भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search

चित्रकूटे च नृपती रूपदत्त इति श्रुतः ।।
वने मृगप्रसंगेन वनान्तरमुपाययौ।।१।।
मध्याह्ने सरसस्तीरे मुनिपुत्रो ददर्श सः।।
चिन्वतीं पद्मकुसुमं रूपयौवनशालिनीम् ।।२।।
तस्या नेत्रे स्वयं नेत्रे चैकीभूते समागते।।
एतस्मिन्नंतरे विप्रस्तत्र प्राप्तो ददर्श तौ ।।३।।
तस्य दर्शनमात्रेण नृपतेर्ज्ञानमागतम् ।।
विनयावनतो राजा धर्मं पप्रच्छ चोत्तमम् ।।४।।
तमुवाच मुनिर्द्धीमान्दयाधर्मप्रपोषणम् ।। ।
निर्भयस्य समं दानं न भूतं न भविष्यति ।।५।।
अनर्हान्दण्डमादद्यादर्हपूजाफलं भजेत् ।।
मित्रता गोद्विजे नित्यं समता दंडनिग्रहे ।। ६ ।।
सत्यता सुरपूजायां दमता गुरुपूजने ।।
मृदुता दानसमये संतुष्टिर्निंद्यकर्मणि ।।७।।
इत्युक्त्वा स मुनिः पुत्रीं तस्मै दत्त्वा गृहं ययौ।।
राजापि च तया सार्द्धं वटमूलेऽशयिष्ट वै ।।८।।
तदा तु राक्षसः कश्चित्तत्पत्नीभक्षणोत्सुकः ।।
बोधयामास नृपतिं बलिं तस्मै स भूपतिः ।।९।।
दानार्थं चैव क्रव्यादे सप्तवर्षात्मकं द्विजम् ।।
समयं कृतवान्राजा सत्येन स्वगृहं ययौ ।।3.2.19.१ ०।।
अमात्यैः संमतं कृत्वा स्वर्णलक्षं ददौ द्विजे ।।
मध्यं बालं पुरस्कृत्य राक्षसाय बलिं ददौ।।११।।
मृत्युकाले द्विजसुतो विहस्योच्चै रुरोद ह ।।
कथं हास्यं कृतं तेन तत्पश्चाद्रोदनं कथम् ।।१२।।
इति श्रुत्वा नृपः प्राह शृणु वैतालिक द्विज ।।
ज्येष्ठपुत्रं पितुर्हृद्यं मातृहृद्यमवर्यकम्।।१३।।
ज्ञात्वा स मध्यमः पुत्रो राजानं शरणं ययौ।।
निर्दयी रूपसेनश्च पत्नीकल्याणभिक्षुकः ।।१४।।
खङ्गहस्तं नृपं ज्ञात्वा जहास शिवतत्परः ।।
राक्षसाय शरीरं मे प्राप्तमस्माद्रुरोद ह ।।१५।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चय एकोनविंशोऽध्यायः ।।१९।।।

तुलनीय - वेतालपञ्चविंशतिः २०

कथोपरि टिप्पणी