भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search

।। व्यास उवाच ।। ।।
एकदा नैमिषारण्ये ऋषयः शौनकादयः ।।
पृच्छन्ति विनयेनैव सूतं पौराणिकं खलु ।। १ ।।
भगवन्ब्रूहि लोकानां हितार्थाय चतुर्युगे ।।
कः पूज्यः सेवितव्यश्च वांच्छितार्थप्रदायकः ।।२।।
विनायासेन वै कामं प्राप्नुयुर्मानवाः शुभम् ।।
सत्यं ब्रह्मन्वदोपायं नराणां कीर्तिकारकम् ।।३।।
।। सूत उवाच ।। ।।
नवांभोजनेत्रं रमाकेलिपात्रं चतु्र्बाहुचामीकराचारुगात्रम् ।।
जगत्त्राणहेतुं रिपौ धूम्रकेतुं सदा सत्यनारायणं स्तौमि देवम् ।। ४ ।।
श्रीरामं सहलक्ष्मणं सकरुणं सीतान्वितं
सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्यसंहारकम् ।।
वन्दे वन्द्यपदांबुजं सुरवरं भक्तानुकम्पाकरं
शत्रुघ्नेन हनूमता च भरतेनासेवितं राघवम् ।। ५ ।।
कलिकलुषविनाशं कामसिद्धिप्रकाशं सुरवरमुखभासं भूसुरेण प्रकाशम् ।।
विबुधबुधविलासं साधुचर्याविशेषं नृप तिवरचरित्रं भोः शृणुष्वेतिहासम् ।। ६ ।।
एकदा नारदो योगी परानुग्रहवांच्छया ।।
पर्यटन्विविधाँल्लोकान्मर्त्यलोकमुपागमत् ।। ७ ।।
तत्र दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान् ।।
आधिव्याधियुतानार्तान्पच्यमानान्स्वकर्मभिः ।। ८ ।।
केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम्।।
इति सञ्चिंत्य मनसा विष्णुलोकं गतस्तदा ।। ९ ।।
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् ।।
शंखचक्रगदापद्मवनमालाविभूषितम् ।। 3.2.24.१० ।।
प्रसन्नवदनं शांतं सनकाद्यैरभिष्टुतम् ।।
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।। ११ ।।
।। नारद उवाच ।। ।।
नमो वाङ्मनसातीतरूपायानंतशक्तये ।।
नादि मध्यान्तदेवाय निर्गुणाय महात्मने ।। १२ ।।
सर्वेषामादिभूताय लोकानामुपकारिणे ।।
अपारपरिमाणाय तपोधाम्ने नमोनमः ।। १३ ।। ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा स्तुतिं विष्णुर्नारदं प्रत्यभाषत ।।
किमर्थमागतोऽसि त्वं कि ते मनसि वर्तते ।।१४।।
कथयस्व महाभाग तत्सर्वं कथयामि ते ।।
श्रुत्वा तु नारदो विष्णुमुक्तवान्सर्वकारणम् ।। १५ ।।
नारदस्य वचः श्रुत्वा साधुसाध्वित्यपूजयत् ।।
शृणु नारद वक्ष्यामि व्रतमेकं सनातनम्।।१६।।
कृते त्रेतायुगे विष्णुर्द्वापरेऽनेकरूपधृक् ।।
कलौ प्रत्यक्षफलदः सत्यनारायणो विभुः ।। १७ ।।
चतुष्पादो हि धर्मश्च तस्य सत्यं प्रसाधनम् ।।
सत्येन धार्यते लोकः सत्ये ब्रह्म प्रतिष्ठितम् ।। १८ ।।
सत्यनारायणव्रतमतः श्रेष्ठतमं स्मृतम् ।।
इति श्रुत्वा हरेर्वाक्यं नारदः पुनरब्रवीत् ।। १९ ।।
किं फलं किं विधानं च सत्यनारायणार्चने ।।
तत्सर्वं कृपया देव कथयस्व कृपानिधे ।। 3.2.24.२० ।।
।। भगवानुवाच ।। ।।
नारायणार्चने वक्तुं फलं नालं चतुर्मुखः ।।
शृणु संक्षेपतो ह्येतत्कथयामि तवाग्रतः ।। २१ ।।
निर्धनोपि धनाढ्यः स्यादपुत्रः पुत्रवान्भवेत् ।।
भ्रष्टराज्यो लभेद्राज्यमन्धोऽपि स्यात्सुलोचनः ।। २२ ।।
मुच्यते बंधनाद्बद्धो निर्भयः स्याद्भयातुरः ।।
मनसा कामयेद्यंयं लभते तं विधानतः ।।२३।।
इह जन्मनि भो विप्र भक्त्या च विधिनार्चयेत् ।।
लभेत्कामं हि तच्छीघ्रं नात्र कार्या विचारणा ।। २४ ।।
प्रातःस्नायी शुचिर्भूत्वा दंतधावनपूर्व कम् ।।
तुलसीमञ्जरीं धृत्वा ध्यायेत्सत्यस्थितं हरिम् ।। २५ ।।
नारायणं सांद्रघनावदातं चतुर्भुजं पीतमहार्हवाससम् ।।
प्रसन्नवक्त्रं नवकंजलोचनं सनन्दनाद्यैरुपसेवितं भजे ।। २६ ।।
करोमि ते व्रतं देव सायंकाले त्वदर्चनम् ।।
श्रुत्वा गाथां त्वदीयां हि प्रसादं ते भजाम्यहम् ।। २७ ।।
इति संकल्प्य मनसा सायंकाले प्रपूजयेत् ।।
पञ्चभिः कलशैर्जुष्टं कदलीतोरणान्वितम् ।। २८ ।।
शालग्रामं स्वर्णयुक्तं पूजयेदात्मसूक्तकैः ।।
पञ्चामृतेन संस्नाप्य चन्दनादिभिरर्चयेत् ।। २९ ।।
ॐनमो भगवते नित्यं सत्यदेवाय धीमहि ।।
चतुःपदार्थदात्रे च नमस्तुभ्यं नमोनमः ।। 3.2.24.३० ।।
जप्तव्यष्टोत्तरशतं जुहुयात्तद्दशांशकम् ।।
तर्पणं मार्जनं कृत्वा कथां श्रुत्वा हरेरिमाम् ।।३१।।
षडध्यायीं सत्यमुख्यां तत्पश्चात्तत्प्रसादकम् ।।
सम्यग्विभज्य तत्सर्वं दापयेच्छ्रोतृकाय च ।। ३२ ।।
आचार्यायादिभागं च द्वितीयं स्वकुलाय सः ।।
श्रोतृभ्यश्च तृतीयं च चतुर्थं चात्महेतवे ।। ३३ ।।
विप्रेभ्यो भोजनं दद्यात्स्वयं भुञ्जीत वाग्यतः ।।
देवर्षेऽनेन विधिना सत्यनारायणार्चनम् ।।३४।।
कारयेद्यदि भक्त्या च श्रद्धया च समन्वितः ।।
व्रती कामानवाप्नोति वांछितानिह जन्मनि ।। ३५ ।।
इह जन्मकृतं कर्म परजन्मनि पद्यते ।।
परजन्मकृतं कर्म भोक्तव्यं सर्वदा नरैः ।। ३६ ।।
सत्यनारायण व्रतमिह सर्वान्कामान्ददाति हि ।।
अद्यैव जगतीमध्ये स्थापयामि त्वदाज्ञया ।। ३७ ।।
इत्युक्त्ंवाऽतर्दधे देवो नारदः स्वर्गतिं ययौ ।।
स्वयं नारायणो देवः काश्यां पुर्यां समागतः ।।३८।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्विशोऽध्यायः ।। २४ ।।

सत्यनारायणव्रतस्य वैदिक दृष्टिकोणम्

सत्यनारायणव्रतोपरि श्री हरिशंकरजोशीमहोदयस्य दृष्टिकोणम्