भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

।। ऋषयः ऊचुः ।। ।।
भगवन्विक्रमाख्यानकालोऽयं भवतोदितः ।।
शतद्वादशमर्यादो द्वापरस्य समो भुवि ।। ।। १ ।।
अस्मिन्काले महाभाग लीला भगवता कृता ।।
तामेतां कथयास्मान्वै सर्वज्ञोऽस्ति भवान्सदा ।। २ ।।
।। सूत उवाच ।। ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। ३ ।।
भविष्याख्ये महाकल्पे प्राप्ते वैवस्वतेन्तरे ।।
अष्टाविंशद्द्वापरान्ते कुरुक्षेत्रे रणोऽभवत् ।। ४ ।।
पांडवैर्निर्जिताः सर्वे कौरवाः युद्धदुर्मदाः ।।
अष्टादशे च दिवसे पांडवानां जयोऽभवत् ।। ५ ।।
दिनान्ते भग वान्कृष्णो ज्ञात्वा कालस्य दुर्गतिम् ।।
शिवं तुष्टाव मनसा योगरूपं सनातनम् ।। ६ ।।
।। कृष्ण उवाच ।। ।।
नमः शांताय रुद्राय भूते शाय कपर्दिने।।
कालकर्त्रे जगद्भर्त्रे पापहर्त्रे नमोनमः ।। ७ ।।
पांडवान्रक्ष भगवन्मद्भक्तान्भूतभीरुकान् ।।
इति श्रुत्वा स्तवं रुद्रो नंदियानोपरिस्थितः ।।
रक्षार्थं शिबिराणां च प्राप्तवाञ्छूलहस्तधृक् ।। ८ ।।
तदा नृपाज्ञया कृष्णः स गतो गजसाह्वयम् ।।
पांडवाः पंच निर्गत्य सरस्वत्या स्तटेऽवसन् ।। ९ ।।
निशीथे द्रौणिभोजौ च कृपस्तत्र समाययुः ।।
तुष्टुवुर्मनसा रुद्रं तेभ्यो मार्गं शिवोददात् ।। 3.3.1.१० ।।
अश्वत्थामा तु बलवाञ्छिवदत्तमसिं तदा ।।
गृहीत्वा स जघानाशु धृष्टद्युम्नपुरःसरान् ।। ११ ।।
हत्वा यथेष्टमगमद्द्रौणिस्ताभ्यां समन्वितः ।। १२ ।।
पार्षतस्यैव सूतश्च हतशेषो भयातुरः ।।
पांडवान्वर्णयामास यथा जातो जनक्षयः ।। १३ ।।
आगस्कृतं शिवं ज्ञात्वा भीमाद्याः क्रोधमूर्च्छिताः ।।
स्वायुधैस्ता डयामास देवदेवं पिनाकिनम् ।। १४ ।।
अस्त्रशस्त्राणि तेषां तु शिवदेहे समाविशन् ।।
दृष्ट्वा ते विस्मिताः सर्वे प्रजघ्नुस्तलमुष्टिभिः ।। १५।।
ताञ्छशाप तदा रुद्रो यूयं कृष्णप्रपूजकाः ।।
अतोऽस्माभी रक्षिणीया वधयोग्याश्च वै भुवि ।। १६ ।।
पुनर्जन्म कलौ प्राप्य भोक्ष्यते चापराधकम् ।।
इत्युक्त्वान्तर्दधे देवः पांडवा दुःखितास्तदा ।। १७ ।।
हरिं शरणमाजग्मुरपराधनिवृत्तये ।।
तदा कृष्णयुताः सर्वे पांडवाः शस्त्रवर्जिताः ।। १८ ।।
तुष्टुवुर्मनसा रुद्रं तदा प्रादुरभूच्छिवः ।।
वरं वरयत प्राह कृष्णः श्रुत्वाब्रवीदिदम् ।। १९ ।।
शस्त्राण्यस्त्राणि यान्येव त्वदंगे क्षपितानि वै।।
पांडवेभ्यश्च देहि त्वं शापस्यानुग्रहं कुरु ।। 3.3.1.२० ।।
इति श्रुत्वा शिवः प्राह कृष्णदेव नमोऽस्तु ते ।।
अपराधो न मे स्वामिन्मोहितोऽहं तवाज्ञया ।। २१ ।।
तद्वशेन मया स्वामिन्दत्तः शापो भयंकरः ।।
नान्यथा वचनं मे स्यादंशावतरणं भवेत् ।। २२ ।।
वत्सराजस्य पुत्रत्वं गमिष्यति युधिष्ठिरः ।।
बलखानिरिति ख्यातः शिरीषाख्यपुराधिपः ।। २३ ।।
भीमो दुर्वचनाद्दुष्टो म्लेच्छयोनौ भविष्यति ।।
वीरणो नाम विख्यातः स वै वनरसाधिपः ।। २४ ।।
अर्जुनांशश्च मद्भक्तो जनिष्यति महामतिः ।।
पुत्रः परिमलस्यैव ब्रह्मानन्द इति स्मृतः।।२५।।
कान्यकुब्जे हि नकुलो भविष्यति महाबलः।।
रत्नभानुसुतो सौ वै लक्ष्मणो नाम विश्रुतः।।२६।।
सहदेवस्तु वलवाञ्जनिष्यति महामतिः।।
भीष्मसिंह सुतो जातो देवसिंह इति स्मृतः ।।२७।।
धृतराष्ट्रांश एवासौ जनिष्यत्यजमेरके ।।
पृथिवीराज इति स द्रोपदी तत्सुता स्मृता ।।२८।।
वेला नाम्ना च विख्याता तारकः कर्ण एव हि ।।
रक्तबीजस्तथा रुद्रो भविष्यति महीतले ।।२९।।
कौरवाश्च भविष्यन्ति मायायुद्धविशारदाः।।
पांडुपक्षाश्च ते सर्वे धर्मिणो बलशालिनः ।।3.3.1.३०।।
।। सूत उवाच ।। ।।
इति श्रुत्वा हरिः प्राह विहस्य परमेश्वरम् ।।
मया शक्त्यवतारेण रक्षणीया हि पांडवाः ।।३१।।
महावती पुरी रम्या मायादेवीविनिर्मिता ।।
देशराजसुतस्तत्र ममांशो हि जनिष्यते ।। ३२ ।।
देवकीजठरे जन्मोदयसिंह इति स्मृतः ।।
आह्लादो मम धामांशो जनिष्यति गुरुर्मम ।। ३३ ।।
हत्वाग्निवंशजान्भूपान्स्थापयिष्यामि वै कलिम् ।।
इति श्रुत्वा शिवो देवस्तत्रैवांतरधीयत ।। ३४ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये विक्रमाख्यानकाले प्रथमोऽध्यायः ।। १ ।।