भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search

।। वैताल उवाच ।। ।।
भो राजन्बिल्वतीग्रामे गंगायामुनमध्यगे ।।
अहं पूर्वभवे चासं क्षत्रसिंहो महीपतिः ।। १ ।।
तस्य ग्रामे वसद्विप्रो वेदवेदांगपारगः ।।
शंभुदत्त इति ख्यातो रुद्रभक्तिपरायणः ।। २ ।।
उभकौ तनयौ तस्य सर्वविद्याविशारदौ ।।
विष्णुभक्तः स्मृतो ज्येष्ठो नाम्ना लीलाधरो बली ।।
शाक्तोऽभवत्तदनुजो मोहनो नाम श्रुतः ।। ३ ।।
कदाचित्क्षत्रसिंहस्तु यज्ञार्थी यज्ञहेतवे ।।
शंभुदत्तं समाहूय ससुतं धर्मकोविदम् ।।
स्वयं च कारयामास च्छागमेधं सुरप्रियम् ।। ४ ।।
शंभुदत्तस्तु वृद्धात्मा शिवभक्तिपरायणः ।।
चतुश्चक्रांश्च संस्थाप्य कलशं कार्यसिद्धिदम् ।। ५।।
हव्यैः सुसंस्कृतै रम्यैश्चकार हवनं मुदा ।।
छागमाहूय विधिवत्पूजयामास भूपतिः ।। ६ ।।
लीलाधरस्तु तं दृष्ट्वा छागं च मरणोन्मुखम् ।।
दयालुर्वेष्णवो धीमानब्रवीद्वचनं रुषा ।। ७ ।।
दारुणं नरकं योग्यमनया जीवहिंसया ।।
सर्वेशो भगवान्विष्णुहिंसायज्ञेन दुष्यति ।। ८ ।।
इति श्रुत्वा वचस्तस्य ज्येष्ठबंधोश्च मोहनः ।।
मृदुपूर्वं जहासोच्चैर्वचनं प्राह नम्रधीः ।। ९ ।।
पुरा सत्ययुगे भ्रातर्ब्राह्मणा यज्ञतत्पराः ।।
अजेनैव हि यष्टव्यमिति ज्ञात्वा परां श्रुतिम् ।।3.2.22.१ ०।।
तिलाधिकमजं मत्वा हव्ये ते तु मनो दधुः ।।
तदा शक्रादयो देवा वह्निमध्ये समागताः ।। ११ ।।
ऊचुस्ते मधुरं वाक्यं त्वन्मतं निष्फलप्रदम् ।।
अजच्छागः स्मृतो वेदैस्तेन यष्टव्यमन्तरम् ।। १२ ।।।
श्रुत्वेति वचनं तेषां विस्मिता मुनयोऽभवन् ।।
एतस्मिन्नंतरे तत्र पितृयोनिरमावसुः ।। १३ ।।
विमानं परमारुह्य मुनीन्प्रोवाच निर्भयः ।।
छाग मेधेन यष्टव्यं सुराणां तृप्तिहेतवे ।। १४ ।।
इति श्रुत्वा वचस्तस्य तथा कृत्वा शिवं ययुः ।।
तस्मात्त्वं च मया सार्द्धं यज्ञं कुरु महामते ।। १५ ।।
इति श्रुत्वा वचो घोरं लीलाधर उदारधीः ।।
मोहनं प्राह धर्मात्मा यज्ञस्त्रेतायुगेऽभवत् ।। १६ ।।
रजोगुणमयो लोकस्त्रेतायां संबभूव ह ।।
हिंसा सत्ययुगे नासीद्धर्मस्तत्र चतुष्पदः ।।१७।।
हव्येन तर्पिता देवा न मांसे रक्तसंभवैः।।
इति श्रुत्वा क्षत्रसिंहस्त्यक्त्वा छागं भयातुरम् ।।१८।।
फलाऽद्यैः कारयामास तदा पूर्णाहुतीर्नृप ।।
एतस्मिन्नन्तरे देवी तामसी क्रोधमूर्छिता ।।
नगरं दाहयामास नरनारीसमन्वितम् ।। १९ ।।
महामायाप्रभावेण शंभुदत्तः शिवप्रियः ।।
स भूत्वा च महोन्मादी त्यक्त्वा देहं दिवं ययौ ।। 3.2.22.२० ।।
तदा लीलाधरो विप्रो दशपुत्रोपजीवकः ।।
बालानध्यापयामास ग्रामे पद्मपुरे शुभे ।। २१ ।।
क्षत्रसिंहस्तु नृपतिर्मोहनान्तिकमाययौ ।।
प्रसादं कारयामास देवमातुरनुग्रहम् ।। २२ ।।
।। मोहन उवाच ।। ।।।
बीजमन्त्रजपाद्ब्रह्मा ब्राह्मीं शक्तिमवाप्तवान् ।।
तदंबायै नमस्तुभ्यं महावीरायै नमोनमः ।। २३ ।।
जप्त्वा सप्तशतीं विष्णुर्वैष्णवीं शक्तिमाप्तवान् ।।
तदंबायै नमस्तुभ्यं महालक्ष्म्यै नमोनमः ।। २४ ।।
प्रणवास्तनया यस्यास्तुरीयपुरुषप्रिया ।।
तदंबायै नमस्तुभ्यं प्रणवायै नमोनमः ।। २५ ।।।
यया दृश्यमिदं जातं यया वै पाल्यते जगत् ।।
यस्या देहे स्थितं विश्वं तदंबायै नमोनमः ।। २६ ।।
शची सिद्धिस्तथा मृत्युः प्रभा गीर्वाणसैनिकाः ।।
स्वाहा च निर्ऋती रात्रिर्ऋद्धिर्भुक्तिस्त्वदुद्भवा ।।
लोकपालप्रिया त्वं हि लोकमातर्नमोनमः ।। २७ ।।
तृष्णा तृप्ती रतिर्न्नीतिर्हिंसा क्षांतिर्मतिर्गतिः ।।
निंदा स्तुतिस्तथेर्ष्या च लज्जा त्वं हि नमोनमः ।। २८ ।।
इत्यष्टकप्रभावेण क्षत्रसिंहो महीपतिः ।।
शिवलोकं गतः साधु र्वैतालत्वमवाप्तवान् ।। २९ ।।
तस्मात्त्वं विक्रमादित्य भज दुर्गां सनातनीम् ।।
शिवाज्ञया त्वहं प्राप्तस्त्वत्समीपे महीपते ।। 3.2.22.३० ।।
प्रश्नोत्तरेण भूपाल मया त्वं संपरीक्षितः ।।
भुजयोस्ते स्थितिर्मे स्याज्जहि सर्वरिपून्भुवि ।। ३१ ।।
दस्युनष्टाः पुरीः सर्वाः क्षेत्राणि विविधानि च ।।
शास्त्रमानेन संस्थाप्य समयं कुरु भो नृप ।। ३२ ।।
यो नृपः सर्वतीर्थानि पुनरुद्धारयिष्यति ।।
स हि मत्स्थापितं संवद्विपरीतं करिष्यति ।। ।। ३३ ।।
विक्रमाख्यानकालोऽयं पुनर्धर्मं करोति हि ।।
द्वादशाब्दशतं वर्षं द्वापरो हि प्रवर्तते ।। ३४ ।।
तदन्ते भुवि कृष्णांशो भविष्यति महा बली ।।
कलेरुद्धरणार्थाय म्लेच्छवंशविवृद्धये ।। ३५ ।।
सूताद्या मुनयः सर्वे नैमिषारण्यवासिनः ।।
विशालायां समागत्य चक्रतीर्थनिवासिनः ।।
भविष्यंति महाराज पुराणश्रवणे रताः ।। ३६ ।।
इत्युक्त्वा स तु वैतालस्तत्रैवान्तरधीयत ।।
नृपतिर्विक्रमादित्यः परमानंदमाप्तवान् ।।३७।।
तस्माद्यूयं मुनिश्रेष्ठा ज्ञात्वा संध्यां समागताम् ।।
शिवं भजत सर्वेशं ध्याननिष्ठासमन्विताः ।। ३८ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्ग पर्वणि वतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वाविंशोऽध्यायः ।। २२ ।।