भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। सूत उवाच ।।
भीष्मः सिंहस्थिते गंगाकूले शक्रप्रपूजकः ।।
शक्रं सूर्यमयं ज्ञात्वा तपसा समतोषयत् ।। १ ।।
मासांते भगवानिंद्रो ज्ञात्वा तद्भक्तिमुत्तमाम् ।।
वरं वरय च प्राह श्रुत्वा शूरोब्रवीदिदम् ।। २ ।।
देहि मे वडवां दिव्यां यदि तुष्टो भवान्प्रभुः ।।
इति श्रुत्वा तदा तस्मै वडवां हरिणीं शुभाम् ।। ३ ।।
ददौ स भगवानिंद्रस्तत्रैवान्तर्हितोभवत् ।। ४ ।।
तस्मिन्काले परिमलः पितृशोकपरायणः ।।
पार्थिवैः पूजयामास महादेवमुमापतिम् ।।
परीक्षार्थं शिवः साक्षात्सर्परोगेण तं ग्रसत् ।। ५ ।।
व्यतीते पंचमे मासे नृपः शक्तिविवर्जितः ।।
न तत्याज महापूजां महाक्लेशसमन्वितः ।। ६ ।।
मरणाय ययौ काशीं स्वपत्न्या सहितो नृपः ।।
उवास वटमूलांते रात्रौ रोगप्रपीडितः ।। ७ ।।
एतस्मिन्नन्तरे कश्चित्पन्नगो मूलसंस्थितः ।।
शब्दं चकार मधुरं श्रुत्वा रुद्राहिराययौ ।। ८ ।।
रुद्राहिं पन्नगः प्राह भवान्निर्दय मन्दधीः ।।
शिवभक्तं नृपमिमं पीडयेत्प्रत्यहं खलः ।। ९ ।।
मूर्खोऽयं भूपतिः साक्षादारनालं पिबेन्नहि ।।
इति श्रुत्वा स रुद्राहिराह रे पन्नगाधम ।। 3.3.7.१० ।।
राज्ञो देहे परं हर्षं प्रत्यहं प्राप्तवानहम् ।।
स्वगेहं दुःखतस्त्याज्यं कथं त्याज्यं मया शठ ।। ११ ।।
मूर्खोत्र भूपतिर्यो वै तैलोष्णं यन्न दत्तवान् ।।
इत्युक्त्वान्तर्गतो देहे श्रुत्वा सा मलना सती ।। १२ ।।
चकार पन्नगोक्तं तद्गतरोगो नृपोऽभवत् ।।
तैलोष्णैर्बिलमापूर्य चखान च सती स्वयम् ।। १३ ।।
ततो जातं स्वयं लिंगमंगुष्ठाभं सनातनम् ।।
ज्योतीरूपं चिदानंदं सर्वलक्ष्मसमन्वितम् ।। १४ ।।
निशीथे तम उद्भूते दिक्षु सूर्यत्वमागतम् ।।
दृष्ट्वा स विस्मितो राजा पूजयामास शंकरम् ।। १५ ।।
महिम्नस्तवपाठैश्च तुष्टाव गिरिजापतिम् ।।
तदा प्रसन्नो भगवान्वरं ब्रूहि तमब्रवीत् ।। १६ ।।
श्रुत्वाह नृपतिर्देवं यदि तुष्टो महेश्वर ।।
श्रीपतिर्मे गृहं प्राप्य वसेन्मत्प्रियकारकः ।। १७ ।।
तथेत्युक्त्वा महादेवो लिंगरूपत्वमागतः ।।
प्रत्यहं भारमेकं च सुवर्णं सुषुवे तनोः ।। १८ ।।
तदा मलस्तु संतुष्टः प्राप्तो गेहं महावतीम् ।।
भीमसिंहेन सहितः परमानंदमाययौ ।। १९ ।।
ततःप्रभृति वर्षांते जयचंद्रपुरीं ययौ ।।
दृष्ट्वा परिमलं राजा कृतकृत्यत्वमागतः ।। 3.3.7.२० ।।
दिष्ट्या ते संक्षितो रोगो दिष्ट्या ते दर्शितं मुखम् ।।
भवान्निजपुरीं प्राप्य सुखी भवतु मा चिरम् ।। २१ ।।
यदा मे विघ्न आभूयात्तदा त्वं मां समाचर ।।
इति श्रुत्वा परिमलो गत्वा स्थानमवासयत् ।। २२ ।।
तदा तु लक्षणो वीरो भगवन्तमुषापतिम् ।।
जगन्नाथमुपागम्य समभ्यर्च्चापरोऽभवत् ।। २३ ।।
पक्षमात्रांतरे विष्णुर्जगन्नाथ उषापतिः ।।
वरं ब्रूहि वचश्चेति लक्षणं प्राह हर्षतः ।। २४ ।।
इत्युक्तः स तु तं देवं नत्वोवाच विनम्रधीः ।।
देहि मे वाहनं दिव्यं सर्वशत्रुविनाशनम् ।। २५ ।।
इति श्रुत्वा जगन्नाथः शक्तिमैरावताद्गजात् ।।
समुत्पाद्य ददौ तस्मै दिव्यामैरावतीं मुदा ।। २६ ।।
आरुह्यैरावतीं राजा लक्षणो गेहमाययौ ।।
स वै परिमलो राजा जगाम च महावतीम् ।। २७ ।।
एतस्मिन्नंतरे वीरास्तालनाद्या मदोत्कटाः ।।
महावतीं पुरीं प्राप्य ददृशुस्तं महीपतिम् ।। २८ ।।
तेन सार्द्धं च महतीं प्रीतिं कृत्वा न्यवासयन् ।।
मासान्ते च पुनस्ते वै राजानो विनयान्विताः ।। २९ ।।
ऊचुस्तं शृणु भूपाल वयं गच्छामहे पुरीः ।।
तदा राजापि तान्प्राह सर्वान्क्षितिपती नथ ।।
दत्त्वाधिकारं पुत्रेभ्यस्तदाऽऽयास्यामि वोऽन्तिकम् ।। 3.3.7.३० ।।
तथेत्युक्तास्तु ते राज्ञा स्वगेहं पुनराययुः ।।
सानुजो देशराजस्तु द्विजेभ्यः स्वपुरं ददौ ।। ३१ ।।
पुत्रेभ्यस्तालनो वीरो ददौ वाराणसीं पुरीम् ।।
अलिकोल्लामतिः कालः पत्र पुष्पोदरी वरी ।। ३२ ।।
करीनरी सुललितस्तेषां नामानि वै क्रमात् ।।
द्वौ द्वौ पुत्रौ स्मृतौ तेषां पितुस्तुल्यपराक्रमौ ।। ३३ ।।
स वै पुत्राज्ञया शूरस्तालनो राक्षसप्रियः ।।
यातुधानमयं देवं तुष्टाव म्लेच्छपूजनैः ।। ३४ ।।
तथा वसुमतः पुत्रौ भूपतीदेशवत्सजौ ।।
शक्रं सूर्य्यं समाराध्य कृतकृत्यौ बभूवतुः ।। ३५ ।।
सिंहिनीनाम वडवां या तु दत्ता भयानका ।।
आरुह्य बलवाञ्छूरो गमनाय मनो दधौ ।। ३६ ।।
पंचशब्दं महानागमिन्द्रदत्तं मनोरमम् ।।
देशराजस्तमारुह्य गमनाय मनो दधे ।। ३७ ।।
ह्यं पपीहकं नाम सूर्यदत्तं नरस्वरम् ।।
वत्सराजस्तमारुह्य गमनाय मनो दधे ।। ३८ ।।
त्रयः शूराः समागम्य नगरीं ते महावतीम् ।।
ऊषुस्तत्र महात्मानो बहुमानेन सत्कृताः ।। ३९ ।।
सेना षष्टिसहस्रं तत्तेषां स्वामी स तालनः ।।
मंत्रिणौ भ्रातरौ तौ च नृपतेश्चन्द्रवंशिनः ।। 3.3.7.४० ।।
तैर्वीरै रक्षितो राजा कृतकृत्यत्वमागतः ।। ४१ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापर पर्याये कलियुगीयेतिहाससमुच्चये सप्तमोऽध्यायः ।। ७ ।।