भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
अथ ते वर्णयिष्यामि कथां साधूपचारिताम् ।।
नृपोपदेशतः साधुः कृतार्थोऽभूद्वणिग्यथा।। ।। १ ।।
मणिपूरपती राजा चन्द्रचूडो महायशाः ।।
सह प्रजाभिरानर्च सत्यनारायणं प्रभुम् ।। २ ।।
अथ रत्नपुरस्थायी साधुर्लक्षपतिर्वणिक् ।।
धनैरापूर्य तरणीः सह गच्छन्नदीतटे ।। ३ ।।
ददर्श बहुलं लोकं नानाग्रामविलासिनम् ।।
मणिमुक्ताविरचितैर्वितानैस्समलंकृतम् ।। ४ ।।
वेदवादांश्च शुश्राव गीतवादित्रसंगतान् ।।
रम्यं स्थानं समालोक्य कर्णधारं समादिशत् ।। ५ ।।
विश्रामयात्र तरणीरिति पश्यामि कौतुकम् ।।
भर्त्रादिष्टस्तथा चक्रे कर्णधारः सभृत्यकैः ।। ६ ।।
तटसीम्नः समुत्तीर्य मल्ललीलाविलासिनः ।।
कर्णधारा नगा वीरा युयुधुर्मल्ललीलया ।। ७ ।।
स्वयमुत्तीर्य सामात्यो लोकान्पप्रच्छ सादरम् ।।
यज्ञस्थानं समालोक्य प्रशस्तं समुदो ययौ ।।८।।
किमत्र क्रियते सभ्या भवद्भिर्लोकपूजितैः ।।
सभ्या ऊचुश्च ते सर्वे सत्यनारायणो विभुः ।। ९ ।।
पूज्यते बंधुभिः सार्धं राज्ञा लोकानुकंपिना ।।
प्राप्तं निष्कटकं राज्यं सत्यनारायणार्चनात् ।। 3.2.28.१० ।।
धनार्थी लभते द्रव्यं पुत्रार्थी सुतमुत्तमम् ।।
ज्ञानार्थी लभते चक्षुर्निर्भयः स्याद्भयातुरः ।। ११ ।।
सर्वान्कामानवाप्नोति नरः सत्यसुरार्च नात् ।।
विधानं तु ततः श्रुत्वा चैलं बद्ध्वा गलेऽसकृत् ।। १२ ।।
दंडवत्प्रणिपत्याह कामं सभ्यानमोदयत् ।।
अनपत्योऽस्मि भगवन्वृथैश्वर्यो वृथोद्यमः ।। १३ ।।
पुत्रं वा यदि वा कन्यां लभेयं त्वत्प्रसादतः ।।
पताकां कांचनीं कृत्वा पूजयिष्ये कृपानिधिम् ।। १४ ।।
श्रुत्वा सभ्या अब्रुवंस्ते कामनासिद्धिरस्तु ते ।।
हरिं प्रणम्य सभ्याश्च प्रसादं भुक्तवांस्तदा ।। १५ ।।
जगाम स्वालयं साधुर्मनसा चिंतयन्हरिम्।।
स्वगृहे ह्यागते तस्मिन्नार्यो मंगलपाणयः ।। १६ ।।
मंगलानि विचित्राणि यथोचितमकारयन् ।।
विवेशांतःपुरे साधुर्महाकौतुकमंगलः ।। १७ ।।
ऋतुस्नाता सती लीलावती पर्यचरत्पतिम् ।।
गर्भं धृतवती साध्वी समये सुषुवे तु सा ।। १८ ।।
कन्यां कमललोलाक्षीं बांधवामोदकारिणीम् ।।
साधुः परां मुदं लेभे विततार धनं बहु ।। १९ ।।
विप्रानाहूय वेदज्ञान्कारयामास मंगलम् ।।
लेखयित्वा जन्मपत्रीं नाम चक्रे कलावतीम् ।। 3.2.28.२० ।।
कलानिधिकले वासौ ववृधे सा कलावती ।।
अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ।। २१ ।।
दशवर्षा भवेत्कन्या ततः प्रौढा रजस्वला ।।
प्रौढां कालेन तां दृष्ट्वा विवाहार्थमचिन्तयत् ।। २२ ।।
नगरे कांचनपुरे वणिक्छंखपतिः श्रुतः ।।
कुलीनो रूपसंपत्तिशीलौदार्यगुणान्वितः ।। २३ ।।
वरयामास तं साधुर्दुहितुः सदृशं वरम् ।।
शुभे लग्ने बहुविधैर्मंगलैरग्निसन्निधौ ।।२४।।
वेदवादित्रनिनदैर्ददौ कन्यां यथाविधि ।।
मणिमुक्ताप्रवालानि वसनं भूषणानि च ।। २५ ।।
महामोदमनाः साधुर्मंगलार्थं ददौ च ह ।।
प्रेम्णा निवासयामास गृहे जामातरं ततः ।। २६ ।।
तं मेने पुत्रवत्साधुः स च तं पितृवत्सुधीः ।।
अतीते भूयसः काले सत्यनारायणार्चनम् ।। २७ ।।
विस्मृत्य सह जामात्रा वाणिज्याय ययौ पुनः ।।
।। सूत उवाच ।। ।।
अथ साधुः समादाय रत्नानि विविधानि च ।। २८ ।।
नौकाः संस्थाप्य स ययौ देशाद्देशान्तरं प्रति ।।
नगरं नर्मदातीरे तत्र वासं चकार सः ।।२९।।
कुर्वन्क्रयं विक्रयं च चिरं तस्थौ महामनाः ।।
कर्मणा मनसा वाचा न कृतं सत्यसेवनम् ।। 3.2.28.३० ।।
ततः कर्मविपाकेन तापमापाचिराद्वणिक् ।।
कस्मिंश्चिद्दिवसे रात्रौ राज्ञो गेहे तमोवृते:।। ३१ ।।
ज्ञात्वा निद्रागतान्सर्वान्हृतं चौरैर्महाधनम् ।।
प्रभाते वाचितो राजा सूतमागधबंदिभिः ।। ।। ३२ ।।
प्रातःकृत्यं नृपः कृत्वा सदः संप्राविशच्च सः ।।
ततस्तत्र समायातः किंकरो राजवल्लभः ।। ३३ ।।
उवाच स तदा वाक्यं शृणुष्व त्वं धरा पते ।।
मुक्तामालाश्च बहुधा रत्नानि विविधानि च ।। ३४ ।।
मुमुषुश्चौरा गतास्सर्वे न जानीमो वयं नृप ।।
इति विज्ञापितो राजा पुण्यश्लोक शिखामणिः ।। ३५ ।।
उवाच क्रोधताम्राक्षो यूयं संयात मा चिरम् ।।
सचौरं द्रव्यमादाय मत्पार्श्वं त्वमुपानय ।। ३६ ।।
नो चेद्धनिष्ये सगणानिति दूतान्समादिशत् ।।
नृपवाक्यं समाकर्ण्य प्रजग्मुस्ते च किंकराः ।। ३७ ।।
बहुयत्नैर्न संशोध्य द्रव्यं चोरसमन्वितम् ।।
एकीभूत्वा निशि तदा महाचिंतातुरोऽभवत् ।। ३८ ।।
हन्ता मां सगणं राजा किं करोमि कुतः सुखम् ।।
नृपदंडाच्च मे मृत्युः प्रेतत्वाय भवेदिह ।। ३९ ।।
नर्मदायां च मरणं शिवलोकप्रदायकम् ।।
इत्येवं संमतं कृत्वा नर्मदायास्तटं ययुः ।। 3.2.28.४० ।।
विदेशिनोऽस्य वणिजो ददर्श विपुलं धनम् ।।
मुक्ताहारं गले तस्य लुंठितं वणिजोऽस्य च ।। ४१ ।।
चौरोऽयमिति निश्चित्य तौ बबंधात्मरक्षणात् ।।
सधनं सह जामात्रा नृपान्तिकमुपानयत् ।। ४२ ।।
प्रतिकूले हरौ तस्मिन्राज्ञापि न विचारितम् ।।
धनागारे धनं नीत्वा बध्नीत तौ सुदुर्मती ।। ४३ ।।
कारागारे लोहमयैः शृंखलैरंगपादयोः ।।
इति राजाज्ञया दूतास्तथा चक्रुर्निबंधनम् ।। ४४ ।।
जामात्रा सहितः साधुर्विललाप भृशं मुहुः ।।
हा पुत्र तात तातेति जामातः क्व धनं गतम् ।। ४५ ।।
क्व स्थिता च सुता भार्या पश्य धातुर्विपर्ययम् ।।
निमग्नौ दुःखजलधौ को वां पास्यति संकटात् ।। ४६ ।।
मया बहुतरं धातुर्विप्रियं हि पुराकृतम् ।।
तत्कर्मणः प्रभावोऽयं न जाने कस्य वा फलम् ।। ४७ ।।
समं श्वशुरजामात्रौ द्वादशेषु विषादिनौ ।। ४८ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टाविंशो ऽध्यायः ।। २८ ।।