भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
तापत्रयहरं विष्णोश्चरितं तस्य ते शिवम् ।।
शृण्वंति सुधियो नित्यं ते वसंति हरेः पदम् ।। ।। १ ।।
प्रतिकूले हरौ तस्मिन्यास्यन्ति निरयान्बहून् ।।
तत्प्रिया कमला देवी चत्वारस्तस्य चात्मजाः ।। २ ।।
धर्मो यज्ञो नृपश्चौरः सर्वे लक्ष्मीप्रियंकराः ।।
विप्रेभ्यश्चातिथिभ्यश्च यद्दानं धर्म उच्यते।।३ ।।
मातृभ्यो देवताभ्यश्च स्वधा स्वाहेति वै मखः ।।
धर्मस्यैव मखस्यैव रक्षको नृपतिः स्मृतः ।। ४ ।।
द्वयोर्हन्ता हि चोरः स ते सर्वे धर्मकिंकराः ।।
यत्र सत्यं ततो धर्मस्तत्र लक्ष्मीः स्थिरा भवेत् ।।५।।
सत्यहीनस्य तत्साधोर्धनं यत्तद्ग्रहे स्थितम् ।।
हृतवानवनीपालः चौरैर्भार्यातिदुःखिता ।। ६ ।।
वासोलंकरणादीनि विक्रीय बुभुजे किल ।।
नास्ति तत्पच्यते किंचित्तदा कष्टमगाहत ।। ७ ।।
अथैकस्मिन्दिने कन्या भोजनाच्छादनं विना ।।
गता विप्रगृहेऽपश्यत्सत्यनारायणार्चनम् ।। ८ ।।
प्रार्थयंतं जगन्नाथं दृष्ट्वा सा प्रार्थयद्धरिम् ।।
सत्यनारायण हरे पिता भर्ता च मे गृहम् ।।९।।
आगच्छत्वर्चयिष्यामि भवंतमिति वाचये ।।
तथास्तु ब्राह्मणैरुक्ता ततः सा त्वाश्रमं ययौ ।। 3.2.29.१० ।।
मात्रा निर्भर्त्सितेयंतं कालं कुत्र स्थिता शुभे ।।
वृत्तांतं कथयामास सत्यनारायणार्चने ।। ११ ।।
कलौ प्रत्यक्ष फलदः सर्वदा क्रियते नरैः ।।
कर्तुमिच्छाम्यहं मातरनुज्ञातुं त्वमर्हसि ।। १२ ।।
देशमायातु जनकः स्वामी च मम कामना ।।
रात्रौ निश्चित्य मनसा प्रभाते सा कलावती ।। १३ ।।
शीलपालस्य गुप्तस्य गेहे प्राप्ता धनार्थिनी ।।
बंधो किंचिद्धनं देहि येन सत्यार्चनं भवेत् ।। १४ ।।
इति श्रुत्वा शीलपालः पंचनिष्कं धनं ददौ ।।
त्वत्पितुश्च ऋणं शेषं मयीत्येव कलावति ।। १५ ।।
इत्युक्त्वा सोऽनृणो भूत्वा गयाश्राद्धाय संययौ ।।
सुतापि तेन द्रव्येण कृतं सत्यार्चनं शुभम् ।। १६ ।।
लीलावती सह तया भक्त्याकार्षीत्प्रपूजनम्।।
पूजनेन विशेषेण तुष्टो नारायणोऽभवत्।।१७।।
नर्मदातीरनगरे नृपः सुष्वाप मंदिरे ।।
रात्रिशेषे सुपर्यंके निद्रां कुर्वति राजनि ।।
उवाच विप्ररूपेण बोधयञ्छ्लक्ष्णया गिरा ।। १८ ।।
उत्तिष्ठोत्तिष्ठ राजेन्द्र तौ साधू परिमोचय ।।
अपराधं विना बद्धौ नो चेच्छं न भवेत्तव ।। १९ ।।
इत्येवं भूपतिश्चैव विप्ररूपेण बोधितः ।।
तदा ह्यन्तर्दधे विष्णु र्विनिद्रो नृपतिस्तदा ।। 3.2.29.२० ।।
विस्मितः सहसोत्थाय दध्यौ ब्रह्म सनातनम् ।।
सभायां मंत्रिणे राजा स्वप्नहेतुं न्यवेदयत् ।। २१ ।।
महामन्त्री च भूपालं प्राह सत्येन भो द्विज ।।
मयापि दर्शितं स्वप्नं वृद्धविप्रेण बोधितम् ।।
अतस्तौ हि समानीय संपृच्छ विधिवन्नृप ।। २२ ।।
आनीय साधुं पप्रच्छ सत्यमालंब्य भूपतिः ।।
कुत्रत्यौ वां कुलं किं वा वसतिः कस्य वा पुरे ।। २३ ।।
।। साधुरुवाच ।। ।।
रम्ये रत्नपुरे वासो वणिग्जातौ जनिर्मम ।।
वाणिज्यार्थं महाराज वाणिज्यं जीविकावयोः ।। २४ ।।
मणिमुक्तादि विक्रेतुं क्रेतुं वा तव पत्तने ।।
प्राप्तौ दूतैश्च बद्ध्वावां त्वत्समीपमुपागतौ ।। २५ ।।
प्रतिकूले विधौ को वा दशां नाप्नोति वै पुमान् ।।
विनापराधं राजेन्द्र मणिचौरानवादयन् ।। २६ ।।
आवां न चौरो राजेंद्र तत्त्वतस्त्वं विचारय ।।
श्रुत्वा तन्निश्चयं ज्ञात्वा तयोर्बंधनकारणम् ।। २७ ।।
छेदयित्वा दृढं पाशं लोमशातिमकारयत् ।।
कारयित्वा परिष्कारं भोजयामास तौ नृपः ।। २८ ।।
नगरे पूजयामास वस्त्राभूषणवाहनैः ।।
अब्रवीत्पूजितः साधुर्भूपतिं विनयान्वितः ।। २९ ।।
कारागारे बहुविधं प्राप्तं दुःखमतः परम् ।।
आज्ञापय महाराज देशं गंतुं कृपानिधे ।। 3.2.29.३० ।।
श्रुत्वा साधुवचो राजा प्राह कोशाधिकारिणम् ।।
मुद्राभिस्तरणीः सद्यः पूरयाशु मदाज्ञया ।। ३१ ।।
जामात्रा सहितः साधुर्गीतवादित्रमंगलैः ।।
स्वदेशं चलितोऽद्यापि न चक्रे हरिसेवनम्।। ३२ ।।
सत्यनारायणो देवः प्रत्यक्षफलदः कलौ ।।
स एव तापसो भूत्वा चक्रे साधुविडंबनम् ।। ३३ ।।
।। तापस उवाच ।। ।।
धर्मः किं नौषु ते साधो मामनादृत्य यासि भोः ।।
प्रत्युत्तरमदात्साधुः क्षिप नौकाश्च सत्वरम् ।। ३४ ।।
भोः स्वामिन्मे धनं नास्ति लतापत्रादिपूरितम् ।।
नौभिर्गच्छामि स्वस्थानं विरोधे नात्र किं फलम् ।। ३५ ।।
इत्युक्तस्तापसः प्राह तथास्त्विति वचः क्षणात् ।।
धनमंतर्दधे साधोर्लतापत्रावशेषितम् ।। ३६ ।।
धनं नौकासु नास्तीति साधुश्चिंतातुरोऽभवत् ।।
किमिदं कस्य वा हेतोर्धनं कुत्र गतं मम ।। ३७ ।।
वज्रपाताहत इव भृशं दुःखितमानसः ।।
क्व यास्यामि क्व तिष्ठामि किं करोमि धनं कुतः ।। ३८ ।।
इति मूर्छागतः साधुर्विललाप पुनःपुनः ।।
जामात्रा बोधितः पश्चात्तापसं तं जगाम ह ।। ३९ ।।
गले वसनमादाय प्रणनाम स तापसम् ।।
को भवानिति पप्रच्छ देवो गंधर्व ईश्वरः।।3.2.29.४०।।
देवदेवोऽथवा कोऽपि न जाने तव विक्रमम् ।।
आज्ञापय महाभाग तद्विडम्बनकारणम् ।। ४१ ।।
।। तापस उवाच ।। ।।
आत्मा चैवात्मनः शत्रुस्तथात्र च प्रियोऽप्रियः ।।
त्यज मौढ्यमति साधो प्रवादं मा वृथा कृथाः ।।४२।।
इति विज्ञापितः साधुर्न बुबोध महाधनः ।।
पुनः स तापसः प्राह कृपया पूर्वकर्मतः।।४३।।
चंद्रचूडो यदानर्च सत्यनारायणं नृपः ।।
अनपत्येन सुचिरं पुत्रकन्यार्थिना त्वया ।। ४४ ।।
प्रार्थितं न स्मृतं ह्येव इदानीं तप्यसे वृथा ।।
सत्यनारायणो देवो विश्वव्यापी फलप्रदः ।।४५।।
तमनादृत्य दुर्बुद्धे कुतः सम्यग्भवेत्तव ।।
पुरालब्धवरं स्मृत्वा सस्मार जगदीश्वरम् ।। ४६ ।।
सत्यनारायणं देवं तापसं तं ददर्श ह ।।
प्रणम्य भुवि कायेन परिक्रम्य पुनःपुनः ।।
तुष्टाव तापसं तत्र साधुर्गद्गदया गिरा ।। ४७ ।।
।। साधुरुवाच ।। ।।
सत्यरूपं सत्यसंधं सत्यनारायणं हरिम् ।।
यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ।। ४८ ।।
त्वन्मायामोहितात्मानो न पश्यंत्यात्मनः शुभम् ।।
दुःखांभोधौ सदा मग्ना दुःखे च सुखमानिनः ।। ४९ ।।
मूढोहं धनगर्वेण मदांधीकृतलोचनः ।।
न जाने स्वात्मनः क्षेमं कथं पश्यामि मूढधीः ।। 3.2.29.५० ।।
क्षमस्व मम दौरात्म्यं तपो धाम्ने हरे नमः।।
आज्ञापयात्मदास्यं मे येन ते चरणौ स्मरे ।। ५१ ।।
इति स्तुत्वा लक्षमुद्राः स्थापिताः स्वपुरोधसि ।।
गत्वावासं पूजयिष्ये सत्यनारायणं प्रभुम् ।।५२।।
तुष्टो नारायणः प्राह वांछा पूर्णा भवेत्तु ते ।।
पुत्रपौत्रसमायुक्तो भुक्त्वा भोगांस्त्वनुत्तमान् ।।
अंते सांनिध्यमासाद्य मोदसे त्वं मया सह ।।५३।।
इत्युक्त्वान्तर्दधे विष्णुः साधुश्च स्वाश्रमं ययौ ।।
सप्ताहेन गृहं प्राप्तः सत्यदेवेन रक्षितः ।। ५४ ।।
आगत्य नगराभ्याशे प्राहि णोद्द्रुतमाश्रमम् ।।
गृहमागत्य दूतोपि प्राह लीलावतीं प्रति ।। ५५ ।।
जामात्रा सहितः साधुः कृतकृत्यः समागतः ।।
सत्यनारायणार्चायां स्थिता साध्वी सकन्यका ।। ५६ ।।
पूजाभारं सुतायै सा दत्त्वा नौकांतिकं ययौ ।।
सखीगणैः परिवृता कृतकौतुकमंगला ।। ५७ ।।
कलावती त्ववज्ञाय प्रसादं सत्वरा ययौ ।।
पातुं पतिमुखांभोजं चकोरीव दिनात्यये ।। ५८ ।।
अवज्ञानात्प्रसादस्य नौकाशंखपतेरथ ।।
निमग्ना जलमध्ये तु जामात्रा सह तत्क्षणात् ।। ५९ ।।
मग्नं जामातरं पश्यन्विललाप स मूर्च्छितः ।।
लीलावती तु तद्दृष्ट्वा मूर्च्छिता विललाप ह ।। 3.2.29.६० ।।
ततः कलावती दृष्ट्वा पपात भुवि मूर्च्छिता ।।
रंभेव वातविहता कान्तकान्तेतिवादिनी ।। ६१ ।।
हा नाथ प्रिय धर्मज्ञ करुणाकरकौशल ।।
त्वया विरहिता पत्या निराशा विधिना कृता ।।
पत्युरर्द्धं गतं कस्मादर्द्धांगं जीवनं कथम्।। ६२ ।।
।। सूत उवाच ।। ।।
कलावती चारुकलासु कौशला प्रवालरक्तांघ्रितलातिकोमला ।।
सरोजनेत्रांबुकणान्विमुंचती मुक्तावलीभिस्तनकुड्मलांचिता ।। ६३ ।।
हा सत्यनारायण सत्यसिंधो मग्नं हि मामु द्धर तद्वियोगे ।।
श्रुत्वार्तशब्दं भगवानुवाच वचस्तदाकाशसमुद्भवं च ।। ६४ ।।
साधो कलावती क्षिप्रं मत्प्रसादं हि भोजयेत् ।।
तत्पश्चादिह संप्राप्य पतिं प्राप्स्यति मा शुचः ।। ६५ ।।
इत्याकाशे वचः श्रुत्वा विस्मिता तच्चकार सा ।।
नारायणस्य कृपया पतिं प्राप्ता कलावती ।। ६६ ।।
तत्रैव साधुः साह्लादो भक्त्या परमया युतः ।।
पूजनं लक्षमुद्राभिः सत्यदेवस्य चाकरोत् ।। ६७ ।।
तेन व्रतप्रभावेन पुत्रपौत्रसमन्वितः ।।
भुक्त्वा भोगान्मुदा युक्तो मृतः स्वर्गपुरं ययौ ।। ६८ ।।
इतिहासमिमं भक्त्या शृणुयाद्यो हि मानवः ।।
सोऽपि विष्णुप्रियतरः कामसिद्धिमवाप्नुयात् ।। ।। ६९ ।।
इति ते कथितं विप्र व्रतानामुत्तमं व्रत।।
कलिकाले परं पुण्यं ब्राह्मणस्य मुखोद्भवम् ।। 3.2.29.७० ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सत्यनारायणव्रतमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः।।२९।।