भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
एकदा रत्नभानुर्हि महीराजेन पालिताम् ।।
दिशं याम्यां स वै जित्वा तेषां कोशानुपाहरत् ।।१।।
महीराजस्तु तच्छुत्वा परं विस्मयमागतः ।।
रत्नभानोश्च तिलको बभूव बहुविस्तरः ।।२।।
तिलका नाम विख्याता या तु वीरवती शुभा ।।
श्रेष्ठा द्वादशराज्ञीनां जननी लक्षणस्य वै ।। ३ ।।
जयचंद्रस्य भूपस्य योषितः षोडशाभवन् ।।
तासां न तनयो ह्यासीत्पूर्वकर्मविपाकतः ।। ४ ।।
गौडभूपस्य दुहिता नाम्ना दिव्यविभावरी ।।
जयचंद्रस्य महिषी तद्दासी सुरभानवी ।। ५ ।।
रूपयौवन संयुक्ता रतिकेलिविशारदा ।।
दृष्ट्वा तां स नृपः कामी बुभुजे स्मरपीडितः ।।६।।
तस्यां जाता सुता देवी नाम्ना संयोगिनी शुभा ।।
द्वादशाब्दवयः प्राप्ता सा बभूव वरांगना ।। ७ ।।
तस्याः स्वयंवरे राजाह्वयद्भूपान्महाशुभान् ।।
भूमिराजस्तु बलवाञ्छ्रुत्वा तद्रूपमुत्तमम् ।। ।।
विवाहार्थे मनश्चासीच्चंद्रभट्टमचोदयत् ।।
मंत्रिप्रवर भो मित्र चंद्रभट्ट मम प्रिय ।। ९ ।।
कान्यकुब्जपुरीं प्राप्य मन्मूर्तिं स्वर्णनिर्मिताम्।। ।।
स्थापय त्वं सभामध्ये यद्वृत्तांतं तु मे वद ।। 3.3.6.१० ।।
इति श्रुत्वा चंद्रभट्टो भवानीभक्तितत्परः ।।
गत्वा तत्र भृगुश्रेष्ठ यथा प्रोक्तस्तथाकरोत् ।। ११ ।।
स्वयंवरे च भूपाश्च नानादेश्याः समागताः ।।
त्यक्त्वा संयोगिनी तान्वै नृपमूर्तिविमोहिता ।। १२ ।।
पितरं प्राह कामाक्षी यस्य मूर्तिरियं नृप ।।
भविष्यति स मे भर्ता सर्वलक्षणलक्षितः ।। १३ ।।
जयचंद्रस्तु तच्छ्रुत्वा चंद्रभद्रमुवाच तम् ।।
यदि ते भूपतिश्चैव सर्वसैन्यसमन्वितः ।। १४ ।।
सञ्जयेद्योगिनीमेतां तर्हि मेऽतिप्रियो भवेत् ।।
चंद्रभट्टस्तु तच्छ्रुत्वा तत्तु सर्वमवर्णयत् ।। १५ ।।
पृथिवीराज एवासौ श्रुत्वा सैन्यमचोदयत् ।।
एकलक्षा गजास्तस्य सप्तलक्षास्तुरंगमाः ।। १६ ।।
रथाः पंचसहस्राश्च धनुर्बाणविशारदाः ।।
लक्षाः पदातयो ज्ञेया द्वादशैव महाबलाः ।। १७ ।।
राजानस्त्रिशतान्येव महीराजपदानुगाः ।।
सार्द्धं द्वाभ्यां च बन्धुभ्यां कान्यकुब्जे नृपोऽगमत् ।। १८ ।।
धुन्धुकारश्च तद्बन्धुर्गजानीकपतिस्सदा ।।
हयानीकपतिः कृष्ण कुमारो बलवत्तरः ।। १९ ।।
पदातीनां नृपतयः पतयस्तत्र चाभवन् ।।
महान्कोलाहलो जातः स्थलीं शून्यामकारयन् ।। 3.3.6.२० ।।
विंशत्कोशप्रमाणेन स्थितं तस्य महाबलम् ।।
जयचंद्रस्तु संज्ञाय महीराजस्य चागमम् ।। २१ ।।
स्वसैन्यं कल्पयामास लक्षषोडशसंमितम् ।।
एकलक्षा गजास्तस्य सप्तलक्षाः पदातयः ।। २२ ।।
वाजिनश्चाष्टलक्षाश्च सर्वयुद्धविशारदाः ।।
द्विशतान्येव राजानः प्राप्तास्तत्र समागमे ।। २३ ।।
आगस्कृतं महीराजं मत्वा ते शुक्लवंशिनः ।।
युद्धार्थिनः स्थितास्तत्र पुरमागस्कृतं ह्यभूत् ।। २४ ।।
ईशनद्याः परे कूले तद्दोला स्थपिता तदा ।।
नाना वाद्यानि रम्याणि तत्र चक्रुर्महारवम् ।। २५ ।।
रत्नभानुर्गजानीके रूपानीके हि लक्षणः ।।
तस्यां सेनापतिभ्यां तौ संगुप्तौ बलवत्तरौ ।। २६ ।।
प्रद्योतश्चैव विद्योतो रत्नभानुं ररक्षतुः ।।
भीष्मः परिमलश्चैव लक्षणं चंद्रवंशजः ।। २७ ।।
भूपाः पदातिसैन्ये च संस्थिता मदविह्वलाः ।।
तयोश्चासीन्महद्युद्धं दारुणं सैन्यसंक्षयम् ।। २८ ।।
हया हयैर्मृता जाता गजाश्चैव गजैस्तथा ।।
पदातयः पदातैश्च मृताश्चान्ये क्रमाद्रणे ।। २९ ।।
भूपैश्च रक्षिताः सर्वे निर्भया रणमाययुः ।।
यावत्सूर्यः स्थितो व्योम्नि तावद्युद्धमवर्तत ।। 3.3.6.३० ।।
एवं पंचदिनं जातं युद्धं वीरजनक्षयम् ।।
गजा दशसहस्रणि हया लक्षाणि संक्षिताः ।। ३१ ।।
पंचलक्षं महीभर्तुर्हतास्तत्र पदातयः ।।
राजानो द्वे शते तत्र रथाश्च त्रिशतं तथा ।। ३२ ।।
कान्यकुब्जाधिपस्यैव गजा नवसहस्रकाः ।।
सहस्रैकं रथा ज्ञेयास्त्रिलक्षं च पदातयः ।। ३३ ।।
एकलक्षं हयास्तत्र मृताः स्वर्गपुरं ययुः ।।
षष्ठाहे समनुप्राप्ते पृथिवीराज एव सः ।। ३४ ।।
दुःखितो मनसा देवं रुद्रं तुष्टाव भक्तिमान् ।।
संतुष्टस्तु महादेवो मोहयामास तद्बलम् ।। ३५ ।।
प्रसन्नस्तु महीराजो गतः संयोगिनीं प्रति ।।
दृष्ट्वा तत्सुन्दरं रूपं मुमोह वसुधाधिपः ।। ३६ ।।
संयोगिनी नृपं दृष्ट्वा मूर्च्छिता चाभवत्क्षणात् ।।
एतस्मिन्नंतरे राजा तद्दोलामनयद्बलात्।। ३७ ।।
जगाम देहलीं भूपः सर्वसैन्यसमन्वितः ।।
योजनान्ते गते तस्मिन्बोधितास्ते मदोद्भटाः ।। ३८ ।।
दृष्ट्वा नैव तदा दोलां प्रजग्मुर्वेगवत्तराः ।।
श्रुत्वा कोलाहलं तेषां महीराजो नृपोत्तमः ।। ३९ ।।
अर्द्धसैन्यं च संस्थाप्य स्वयं गेहमुपागमत् ।।
उभौ तद्भ्रातरौ वीरौ चार्द्धसैन्यसमन्वितौ ।। 3.3.6.४० ।।
सूकरक्षेत्रमासाद्य युद्धाय समुपस्थितौ ।।
एतस्मिन्नन्तरे सर्वे प्रद्योतादिमहाबलाः ।।४१।।
स्वसैन्यैः सह संप्राप्य महद्युद्धमकारयन्।।
हया हयैश्च संजग्मुर्गजा अथ गजैः सह ।। ४२ ।।
संकुलश्च महानासीद्दारुणो लोमहर्षणः ।।
दिनान्ते संक्षयं यातं तयोश्चैव महद्बलम् ।। ४३ ।।
भयभीता परे तत्र ज्ञात्वा रात्रिं तमोवृताम् ।।
प्रदुद्रुवुर्भयाद्वीरा हतशेषास्तु देहलीम् ।।४४ ।।
प्रद्योताद्याश्च ते वीरा देहलीं प्रति संययुः ।।
पुनस्तयोर्महद्युद्धं ह्यभवल्लोमहर्षणम् ।। ४५ ।।
धुंधुकारश्च प्रद्योतं हृदि बाणैरताडयत् ।।
त्रिभिश्च विषनिर्धूतैर्मूछितः स ममार च ।। ४६ ।।
भ्रातरं निहतं दृष्ट्वा विद्योतश्च महावलः ।।
आजगाम गजारूढो धुंधुकारमताडयत् ।। ४७ ।।
त्रिभिश्च तोमरैः सोऽपि मूर्छितो भूमिमागमत् ।।
मूर्छितं भ्रातरं दृष्ट्वा धुंधुकारं महाबलम् ।। ४८ ।।
तदा कृष्णकुमारोऽसौ गजस्थस्त्वरितो ययौ ।।
रूपाविष्टश्च तं वीरं भल्लेनैवमताड यत् ।। ।। ४९ ।।
भल्लेन तेन संभिन्नो मृतः स्वर्गपुरं ययौ ।।
विद्योते निहते तस्मित्सर्वसैन्यचमूपतौ ।। 3.3.6.५० ।।
रत्नाभानुर्महावीरोऽयुध्यत्तेन समन्वितः ।।
एतस्मिन्नंतरे राजा सहस्रगजसंयुतः ।। ५१ ।।
लक्षणं सहितं ताभ्यां क्रुद्धं तं समयुध्यत ।।
शिवदत्तवरो राजा भीष्मं परिमलं रुषा ।। ।। ५२ ।।
रुद्रास्त्रैर्मोहयामास लक्षणं बलवत्तरम् ।।
मूर्छितांस्तान्समालोक्य रत्नभानुः शरैर्निजैः ।। ५३ ।।
धुंधुकारं महीराजं वैष्णवैः सममोजयन् ।।
कृष्णको रत्नभानुश्च युयुधाते परस्परम् ।।५४।।
उभौ समबलौ वीरौ गजपृष्ठस्थितौ रणे ।।
अन्योन्यनिहतौ नागौ खङ्गहस्तौ मही तले ।। ५५ ।।
युयुधाते बहून्मार्गान्कृतवंतौ सुदुर्जयौ ।।
प्रहरान्तं रणं कृत्वा मरणायोपजग्मतुः ।। ५६ ।।
हते तस्मिन्महावीर्ये कान्यकुब्जा भयातुराः ।।
मूर्छितांस्त्रीन्समादाय पंचलक्षबलैर्युताः ।। ५७ ।।
रणं त्यक्त्वा गृहं जग्मुर्नृपशोकपरायणाः ।।
रत्नभानौ च निहते हतोत्साहाश्च भूमिपाः ।। ५८ ।।
स्वंस्वं निवेशनं जग्मुर्महीराजभयातुराः ।।
देवानाराधयामासुर्यथेष्टं ते गृहे गृहे ।। ५९ ।।
महीराजस्तु बलवान्सप्तलक्षबलान्वितः ।।
धुंधुकारेण सहितो वंधुकृत्योर्ध्वमाचरत् ।। 3.3.6.६० ।।
तथा भीष्मः परिमलो लक्षणः पितरं स्वकम्।।
गंगाकूले समागम्य चौर्ध्वदैहिकमाचरन् ।। ६१ ।।
भूमिराजस्य विजयो जयचंदयशो रणे ।।
 प्रसिद्धमभवद्भूमौ गेहेगेहे जनेजने ।।६२।।
जयचंद्रः कान्यकुब्जे देहल्यां पृथिवीपतिः ।।
उत्सवं कारयित्वा तु परमानन्दमाययौ ।। ६३ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षष्ठोऽध्यायः ।। ६ ।।