भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
इति श्रुत्वा स वैतालो नृपं प्राह पुनः कथाम् ।।
विशालनगरे रम्ये विपुलेशो महीपतिः ।।१।।
तस्य ग्रामेवसद्वैश्योर्थदत्तोविपणे रतः ।।
अनंगमंजरी कन्या तस्य जाता मनोरमा।।२।।
सुवर्णनाम्ने वैश्याय पिता वै दत्तवान्स्वयम्।।
कदाचित्कमलग्रामात्सुवर्णो द्वीपमागमत्।।
द्रव्यलाभाय न्यवसच्चिरं कालं स लुब्धवान् ।।३।।
अनंगमंजरीगेहे दैवयोगाद्द्विजोत्तमः ।।
कमलाकरनामासौ कृत्ययोगात्समागतः ।। ४ ।।
होमांते सुन्दरी नारी मार्जनार्थे सुता गता ।।
दृष्ट्वा तां कामकलिकां मुमोह द्विजसत्तमः ।। ५ ।।
सुतापि मदघूर्णाक्षी विप्राय समयं ददौ ।।
निशीथे तमउद्भूते त्वं मां प्राप्य सुखी भव ।। ६ ।।
इति श्रुत्वा द्विजो वाक्यं तस्या ध्यानं तदाकरोत् ।।
कामाग्निना चिरं तप्तः सुष्वाप परमासने ।। ७ ।।
अर्द्धरात्रे तु सा नारी द्विजागमनतत्परा ।।
मार्गमन्वेषमाणा सा प्रियस्य स्मरपीडिता।। ।। ८ ।।
नागतः स द्विजो दैवात्तदा सा मरणं गता ।।
कमलाकर एवाशु समयान्ते समाययौ ।। ९ ।।
दृष्ट्वा मृत्युवशां सुभ्रूं स्वयं मरणमागतः ।।
प्रभाते चार्थदत्तो वै दाहयामास तां शुचा ।। 3.2.20.१० ।।
सुवर्णश्च तदागत्य विललाप प्रियां प्रति ।।
चितायां भस्मसाद्भूत्वा स्वर्गलोके तु सा ययौ।। ।। ११ ।।
इत्युक्त्वा स तु वैतालो नृपतिं प्राह विक्रमम् ।।
कस्य स्नेहोऽधिकस्तेषां कुतः स्वर्गपुरं ययौ ।। १२ ।।
।। राजोवाच ।। ।।
पति स्नेहोधिकस्तेषां मध्यमौ नारिविप्रकौ ।।
द्विजस्नेहेन सा नारी मृता स्वर्गपुरं ययौ ।। १३ ।।
वैश्यवर्णैः सदा पूज्यो ब्राह्मणो ब्रह्ममूर्तिमान् ।। ।। १४ ।।
द्विजोऽपि नाप्तवान्नारीं तदा स्वर्गगतिं हरिम् ।।
हृदि कृत्वा च निधनं प्राप्तो ह्यस्मात्त्रिविष्टपम् ।। १५ ।।
सुवर्णो हृदि संज्ञाय मत्प्रिया ब्रह्मवत्सला ।।
मां त्यक्ता तु दिवं याता वह्निदाहप्रभावतः ।। १६ ।।
इति श्रीभीविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियु गीयेतिहासमुच्चये विंशोऽध्याय ।। २० ।।

तुलनीय - वेतालपञ्चविंशतिः २१

कथायाः संभावित विवेचनम्