भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search

सूत उवाच ।। ।।
नवमाब्दं वयः प्राप्ते कृष्णांशो बलवत्तरः ।।
पठित्वान्वीक्षिकीं विद्यां चतुःषष्टिकलास्तथा ।। १ ।।
धर्मशास्त्रं तथैवापि सर्वश्रेष्ठं बभूव ह ।।
तस्मिन्काले भृगुश्रेष्ठ महीराजो नृपोत्तमः ।। २ ।।
करार्थं प्रेषयामास स्वसैन्यं च महावतीम् ।।
ते वै लक्षं महाशूराः सर्वशस्त्रास्त्रधारिणः ।। ३ ।।
ऊचुः परिमलं भूपं शृणु चंद्रकुलोद्भव ।।
सर्वे च भारते वर्षे ये राजानो महाबलाः ।। ४ ।।
षडंशं करमादायास्मद्राजाय ददंति वै ।।
भवान्करे हि तस्यैव योग्यो भवति सांप्रतम् ।। ५।।
अद्यप्रभृति चेद्राज्ञे तस्मै दद्यात्करं न हि ।।
महीराजस्य रौद्रास्त्रैः क्षयं यास्यति सैनिकैः ।। ६ ।।
ये भूपा जयचंद्रस्य पक्षगास्ते हि तद्भयात् ।।
ददंते भूमिराजाय दंडं तन्मानसत्कृताः ।। ७ ।।
इति श्रुत्वा स नृपतिस्तस्मै राज्ञे महात्मने।।
करं षडंशमादाय ददौ प्रीतिसमन्वितः ।। ८ ।।
दशलक्षमितं द्रव्यं गृहीत्वा ते समाययुः ।।
महीराजः प्रसन्नात्मा पूर्ववैरमपाहरत् ।। ९ ।।
तदा ते लक्षशूराश्च कान्यकुब्जमुपाययुः ।।
जयचंद्रं तु नत्वोचुः शृणु लक्षणकोविद ।। 3.3.10.१० ।।
पृथ्वीराजो महाराजो दंडं त्वत्तः समिच्छति ।।
इत्युक्तस्तैर्वैष्णवास्त्री लक्षणस्तानुवाच ह ।। ११ ।।
मद्देशे मंडलीकाश्च बहवः संति सांप्रतम् ।।
भूमिराजो मांडलिको मयि जीवति मा भवेत् ।। १२ ।।
इत्युक्त्वा वैष्णवास्त्रं तान्क्रुद्धः स च समादधत् ।।
तदस्त्रज्वालतः सर्वे भयभीता प्रदुद्रुवुः ।। १३ ।।
महीराजस्तु तच्छ्रुत्वा महद्भयमुपागमत् ।।
दशाब्दं च वयः प्राप्ते कृष्णांशे मल्लकोविदे ।। १४ ।।
नानामल्लाः समाजग्मुस्तेन राज्ञैव सत्कृताः ।।
तेषां मध्ये स कृष्णांशो बाहुशाली बभूव ह ।। १५ ।।
उर्वीयाधिपतेः पुत्रः षोडशाब्दवया बली ।।
शतमल्लैश्च सहितः कदाचित्स समागतः ।। १६ ।।
पितृष्वसृपतिं भूपं नत्वा नाम्नाऽभयो बली ।।
उवाच शृणु भूपाल कृष्णोऽयं मदमत्तरः ।। १७ ।।
तेन सार्द्धं भवेन्मल्लयुद्धं मम नृपोत्तम ।।
इति वज्रसमं वाक्यं श्रुत्वा राजा भयातुरः ।। १० ।।
उवाच श्यालजं प्रेम्णा भवान्युद्धविशारदः ।।
अष्टाब्दोऽयं सुतः स्निग्धो मम प्राणसमो भुवि ।। १९ ।।
क्व भवान्वज्रसदृशः क्व सुतोऽयं सुकोमलः ।।
अन्यैर्मल्लैर्मदीयैश्च सार्द्धं योग्यो भवान्रणे ।।3.3.10.२०।।
इति श्रुत्वा नृपः स्यालो महीपतिरिति स्मृतः ।।
स तमाह रुषाविष्टो बालोऽयं बलवत्तरः ।। २१ ।।
शृणु तत्कारणं भूप यथा ज्ञातो मया शिशुः ।।
आगस्कृतं महीराजं मत्वा सतिलकः सुतम् ।। २२ ।।
पंडितांश्च समाहूय मुहूर्तं पृष्टवान्मुदा ।।
गणेशो नाम मतिमाञ्ज्योतिश्शास्त्रविशारदः ।। २३ ।।
लक्षणं वचनं प्राह महीराजमनुत्तमम् ।।
शिवदत्तवरो राजन्कुबेर इव सांप्रतम् ।। २४ ।।
कृष्णांशस्तस्य योग्योऽयं देशराजसुतोऽवरः ।।
नान्योऽस्ति भूतले राजन्सत्यं सत्यं ब्रवीम्यहम् ।।। २५ ।।
तच्छ्रुत्वा लक्षणो वीरः पूर्वे बर्हिष्मतीं प्रति ।।
कल्पक्षेत्रं दक्षिणे च भूमिग्रामं तु पश्चिमे ।। २६ ।।
उत्तरे नैमिषारण्यं स्वकीयं राष्ट्रमादधत् ।।
अतः श्रेष्ठः कुमारोऽयं कान्यकुब्जे मया श्रुतः ।। २७ ।।
नागोत्सवे च भूपाल पंचम्यां च नभस्सिते ।।
दृश्यमात्रं कुमारांगं तस्माद्योग्यो ह्ययं सुतः ।। २८ ।।
इति श्रुत्वा स कृष्णांशो वाक्छरेण प्रपीडितः।
अभयं भुजयोः शीघ्रं गृहीत्वा सोऽयुधद्बली ।। २९ ।।
क्षणमात्रं रणं कृत्वा भूमिमध्ये तमक्षिपत् ।।
अभयस्य भुजो भग्नस्तत्र जातो बलेन वै ।। 3.3.10.३० ।।
मूर्च्छितं स्वसुतं ज्ञात्वा खड्गहस्तो महीपतिः ।।
प्रेषयामास तान्मल्लान्कृष्णांशस्य प्रहारणे ।। ३१ ।।
रुषाविष्टांश्च ताञ्ज्ञात्वा कृष्णांशो बलवत्तरः ।।
तानेकैकं समाक्षिप्य विजयी स बभूव ह ।। ३२ ।।
पराजिते मल्लबले खड्गहस्तो महीपतिः ।।
मरणाय मतिं चक्रे कृष्णांशस्य प्रभावतः ।।३३।।
ज्ञात्वा तमीदृशं भूपं वारयामास भूपतिः ।।
अभयं नीरुजं कृत्वा प्रेम्णा गेहमवासयत् ।। ३४ ।।
नवाब्दांगे च कृष्णांशे चाह्लादाद्याः कुमारकाः।।
मृगयार्थे दधुश्चित्तं तमूचुर्भूपतिं प्रियम् ।।३५।।
नमस्ते तात भूपाग्र्य सर्वानंदप्रदायक ।।
अस्मभ्यं त्वं हयान्देहि मत्प्रियान्करुणाकर ।। ३६ ।।
इति श्रुत्वा वचस्तेषां तथेत्युक्त्वा महीपतिः ।।
भूतले वासिनोऽश्वान्वै दिव्यान्राट् चतुरो वरान् ।। ३७ ।।
ददौ तेभ्यो मुदा युक्तो हरिणीगर्भसंभवान् ।।
ऋषय ऊचुः ।।
त्वन्मुखेन श्रुतं सूत हरिणी वडवा यथा।।३८ ।।
भीष्मसिंहाय संप्राप्ता शक्राद्देवेशतो मुने ।।
इदानीं श्रोतुमिच्छामः कुतो जातास्तुरंगमाः ।। ३९ ।।
दिव्यांगा भूषणापन्ना नभस्सलिलगामिनः ।।
।। सूत उवाच ।।
देशराजेन भूपेन पुरा धर्मयुतेन वै।।3.3.10.४०।।
सेवनं भास्करस्यैव कृतं च द्वादशाब्दिकम् ।।
सेवान्ते भगवान्सूर्यो वरं ब्रूहि तमब्रवीत्।। ।। ४१ ।।
प्राह देव नमस्तुभ्यं यदि देयो वरस्त्वया ।।
हयं दिव्यमयं देहि नभस्थलजलातिगम् ।। ४२ ।।
तथेत्युक्त्वा रविः साक्षाद्ददौ तस्मै पपिहकम् ।।
लोकान्पाति पपीर्ज्ञेयस्तस्येदं नाम चोत्तमम् ।। ४३ ।।
अतः पपीहको नाम लोकपालनकर्मवान् ।।
स हयो मदमत्तश्च हरिणीं दिव्यरूपिणीम् ।। ४४ ।।
बुभुजे स्मरवेगेन तस्यां जातास्तुरंगमाः ।।
मनोरथश्च पीतांगः करालः कृष्णरूपकः ।। ४५ ।।
एकगर्भे समुद्भूतौ शैब्यसुग्रीवकांशकौ ।।
यस्मिन्दिने समुद्भूतौ जिष्णुविष्णुकलांशतः ।। ६ ।।
तदा जातौ हरिण्याश्च मेघपुष्पबलाहकौ ।।
बिन्दुलश्च सुवर्णांगः श्वेतांगो हरिनागरः।। ४७ ।।
दिव्यांगास्ते हि चत्वारः पूर्वं जाता महाबलाः ।।
पश्चादंशावताराश्च जातास्तेषां महात्मनाम् ।। ४८ ।।
इति ते कथितं विप्र शृणु तत्र कथां शुभाम् ।।
भूतले ते हयाः सर्वे प्राप्ताश्चोपरिभूमिगाः ।। ४९ ।।
देवसिंहाय बलिने ददौ चाश्वं मनोरथम् ।।
आह्लादाय करालं च कृष्णांशायैव बिन्दुलम् ।। 3.3.10.५० ।।
ब्रह्मानंदाय पुत्राय प्रददौ हरिनागरम् ।।
ते चत्वारो हयारूढा मृगयार्थं वनं ययुः ।। ५१ ।।
हरिणीं वडवां शुभ्रां बलखानिः समारुहत् ।।
तदनु प्रययौ वीरो वनं सिंहनिषेवितम् ।। ५२ ।।
आह्लादेनैव शार्दूलो हतः प्राणिभयंकरः ।।
देवसिंहेन सिंहश्च सूकरो बलखानिना ।। ५३ ।।
ब्रह्मानंदेन हरिणो हतस्तत्र महावने ।।
मृगाः शतं हतास्तैश्च तान्गृहीत्वा गृहं ययुः ।। ५४ ।।
एतस्मिन्नंतरे देवी शारदा च शुभानना ।।
मृगी स्वर्णमयी भूत्वा तेषामग्रे प्रधाविता ।।५५।।
दृष्ट्वा तां मोहिताः सर्वे स्वैः स्वैर्बाणैरताडयन् ।।
शरास्तु संक्षयं जग्मुर्मृग्यंगे बलवत्तराः ।।५६।।
आह्लादाद्याश्च ते शूरा विस्मिताश्च बभूविरे ।।
तस्मिन्काले स कृ्ष्णांगो बाणेनैव ह्यताडयत् ।।५७।।
तदा च पीडिता देवी भयभीता ययौ वनम् ।।
कृष्णांशः क्रोधताम्राक्षस्तत्पश्चात्प्रययौ बली ।।५८।।
वनांतरं च संप्राप्य देवी धृत्वा स्वकं वपुः ।।
तमुवाच प्रसन्नाक्षी परीक्षा ते मया कृता ।। ५९ ।।
यदा ते च भयं भूयात्तदा त्वं मां सदा स्मर ।।
साधयिष्यामि ते कार्यं कृष्णांशो हि भवान्विभुः ।। 3.3.10.६० ।।
इत्युक्त्वान्तर्हिता देवी शारदा सर्वमंगला ।।
कृष्णांशस्तु ययौ गेहं तैश्च सार्द्धं मुदा युतः ।। ६१ ।।
तदा पराक्रमं तेषां दृष्ट्वा राजा सुखोऽभवत् ।।
गृहे गृहे च सर्वेषां लक्ष्मीर्देवी समाविशत् ।। ६२ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये दशमोऽध्यायः ।। १० ।।

[सम्पाद्यताम्]

३.३.१०.४३

पपीहकः -- पपि क्षान्तौ (सहने) - काशकृत्स्नधातुकोशः ९.३५ (चुरादिगणः)