तदा ।।
नोत्तरं प्रददौ माता पति दुःखेन दुःखिता ।।१६।।
ज्ञात्वा पितृवधं श्रुत्वा जम्बुकं शिवकिंकरम् ।।
मनसा स च कृष्णांशस्तुष्टाव परमेश्वरीम् ।।१७।।
जय जय जय जगदम्ब भवानि ह्यखिललोकसुरपितृमुनिखानि ।।
त्वया ततं सचराचरमेव विश्वं पातमिदं हृतमेव ।। १८ ।।
इति ध्यात्वा स कृष्णांशः सुष्वाप निजस द्मनि ।।
तदा भगवती तुष्टा तालनं बलवत्तरम् ।।
मोहयित्वाशु तत्पार्श्वे प्रेषयामास सर्वगा ।। १९ ।।
चतुर्लक्षबलैः सार्द्धं तालनः शीघ्रमागतः ।।
स्वसैन्यं चोदयामास चैकलक्षं महाबलम् ।।3.3.12.२०।।
बलखानिस्तदा प्राप्तश्चैकलक्षबलान्वितः ।।
अनुजं तत्र संस्थाप्य शिरीषाख्ये महाबलः ।।२१।।
सज्जीभूतान्समालोक्य तानुद्याने ससैन्यकान् ।।
भीतः परिमलो राजा कृष्णांशं प्रति चाययौ ।। २२ ।।
विह्वलं नृपमालोक्य कृष्णांशोऽऽश्वासयन्मुदा ।। २३ ।।
लक्षसैन्यं तदीयं च गृहीत्वा चाधिपोऽभवत् ।।
शतघ्न्यः पंचसाहस्रा नानावर्णाः सुवाहनाः ।। २४ ।।
पताकाः पञ्चसाहस्राः साहस्रं काष्ठकारिणः ।।
गजा दशसहस्राश्च रथाः पंचसहस्रकाः ।। २५ ।।
त्रिलक्षाश्च हयाः सर्वे उष्ट्रा दशसहस्रकाः ।।
शेषाः पदातयो ज्ञेयास्त स्मिन्सैन्ये भयानके ।। २६ ।।
तालनश्च समायातः सर्वसेनाधिपोऽभवत् ।।
देवसिंहो रथानां च सर्वेषामीश्वरोऽभवत् ।। २७ ।।
बलखानिर्हयानां च सर्वेषामधिपोऽभवत् ।।
आह्लादश्च गजानां च सर्वेषामधिपोऽभवत् ।।
पत्तीनां चैव सर्वेषां कृष्णांशश्चाधिपोऽभवत् ।। २८ ।।
नत्वा ते मलनां भूपो दत्त्वा दानान्यनेकशः ।।
समाययुश्च ते सर्वे दक्षिणाशां बलान्विताः ।। २९ ।।
पक्षमात्रगतः कालो मार्गे तस्मिन्रणैषिणाम् ।।
छित्त्वा तत्र वनं घोरं नानाकंटकसंयुतम् ।।
सेनां निवासयामासुर्निर्भयास्ते महाबलाः ।। 3.3.12.३० ।।
देवसिंहमतेनैव योगिनस्ते तदाभवन् ।।
नर्तकश्चैव कृष्णांशश्चाह्लादो डमरुप्रियः ।। ३१।।
मड्डुधारी तदा देवो वीणाधारी च तालनः ।।
वत्सजः कांस्यधारी च बलखानिर्महाबलः ।। ३२ ।।
मातुरग्रे स्थितास्ते वै ननृतुः प्रेमविह्वलाः।।
मोहिता देवकी चासीन्न ज्ञातं तत्र कारणम् ।। ३३।।
मोहितां मातरं दृष्ट्वा परं हर्षमुपाययुः ।।
तदा तां कथयामासुर्वयं ते तनया हि भोः ।। ३४ ।।
नत्वा तां प्रययुः सर्वे पुरीं माहिष्मतीं शुभाम् ।।
नगरं मोहयामासुर्वाद्यगानविशारदाः ।। ३५ ।।
दूत्या सार्द्धं रिपोर्गेहं ययुस्ते कार्यतत्पराः ।।
नृत्यगानसुवाद्यैश्च राज्ञस्ते मोहने रताः ।। ३६ ।।
विसंज्ञां महिषीं कृत्वा कृष्णांशः सर्वमोहनः ।।
प्राप्तवांस्तत्र यत्रासौ तत्सुता विजयैषिणी ।। ३७ ।।
दृष्ट्वा सा सुंदरं रूपं श्यामांगं पुरुषोत्तमम् ।।
मुमोह वशमापन्ना मैथुनार्थं समुद्यता ।। ३८ ।।
दृष्ट्वा तथा गतां नारीं कृष्णांशः श्लक्ष्णया गिरा ।।
शत्रोर्भेदं च पप्रच्छ कामिनीं मदविह्वलाम् ।।३९।।
साह भो देवकीपुत्र यदि पाणिं ग्रहीष्यसि।।
तर्हि ते कथयिष्यामि पितुर्भेदं हि दारुणम् ।। 3.3.12.४० ।।
तथेत्युक्त्वा स बलवाँस्तस्याः पाणिं गृहीतवान् ।।
ज्ञात्वा भेदं रिपोः सर्वं तामाश्वास्य ययौ मुदा ।।४१।।
एतस्मिन्नन्तरे राज्ञी बाधिता प्राह योगिनम् ।।
देशराजप्रियाहारं नवलक्षस्य मूल्यकम् ।।
तुभ्यं दास्यामि संतुष्टा नृत्यगानविमोहिता ।। ४२ ।।
इति श्रुत्वा वत्ससुतस्तां प्रशस्य गृहीतवान् ।।
प्रययौ बंधुभिः सार्द्धं जम्बूको यत्र तिष्ठति ।। ४३ ।।
ननर्त तत्र कृष्णांशो बलखानिरगायत ।।
आह्लादस्तालनो देवो दध्मुर्वाद्यगतीर्मुदा ।। ४४ ।।
मोहितोऽभून्नृपस्तत्र कालियः स्वजनैः सह ।।
कामं वरय कृष्णांग यच्च ते हृदये स्थितम् ।। ४५ ।।
इति श्रुत्वा वचः शत्रोर्बलखानिर्महाबलः ।।
तमाह भो महीपाल लक्षावर्तिर्वरांगना ।।
स्वविद्यां दर्शयेन्मह्यं तदा तृप्तिं व्रजाम्यहम् ।। ४६ ।।
इति श्रुत्वा तथा मत्वा लक्षावर्तिं नृपोत्तमः ।।
सभायां नर्तयामास देशराजप्रियां तथा ।। ४७ ।।
सा वेश्या सुतमाह्लादं ज्ञात्वा योगित्वमागतम् ।।
रुरोद तत्र दुःखार्ता नेत्रादश्रूणि मुंचती ।। ४८ ।।
रुदितां तां समालोक्य रुदन्नाह्लाद एव सः ।।
स्वभुजौ ताडयामास तत्प्रियार्थे महाबलः ।। ४९ ।।
कृष्णांशस्तत्र तं हारं तस्याः कंठे प्रदत्तवान् ।।
उवाच क्रोधताम्राक्षस्तामाश्वास्य पुनःपुनः ।। 3.3.12.५० ।।
अहं चोदयसिंहोऽयं पितुर्वैरार्थमागतः ।।
हनिष्यामि रिपुं भूपं सात्मजं सबलं तथा ।। ५१ ।।
इति श्रुत्वा वचस्तस्य कालियो बलवत्तरः ।।
पितुराज्ञां पुरस्कृत्य शतव्यूहसमन्वितः ।। ५२ ।।
तेषां च बंधनायैव कपाटं समरुद्ध सः ।।
ताञ्छत्रून्समनुज्ञाय पाशहस्तान्सशस्त्रगान् ।।५३।।
स्वंस्वं खड्गं समाकृष्य क्षत्रियास्ते समाघ्नत ।।
शतशूरे हते तैश्च कालियो भयकातरः ।। ५४ ।।
त्यक्त्वा तातं प्रदुद्राव ते तु गेहाद्बहिर्ययुः ।।
स्वसैन्यं शीघ्रमासाद्य युद्धाय समुपस्थितः ।।
शिबिराणि कृतान्येव नर्मदाकूलमास्थितैः ।। ५५ ।।
कृत्वा तु नर्मदासेतुं नल्वमात्रं सुपुष्टिदम् ।।
स्वसैन्यं तारयामास चतुरंगसमन्वितम् ।। ५६ ।।
रुरोध नगरीं सर्वां बलखानिर्बलैर्युतः ।।
शतघ्नीरग्रतः कृत्वा महाशब्दकरीस्तदा ।।
माहिष्मत्याश्च हर्म्याणि पातयामास भूतले ।। ५७ ।।
नराश्च स्वकुलैः सार्द्धं मुख्यद्रव्यसमन्विताः ।।
विंध्याद्रेश्च गुहां प्राप्य तत्रोषुर्भयकातराः ।। ५८ ।।
कालियस्तु गजानीके पंचशब्दगजे स्थितः ।।
हस्तिपा दशसाहस्रा युद्धाय समुपाययुः ।। ५९ ।।
तस्यानुजः सूर्यवर्मा त्रिलक्षैस्तुरगैर्युतः ।।
तुंदिलश्च रथैः सार्द्धं रथस्थश्च सहस्रकैः ।। 3.3.12.६० ।।
रंकणो वंकणश्चोभौ चतुर्लक्षपदातिभिः ।।
जग्मतुस्तौ महाम्लेच्छौ म्लेच्छभूपसहस्रकैः ।।
दाक्षिणात्यग्रामपास्ते तौ पुरस्कृत्य संययुः ।।६१।।
उभे सेने समासाद्य युद्धाय समुपस्थिते ।।
तयोश्च तुमुलयुद्धमभवल्लोमहर्षणम् ।।६२।।
त्रियामे रुधिरैस्तेषां नदी प्रावर्तत द्रुतम् ।।
दृष्ट्वास्रजां नदीं घोरां मांसकर्दमवाहिनीम् ।।
बलखानिरमेयात्मा खङ्गपाणिर्नरो ययौ ।। ६३ ।।
भल्लहस्तस्तदा देवो मनोरथहये स्थितः ।।
बिंदुलस्थश्च कृष्णांशः खङ्गेनैव रिपूनहन् ।। ६४ ।।
आह्लादश्च गदाहस्तः पोथयामास वाहिनीम् ।।
रूपणो नाम शूद्रश्च शक्तिहस्तोन्यहन्रिपून् ।।
तालनो हस्तनिस्त्रिंशो माहिष्मत्यां हनन्ययौ ।। ६५ ।।
एवं महाभये जाते रणे तस्मिन्महाबले ।।
दुद्रुवुः सर्वतो वीराः पाहिपाहीत्यथाब्रुवन् ।। ६६ ।।
प्रभग्नं स्वबलं दृष्ट्वा कालियो बलखानिकम् ।।
गजस्थस्ताडयामास स्वबाणैस्तं महाबलः ।। ६७ ।।
हरिणी वडवा तस्य ज्ञात्वा स्वामिनमातुरम् ।।
गजोपरि समास्थाय स्वपादैस्तमपातयत् ।। ६८ ।।
पतिते कालिये वीरे पंचशब्दो महागजः ।।
शृंखलैस्ताडयामास शूरांस्तान्मदमत्तकान्।। ।। ६९ ।।
मूर्च्छिते पंचशूरे तु रूपणो भयकातरः ।।
देवकीं वर्णयामास यथाजातं गजेन वै ।।3.3.12.७०।।
तदा तु दुःखिता देवी दोलामारुह्य सत्वरा ।।
तं गजं च समासाद्य वर्णयामास कारणम् ।। ७१ ।।
गजराज नमस्तुभ्यं शक्रदत्त महाबल ।।
एते पुत्रास्तु ते वीर पालनीया यथा पितुः ।।७२।।
इति श्रुत्वा दिव्यगजो देवमायाविशारदः ।।
देवकीं शरणं प्राप्य क्षमस्वागस्कृतं मम ।। ७३ ।।
इत्युक्ते गजराजे तु कृष्णांशो बलवत्तरः ।।
त्यक्त्वा मूर्च्छां ययौ तत्र यत्राह्लादश्च मूर्च्छितः ।। ७४ ।।
तमुत्थाप्य करस्पर्शैर्बलखानिसमन्वितः ।।
पितुर्गजं महामत्तमाह्लादाय प्रदत्तवान् ।।
कराल मन्दं स्मितं रूपणाय तदा ददौ ।। ७५ ।।
मूर्च्छितं कालियं शत्रुं बद्ध्वा स निगडैर्दृढैः ।।
सेनान्तं प्रेषयामास बलखानिर्महाबलः ।। ७६ ।।
सूर्यवर्मा तदा ज्ञात्वा बद्धं बंधुं च कालियम् ।।
प्रययौ शत्रुसेनान्तं क्रोधेन स्फुरिताधरः ।। ७७ ।।
तमायान्तं समालोक्य ते वीरा युद्धदुर्मदाः ।।
रथस्थं मंडलीकृत्य स्वस्वमस्त्रं समाक्षिपन् ।। ७८ ।।
कुंठितेऽस्त्रे तदा तेषां विस्मितास्तेऽभवन्मुने ।।
चिन्तां च महतीं प्राप्ताः कथं वध्यो भवेदयम् ।। ७९ ।।
तस्यास्त्रैस्ते महावीरा व्रणार्तिभयपीडिताः ।।
त्यक्त्वा युद्धं पुनर्गत्वा रणं चक्रुः पुनःपुनः ।। 3.3.12.८० ।।
एवं कति दिनान्येव बभूव रण उत्तमः ।।
आह्लादो वत्सजो देवस्तालनो भयसंयुतः ।।
कृष्णांशं शरणं जग्मुस्तेन वीरेण मोहिताः ।। ८१ ।।
कृष्णस्तु तं तथा दृष्ट्वा देवीं विश्वविमोहिनीम् ।।
तुष्टाव मनसा वीरो रात्रिसूक्तं पठन्हृदि ।। ८२ ।।
तदा तुष्टा जगद्धात्री दुर्गा दुर्गार्तिनाशिनी ।।
मोहयित्वा तु तं वीरं तत्रैवांतरधीयतः ।।८३।।
निद्रया मोहितं दृष्ट्वा कृष्णांशस्तु महाबलः ।।
बबंध निगडैस्तं च देवक्यन्ते समागमत् ।। ८४ ।।
तुंदिलश्च तथा ज्ञात्वा भातृशोकपरिप्लुतः ।।
आजगाम हयारूढः खङ्गहस्तो महाबलः ।।
रिपुसैन्यस्य मध्ये तु बहुशूरानताडयत् ।। ८५ ।।
माहिष्मत्याश्च ते शूरा रंकणेन समन्विताः ।।
तत्सैन्यं भञ्जयामासुस्तालनेन प्रपालितम् ।। ८६ ।।
प्रद्रुतं स्वं बलं दृष्ट्वा तालनः परिघायुधः ।।
शिरांसि पोथयामास म्लेच्छानां च पृथक्पृथक् ।। ८७ ।।
वंकणं च तथा हत्वा खड्गेनैव च रंकणम् ।।
तुंदिलं च तथा बद्ध्वा दिनान्ते शिबिरं ययौ ।।८८।।
कालिये च रिपौ बद्धे सुबद्धे सूर्यवर्मणि ।।
तुंदिले च तथा बद्धे रंकणे वंकणे हते ।। ८९ ।।
सहस्रं म्लेच्छराजानो हतशेषा बलान्विताः ।।
पक्षमात्रमहोरात्रं युद्धं चक्रुः समंततः ।। 3.3.12.९० ।।
प्रत्यहं तालनो वीरः सेनापतिरमर्षणः ।।
षष्टिं भूपाञ्जघानाशु शत्रुसैन्यभयंकरः ।। ९१ ।।
भयभीता रिपोः शूरा हता भूपा हतौजसः ।।
हतशेषा ययुर्गेहमर्द्धसैन्या भयातुराः ।। ९२ ।।
जम्बुकस्तु तथा श्रुत्वा दुःखितो गेहमाययौ ।।
व्रतं ह्यनशनं कृत्वा रात्रौ शोचन्नशेत सः ।। ९३ ।।
निशीथे समनुप्राप्ते तत्सुता विजयैषिणी ।।
पूर्णा तु सा कला ज्ञेया राधाया व्रजवासिनी ।।९४।।
आश्वास्य पितरं तं च ययौ मायाविशारदा ।।
रक्षकाञ्छिविराणां च मोहयित्वा समाययौ ।। ९९ ।।
भ्रातरो तत्र गत्वासौ यत्र सर्वानबोधयत् ।।
कृत्वा सा राक्षसीं मायां पंचवीरानमोहयत् ।। ९६ ।।
निरस्त्रकवचान्बंधून्प्रतिदोलां समारुहत् ।।
पितुरंतिकमासाद्य तस्मै भ्रातृन्ददौ मुदा ।।९७।।
प्रभाते बोधिताः सर्वे स्नानध्यानादिकाः क्रियाः ।।
कृत्वा ययू रिपोः शालां दृष्टवन्तो न तांस्तदा ।। ९८।।
बभूबुर्दुःखिताः सर्वे किमिदं कारणं कथम् ।।
तानुवाच तदा देवः प्राप्ता ह्यत्र रिपोः सुता ।। ९९ ।।
कृत्वा सा राक्षसीं मायां हृत्वा तान्गेहमाययौ ।।
तस्माद्यूयं मया सार्द्धं गत्वा यत्रैव तद्गुरुः ।। ।। 3.3.12.१०० ।।
विंध्योपरि महारण्ये नानासत्त्वनिषेविते ।।
कुटीरं तस्य तत्रैव नाम्नैवैलविली हि सः ।। इलविला
योगसिद्धियुतः कामी राक्षसेभ्यो हि निर्भयः ।। १०१ ।।
जम्बुकस्य सुता तत्र प्रत्यहं स्वजनैर्युता ।।
एकाकिनी च सा रात्रौ स्वं गुरुं तमरीरमत् ।। १०२ ।।
कृतेयं चैलविलिना माया मनुजमोहिनी ।।
कार्यसिद्धिं गमिष्यामो गत्वा तं पुरुषाधमम् ।।
इति श्रुत्वा तु चत्वारो विनाह्रादं ययुर्वनम् ।। १०३ ।।
गीतनृत्यप्रवाद्यैश्च मोहयित्वा च त दिने ।।
वासं चक्रुश्च तत्रैव धूर्तं मायाविशारदम् ।। १०४ ।।
स तु पूर्वभवे दैत्यश्चित्रो नाम महासुरः ।।
बाणकन्यामुषां नित्यमवाञ्छच्छिव पूजकः ।।
जात ऐलविली नाम पक्षपूजी स वेगवान् ।।१ ०५।।
तयोर्मध्ये प्रमाणोऽयं विवाहो मे यदा भवेत् ।।
तदाहं त्वां भजिष्यामि संत्यक्त्वोद्वाहितं पतिम् ।। १०६ ।।
हते तस्मिन्महाधूर्ते गत्वा संग्राममूर्द्धनि ।।
जम्बुकस्य ययुर्दुर्गं दृष्ट्वा ते तं समारुहन् ।।
हत्वा तत्र स्थितान्वीराञ्छतघ्न्यः परिखाकृताः ।। १०७ ।।
तदा तु जम्बुको राजा शिवदत्तवरो बली ।।
जित्वा पञ्च महावीरान्बद्ध्वा तान्निगडैर्दृढैः ।।
शैवं यज्ञं च कृतवांस्तेषां नाम्नोपबृंहितम् ।। १०८ ।।
रूपणस्तु तथा ज्ञात्वा देवकीं प्रत्यवर्णयत् ।।
तदा तु दुःखिता देवी भवानीं भयहारिणीम् ।।
मनसा च जगामाशु शरण्यां शरणं सती ।। १०९ ।।
तदा तुष्टा जगाद्धात्री स्वप्नांते तामवर्णयत् ।।
अहो देवकि कल्याणि पुत्रशोकं त्यजाधुना ।। 3.3.12.११० ।।
यदा तु जम्बुको राजा शिवदत्तवरो बली ।।
होमं कर्ता स मंदात्मा तेषां च बलिहेतवे ।। १११ ।।
मोहयित्वा तदाहं तं मोचयित्वा च ते सुतान् ।।
विजयं ते प्रदास्यामि मा च शोके मनः कृथाः ।। ११२ ।।
इति श्रुत्वा सती देवी नमस्कृत्य महेश्वरीम् ।।
पूजयामास विधिवद्धूपदीपोपहारकैः ।। ११३ ।।
एतस्मिन्नंतरे राजा देवमायाविमोहितः ।।
सुष्वाप तत्र होमान्ते ते च जाता ह्यबंधनाः ।। ११४ ।।
तैर्बद्धो जम्बुको राजा निगडैरायसैर्दृढैः ।।
ते तं बद्ध्वा ययुः शीघ्रं देवकीं प्रति निर्भयाः ।। ११५ ।।
एतस्मिन्नंतरे तत्र कालियाद्यास्त्रयः सुताः ।।
त्रिलक्षं सैन्यमादाय युद्धाय समुपाययुः ।। ११६ ।।
पुनर्युद्धमभूद्घोरं सेनयोरुभयोस्तदा ।।
तालनाद्याश्च चत्वारो हत्वा तां रिपुवाहिनीम् ।। ११७ ।।
त्रीञ्छत्रून्कोष्ठकीकृत्य स्वशस्त्रैर्जघ्नुरूर्जिताः ।।
एवं दिनानि कतिचित्तत्र जातो महारणः ।। ११८ ।।
कालियो दुःखितो भूत्वा सस्मार मनसा हरम् ।।
मोहनं मंत्रमासाद्य मोहयामास तान्रिपून् ।। ११९ ।।
एतस्मिन्नंतरे देवी देवकी पतिदेवता।।
पातिव्रत्यस्य पुण्येन सुतांतिकमुपागता ।। 3.3.12.१२० ।।
बोधयित्वा तु कृष्णांशं पञ्चशब्दगजस्थितम् ।।
पुनस्तुष्टाव जननीं सर्वविश्वविमोहिनीम् ।।
तदा तुष्टा स्वयं देवी बोधयामास तान्मुदा ।। १२१ ।।
आह्लादः सूर्यवर्माणं कालियं च ततोऽनुजः ।।
जघान बलखानिस्तं तुन्दिलं जम्बुकात्मजम् ।।१२२।।
ते तु पूर्वभवे विप्र जरासंधः सकालियः ।।
द्विविदो वानरः शूरः सूर्य्यवर्मेह चाभवत् ।।१२३।।
त्रिशिरास्तुदिलो जातः शृगालः स च जम्बुकः ।।
नित्यवैरकराः सर्वे भूपाश्चासन्महीतले ।।१२४ ।।
हतेषु शत्रुपुत्रेषु देवकी जम्बुकं रिपुम् ।।
खङ्गेन तर्जयामास पतिशोकपरायणा ।। १२५ ।।
कृष्णांशः शिरसी पित्रोर्गृहीत्वा स्नेहकातरः ।।
जम्बुकस्यैव हदये स्थापयामास विह्वलः ।।१२६।।
विहस्य तौ तदा तत्र प्रोचतुर्वचनं प्रियम् ।।
चिरं जीव हि कृष्णांश गयां कुरु महामते ।।
इति वाणी तयोर्जाता बलिनो प्रेतदेहयोः ।। १२७ ।।
खड्गहस्ता च सा देवी शिलायंत्रे तु तं रिपुम् ।।
संस्थाप्य चोदयामास स्वपुत्रान्हर्षसंयुता ।।१२८।।
हे पुत्राः स्वपितुः शत्रुं जम्बुकं पुरुषाधमम् ।।
खण्डखण्डं च तिलशः कृत्वानन्दसमन्विताः ।। १२९ ।।
संचूर्णयत तद्गात्रं तत्तैलैर्मदनिर्मितैः ।।
स्नास्याम्यहं तथेत्युक्त्वा रुरोद जननी भृशम् ।। 3.3.12.१३० ।।
तथा कृत्वा तु ते पुत्रा महिषीं ससुतां तदा ।।
बलखानियुतास्तत्राहूय चक्रुश्च तत्क्रियाम् ।। १३१ ।।
तदा परिमलं राज्ञी दृष्ट्वा स्वामिनमातुरम् ।।
मरणायोन्मुखं विप्र पंचत्वमगमन्मुने ।। १३२ ।।
तत्सुता खड्गमानीय बलखानिभुजं प्रति ।।
कृतित्वा मूर्छयित्वा तं तत्पक्षानन्वधावत।।१३३।।
तालनं देवसिंहं च रामांशं च तथाविधम्।।
कृत्त्वान्यांश्च तथा शत्रूनगच्छत्कुलकातरा।।१३४।।
कृष्णांशं मोहयित्वाशु मायया च समाहरत्।।
हते तत्र शते शूरे बलखानिरमर्षितः ।।
तच्छिरश्च समाहृत्य चितायां च समाक्षिपत् ।। १३५ ।।
तदा वाणी समुत्पन्ना बलखाने शृणुष्व भोः ।।
अवध्या च सदा नारी त्वया वध्या ह्यधर्मिणः ।। १३६ ।।
फलमस्य विवाहे स्वे भोक्तव्यं पापकर्मणः ।।
इति श्रुत्वा तदा दुःखी बलखानिर्ययौ पुरम् ।। १३७ ।।
ततस्तु सैनिकाः सर्वे महाहर्षसमन्विताः ।।
शतोष्ट्रभारवाह्यानि लुंठयित्वा धनानि च ।। १३८ ।।
महावतीं समाजग्मुः कृतकृ त्यत्वमागताः ।।
हतशेषैश्चार्द्धसैन्यैः सहिता गेहमाययुः ।। १३९ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलि युगीयेतिहाससमुच्चये द्वादशोऽध्यायः ।। १२ ।।