भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०४
।। सूत उवाच ।। ।।
स्वर्गते भोजराजे तु सप्तभूपास्तदन्वये ।।
जाताश्चाल्पायुषो मन्दास्त्रिशताब्दान्तरे मृताः ।। १ ।।
बहुभूपवती भूमिस्तेषां राज्ये बभूव ह ।।
वीरसिंहश्च यो भूपः सप्तमः संप्रकीर्तितः ।। २ ।।
तदन्वये त्रिभूपाश्च द्विशताब्दान्तरे मृताः ।।
गंगासिंहश्च यो भूपो दशमः स प्रकीर्तितः ।। ३ ।।
कल्पक्षेत्रे च राज्यं स्वं कृतवान्धर्मतो नृपः ।।
अन्तर्वेद्यां कान्यकुब्जे जयचन्द्रो महीपतिः ।। ४ ।।
इंद्रप्रस्थेनंगपालस्तोमरान्वयसंभवः ।।
अन्ये च बहवो भूपा बभूवुर्ग्रामराष्ट्रपाः ।। ५ ।।
अग्निवंशस्य विस्तारो बभूव बलवत्तरः ।।
पूर्वे तु कपिल स्थाने वाहीकान्ते तु पश्चिमे ।। ६ ।।
उत्तरे चीनदेशान्ते सेतुबंधे तु दक्षिणे ।।
षष्टिलक्षाश्च भूपाला ग्रामपा बलवत्तराः ।। ७ ।।
अग्निहोत्रस्य कर्तारो गोब्राह्मणहितैषिणः ।।
बभूवुर्द्वापरसमा धर्मकृत्यविशारदाः ।।८।।
द्वापराख्यसमः कालः सर्वत्र परिवर्तते ।।
गेहेगेहे स्थितं द्रव्यं धर्मश्चैव जनेजने ।।९।।
ग्रामेग्रामे स्थितो देवो देशेदेशे स्थितो मखः ।।
आर्यधर्मकरा म्लेच्छा बभूवुः सर्वतोमुखाः ।।3.3.4.१०।।
इति दृष्ट्वा कलिर्घोरो म्लेच्छया सह भीरुकः ।।
नीलाद्रौ प्राप्य मतिमान्हरिं शरणमाययौ ।।११।।
द्वादशाब्दमिते काले ध्यानयोगपरोऽभवत्।।
ध्यानेन सच्चिदानंदं दृष्ट्वा कृष्णं सनातनम्।।१२।।.
तुष्टाव मनसा तत्र राधया सहितं हरिम् ।।
पुराणमजरं नित्यं वृंदावननिवासिनम् ।।१३।।
।। कलिरुवाच ।। ।।
साष्टांगं दंडवत्स्वामिन्गृहाण मम चेश्वर ।।
.पाहि मां शरणं प्राप्तं चरणे ते कृपानिधे ।। १४ ।।
सर्वपापहरस्त्वं वै सर्वकालकरो हरिः ।।
भवान्गौरः सत्ययुगे त्रेतायां रक्तरूपकः ।। ।। १५ ।।
द्वापरे पीतरूपश्च कृष्णत्वं मम दिष्टके ।।
मत्पुत्राश्च स्मृता म्लेच्छा आर्य्यधर्मत्वमागताः।। १६ ।।
चतुर्गेहं च मे स्वामिन्द्यूतं मद्यं सुवर्ण कम् ।।
स्त्री हास्यं चाग्निवंश्यैश्च क्षत्रियैश्च विनाशितम् ।। १७ ।।
त्यक्तदेहस्त्यक्तकुलस्त्यक्तराष्ट्रो जनार्दन ।।
त्वत्पादांबुजमाधाय स्थितोऽहं शरणं त्वयि ।।१८।।
इति श्रुत्वा स भगवान्कृष्णः प्राह विहस्य तम् ।।
भो कले तव रक्षार्थं जनिष्येहं महावतीम् ।।१९।।
ममांशो भूमिमासाद्य क्षयिष्यति महाबलान् ।।
म्लेच्छवंशस्य भूपालान्स्थापयिष्यति भूतले ।। 3.3.4.२० ।।
इत्युक्त्वा भगवान्साक्षात्तत्रैवान्तरधीयत ।।
कलिस्तु म्लेच्छया सार्धं परमा नंदमाप्तवान् ।। २१ ।।
एतस्मिन्नन्तरे विप्र यथा जातं शृणुष्व तत् ।।
आभीरी वाक्सरे ग्रामे व्रतपा नाम विश्रुता ।। २२ ।।
नवदुर्गाव्रतं श्रेष्ठं? नववर्षं चकार ह ।।
प्रसन्ना चंडिका प्राह वरं वरय शोभने ।। २३ ।।
साह तां यदि मे मातर्वरो देयस्त्वयेश्वरि ।।
रामकृष्णसमौ बालौ भवेयाः ममान्वये ।। २४ ।।
तथेत्युक्त्वा तु सा देवी तत्रैवान्तरधीयत ।।
वसुमान्नाम नृपतिस्तस्या रूपेण मोहितः ।। २५ ।।
उद्वाह्य धर्मतो भूपः स्वगेहे तामवासयत् ।।
तस्यां जातौ नृपात्पुत्रौ देशराजस्तु तद्वरः ।। २६ ।।
आवार्यो वत्सराजश्च शतहस्तिसमो बले ।।
जित्वा तौ मागधान्देशान्राज्य वंतौ बभूवतुः ।। २७ ।।
शतयत्तः स्मृतो म्लेच्छः शूरो वनरसाधिपः ।।
तत्पुत्रो भीमसेनांशो वीरणोभूच्छिवाज्ञया ।। २८ ।।
तालवृक्षप्रमाणेन .चोर्ध्ववेगो हि तस्य वै ।।
तालनो नाम विख्यातः शतयत्तेन वै कृतः ।। २९ ।।
ताभ्यां नृपाभ्यां तद्युद्धमभवल्लोमहर्षणम् ।।
युद्धेन हीनतां प्राप्तस्तालनो बलवत्तरः ।। 3.3.4.३० ।।
तदा मैत्री कृता ताभ्यां तालनेन समन्विता ।।
जयचंद्रपरीक्षार्थे त्रयः शूराः समाययुः ।। ३१ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहासमुच्चये चतुर्थोऽध्यायः ।। ४ ।।