भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः १६

विकिस्रोतः तः

।। सूत उवाच ।। ।।
पुनः प्राह स वैतालो भूपतिं ज्ञानकोविदम् ।।
चंद्रशेखरभूपस्य नगरी दक्षिणे स्थिता ।। १ ।।
रत्नदत्तोवसद्वैश्यो धर्मज्ञो धनधान्यवान्।।
कामावरूथिनी तस्य सुता जाता महोत्तमा ।। २ ।।
तद्रूपमुत्तमं दृष्ट्वा स वैश्यो भूपतिं प्रति ।।
उवाच भो महाराज सुता मम सुरेप्सिता ।। ३ ।।
तां गृहाण कृपासिंधो त्वद्योग्या विधिनिर्मिता ।।
इति श्रुत्वा तु वचनं भूपतिश्चंद्रशेखरः।।। ।। ४ ।।
मंत्रिणं विदुरं प्राह त्वं च गच्छ महामते ।।
यथायोग्यं हि तद्रूपं मां निवेदय सत्वरम् ।। ५ ।।
इत्युक्त्वा स ययौ गेहं भूपतिश्चंद्रशेखरः।
श्यामला नाम तत्पत्नी ज्ञात्वा राजानमागतम्।।६।।
धूपदीपादिभिः पुष्पैर्यथायोग्यैः समार्चयत् ।।
एतस्मिन्नेव काले तु गौश्च शार्दूलपीडिता।।७।।
हंभाशब्देन महता विललाप भयातुरा ।।
तच्छ्रुत्वा स तु भूपालः खड्गहस्तः समभ्यगात् ।। ८ ।।
शीघ्रं हत्वा तु शार्दूलं मुमोद नृपतिस्तदा ।।
मुकुलो दानवो नाम तद्देहाद्रूपमाप्तवान् ।।९।।
भूपतिं प्राह नम्रात्मा धर्मज्ञं चंद्रशेखरम् ।।
त्वया विमोचितो नाथ यास्यामि वरुणालयम् ।।१ ०।।
प्रह्रादस्यैव शापेन व्याघ्रदेहत्वमागतः ।।
परिक्रम्य ययौ दैत्यः प्रह्लादं प्रति सत्वरः ।। ११ ।।
नृपतिर्गृहमागत्य सुष्वाप परया मुदा ।।
प्रभाते बोधितो राजा सभायां स्वयमागमत् ।। १२ ।।
नृपोक्तः स ययौ तत्र यत्र कामावरूथिनी ।।
दिव्यमूर्तिमयीं दृष्ट्वाचिंतयत्स स्वमानसे ।। १३ ।।
अस्या मूर्तिप्रभावेन राजासौ मोहमाप्स्यति।।
इति ज्ञात्वा नृपं प्राह सैव त्वद्योग्यका न हि।।१४।।
तथा मत्वा स नृपतिर्न विवाहमथाकरोत्।।
रत्नदत्तस्य भूपस्य सेनायाः पतये ददौ ।। १५ ।।
बलभद्रस्य सा पत्नी बभूव वरवर्णिनी ।।
एकदा नृपतिस्तां वै दृष्ट्वा कामावथरूथिनीम् ।। १६ ।।
मोहितः कामबाणेन मूर्च्छितः पतितो भुवि ।।
तदा सेनापतिस्तूर्णं नृपमुत्थाप्य सत्वरम् ।। १७ ।।
शिबिकां चैव संस्थाप्य सभायां च समैरयत् ।।
तदा प्रबुद्धो नृपतिः प्राह सेनापतिं मुदा ।। १८ ।।
कस्येयं सुन्दरी भार्या कुतो जाता महोत्तमा ।।
बलभद्रस्तु तच्छ्रुत्वा नृपतिं प्राह नम्रधीः ।। १९ ।।
ममेयं सुन्दरी नारी रत्नदत्तस्य सा सुता ।।
राज्यभंगभयान्मन्त्री न रूपं त्वयि वर्णिवान् ।। २० ।।
मम दासस्य या पत्नी त्वद्योग्या भूपते सदा ।।
तवेच्छां पूरयिष्यामि तां गृहाण कृपानिधे ।। २१ ।।
इत्युक्तः क्रोधताम्राक्षो भूपतिस्तमुवाच ह ।।
तवेयं धर्मतो भार्या प्राप्ता सुन्दररूपिणी ।। २२ ।।
गृह्णामि यदि तां देवीं नरके यमकिंकराः ।।
पातयित्वा महादुःखं भजयिष्यन्ति तर्हि भोः ।। २३ ।।
इत्युक्त्वा भूपतिस्तूर्णं विरहाग्निप्रपीडितः ।।
मरणं प्राप्तवान्राजा गतो धर्मपुरांतिके ।। २४ ।।
इत्युक्त्वा स तु वैतालो नृपं प्राह शृणुष्व भोः ।।
मृते राजनि तत्पत्नी सती भूत्वा प्रदृश्यते ।।२५।।
सेनापतिस्तु तत्रैव भस्मसादभवत्क्षणात् ।।
कामावरूथिनी देवी भस्म कृत्वा कलेवरम् ।।२६।।
स्वर्गं गतास्तु ते सर्वे कस्य पुण्याधिकं मतम् ।।
स होवाच च वैतालं राजा धर्माधिको मतः ।।२७ ।।
मरणं किंकरस्यैव योग्यं भूपतिहेतवे ।।
पतिव्रताया मरणं पतिसंगेन योग्यकम् ।। २८ ।।
दत्ता यत्किंकरेणैव सुंदरी नृपहेतवे ।।
धर्मभीत्या न नृपतिस्तामगृह्णात्स कामुकः ।। २९ ।।
जित्वा कामं तथा पाल्यं धर्मं तस्मान्नृपेऽधिकम् ।। ३० ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षोडशोऽ ध्यायः ।। १६ ।।

तुलनीय - कथासरित्सागरे वेतालपंचविंशति

मुकुलोपरि टिप्पणी