भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
तोतादर्यां द्विजः कश्चिद्बोपदेव इति श्रुतः ।।
बभूव कृष्णभक्तश्च वेदवेदांगपारगः ।। १ ।।
गत्वा वृन्दावनं रम्यं गोपगोपीनिषेवितम् ।।
मनसा पूजयामास देवदेवं जनार्द्दनम् ।। २ ।।
वर्षान्ते च हरिः साक्षाद्ददौ ज्ञानमनुत्तमम् ।।
तेन ज्ञानेन संप्राप्ता हृदि भागवती कथा ।। ३ ।।
शुकेन वर्णिता या वै विष्णुराताय धीमते ।।
तां कथां वर्णयामास मोक्षमूर्तिं सनातनीम् ।। ४ ।।
कथान्ते भगवान्विष्णुः प्रादुरासीज्जनार्दनः ।।
उवाच स्निग्धया वाचा वरं ब्रूहि महामते ।। ५ ।।
।। बोपदेव उवाच ।। ।।
नमस्ते भगवन्विष्णो लोकानुग्रहकारक ।।
त्वया ततमिदं विश्वं देवतिर्यङ्नरादिकम् ।। ६ ।।
त्वन्नाम्ना नरकार्ताश्च ते कृतार्थाः कलौ युगे ।।
त्वया दत्तं भागवतं श्रीम द्व्यासेन निर्मितम् ।।
माहात्म्यं तस्य मे ब्रूहि यदि दत्तो वरस्त्वया ।। ७ ।।
।। श्रीभगवानुवाच ।। ।।
एकदा भगवान्रुद्रो भवान्या सह शंकरः ।। ८ ।।
बौद्धराज्ये जगत्प्राप्ते दंभपाखण्डनिर्मिते ।।
दृष्ट्वा काश्यां भूमितुंगं प्रणनाम मुदा युतः ।।
जय सच्चिदानन्द विभो जगदानं दकारक ।। ९ ।।
इति श्रुत्वा शिवा प्राह को देवोऽस्ति तवोत्तमः ।।
स होवाच महादेवि यज्ञः सप्ताहमत्र वै ।। 3.2.32.१० ।।
तस्माद्भूमिपवित्रत्वमिह प्राप्तं वरानने ।।
सर्वतीर्थाधिकत्वं च स्वयं ब्रह्म सनातनम् ।। ११ ।।
इति श्रुत्वा शिवा देवी प्राप्तासीद्गुह्यकालयम् ।।
रुद्रेण सहिता तत्र भूमिशुद्धिमकारयत् ।। १२ ।।
चण्डीशश्च गणेशश्च नंदिनो गुह एव च ।।
रक्षार्थे स्थापितास्तत्र देवदेवेन भो द्विज ।। १३ ।।
शृणु देवि कथां रम्यां मम मानससंस्थिताम् ।।
इत्युक्त्वा ध्यानमास्थाय सप्ताहेन स्ववर्णयत् ।। १४ ।।
अष्टाहे नेत्र उन्मील्य दृष्ट्वा निद्रागतां शिवाम् ।।
बोधयामास भगवान्कथांते लोकशंकरः ।। १५ ।।
कियती ते श्रुता गाथा श्रुत्वाह जगदंबिका ।।
सुधामंथनपर्यंतं चरित्रं शिवयेरितम् ।। १६ ।।
कोटरस्थः शुकः श्रुत्वा चिरंजीवत्वमागतः ।।
पार्वत्या रक्षितोसौ वै शुकः परमसुन्दरः ।। १७ ।।
स्थित्वा शिवस्य सदने मम ध्यानपरोऽभवत् ।।
ममाज्ञया शुकः साक्षात्त्वदीयहृदयस्थितः ।। १८ ।।
तेन प्राप्तं भागवतं माहात्म्यं चास्य दुर्लभम् ।।
त्वं वै गंधर्वसेनाय पित्रे विक्रमभूपतेः ।। १९ ।।
नर्मदाकूलमासाद्य श्रावयस्व कथां शुभाम् ।।
हरिमाहात्म्यदानं हि सर्वदानपरं स्मृतम् ।। 3.2.32.२० ।।
सत्पात्राय प्रदातव्यं विष्णुभक्ताय धीमते ।।
बुभुक्षितान्नदानं च तद्दानस्य समं न हि ।। २१ ।।
इत्युक्त्वांतर्दधे देवो बोपदेवः प्रसन्नधीः ।। २२ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।