भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः १५

विकिस्रोतः तः

।। सूत उवाच ।। ।।
प्रशस्य भूपतिं शुद्धं वेतालो रुद्रकिंकरः ।।
पुनराख्यानकं विप्र वर्णयामास सुन्दरम् ।। १ ।।
कान्यकुज्जे महाराज ब्राह्मणो दानशीलकः ।।
बभूव सत्यसंधश्च देवीपूजनतत्परः ।।
प्रतिग्रहेण यद्द्रव्यं तेन दानमचीकरत् ।। २ ।।
कदाचित्तु शरत्काले नवदुर्गाव्रतं ह्यभूत् ।।
न प्राप्तं दानतो द्रव्यं तदा चिंतातुरोऽभवत् ।।३।।
किं कर्तव्यं मया चाद्य येन द्रव्ययुतो ह्यहम् ।।
कन्या निमंत्रिताश्चाद्य कथं तां भोजयाम्यहम् ।।४।।
इति शोकसमायुक्तस्तदा देवीप्रसादतः ।।
मुद्राः पञ्च तदा प्राप्तास्ताभिर्व्रतमचीकरत् ।। ५ ।।
निराहारव्रतं तेन कृतं तु नवमाह्निकम् ।।
तेन व्रतप्रभावेन मृतो देवत्वमागतः ।। ६ ।।
जीमूतकेतुरिति च सोभूद्विद्याधराधिपः ।।
हिमाचलगिरौ रम्ये पुरे विद्याधरे शुभे ।।७।।
उवास कतिचिद्वर्षान्दिव्य भोगप्रभोगवान्।।
तत्र कल्पद्रुमं नित्यं पूजयामास भक्तितः ।। ८ ।।
तेन वृक्षप्रभावेन जातः पुत्रो महोत्तमः ।।
सर्वाकलासु निपुणो नाम्ना जीमूतवाहनः ।। ९ ।।
स वै पूर्वभवे राजन्मध्यदेशे महोत्तमे ।।
क्षत्रियः शूरसेनाख्यो बभूव वसुधाधिपः ।। 3.2.15.१० ।।
एकदा मृगयाकेलिलोलुपः स महीपतिः ।।
प्राप्तवानुत्पलारण्यं यत्र वाल्मीकिसंस्थितिः ।। ११ ।।
चैत्रशुक्लनवम्यां तु न कृतं जीवघातनम् ।।
उत्सवं रामदिवसे चकार विधिवन्नृपः ।। १२ ।।
वाल्मीकेश्च कुटीमध्ये रात्रौ जागरणं कृतम् ।। १३ ।।
श्रुता राममयी गाथा तस्य पुण्यप्रभावतः ।।
विद्याधरत्वमापन्नो मुमुदे तत्र शक्रवत् ।।१४।।
कल्पवृक्षस्य वै पूजा कृता तेन महात्मना ।।
वर्षांतरे द्रुमः प्राह वरं वरय सत्तम ।। १५ ।।
स तमाह महावृक्ष मदीयं नगरं शुभम् ।।
धनधान्यस मायुक्तं यथैव स्यात्तथा कुरु ।। १६ ।।
इत्युक्ते सति वृक्षेण नगरं भूपतेः समम् ।।
कृतं तदा न कोऽप्यासीद्यो मन्येत्पार्थिवाश्रयम् ।। १७ ।।
सर्वे ते राजतुल्याश्च कल्पवृक्षप्रसादतः ।।
तदा तौ तु पितापुत्रौ तपसोऽर्थे वनं गतौ ।।१८।।
मलयाद्रौ महारम्ये तेपतुर्बहुलं तपः।।
एकस्मिन्दिवसे राजन्मलयध्वजभूपतेः ।। १९ ।।
कमलाक्षीति विख्याता कन्या च शिवमंदिरे ।।
स्वसख्या सहिता प्राप्ता शिवपूजनतत्परा ।। 3.2.15.२० ।।
जीमूतवाहनश्चैव पूजार्थे मंदिरं ययौ ।।
बालां ददर्श दिव्यांगीं सर्वभूषासमन्विताम् ।। २१ ।।
तस्या दर्शनमात्रेण कामबाणेन पीडितः ।।
मनसा कामदेवं तं तुष्टाव श्लक्ष्णया गिरा ।। २२ ।।
जीमूतवाहन उवाच ।। ।।
मदनाय नमस्तुभ्यं कृष्णपुत्राय ते नमः ।।
शंबरप्राणहंत्रे च चतुर्व्यूहाय ते नमः ।। ।। २३ ।।
पंचबाणाय कामाय प्रद्युम्नाय नमोनमः ।।
मद्योग्यां कुरु सुश्रोणीं कामिनीं कमलाननाम् ।। २४ ।।
तदा प्रसन्नो भगवान्मकरध्वजदेवता ।।
मोहयित्वा च पितरं तद्विवाहमकारयत् ।। २५ ।।
विश्वावसुरिति ख्यातस्तस्य भूपस्य वै सुतः ।।
भगिनीपतिना सार्द्धं स ययौ गंधमादनम् ।। २६ ।।
नरं नारायणं नत्वा गरुडोत्तुंगमाययौ ।।
तदा नागस्य वै माता शंखचूडस्य भो नृप ।।२७।।
रुरोद बहुधा तत्र यत्र जीमूतवाहनः।।
दुःखितः स जगामाशु दयालुर्दीनवत्सलः ।। २८ ।।
वृद्धामाश्वास्य पप्रच्छ केनेदं दुःखमागतम् ।।
साह मे तनयो देव गरुडास्ये गमिष्यति ।। ।। २९ ।।
तद्वियोगेन दुःखार्ता विलपामि महाकुला ।।
इति ज्ञात्वा स नृपतिर्गरुडोत्तुंगमाययौ ।। 3.2.15.३० ।।
गरुडोऽपि गृहीत्वा तं नभोमार्गमुपागमत् ।।
तस्यांगदोऽसृजा लिप्तो न्यधात्तत्तत्र भामिनी ।। ३१ ।।
कमलाक्षी तु वियति स्थितं गरुडभक्षितम् ।।
विलोक्य चारुदद्गाढं पतिदुःखेन दुःखिता ।। ३२ ।।
तदा तु गरुडस्त्रस्तस्तत्रागत्य त्वरान्वितः ।।
जीमूतवाहनं प्राह कस्मात्त्वं मम भक्षितः ।। ३३ ।।
स होवाच प्रभो मेद्य वचः शृणु महामते ।।
शंखचूडस्य जननी महादुःखेन दुःखिता ।। ३४ ।।
तस्याः पुत्रस्य रक्षार्थं संप्राप्तोऽहं तवांतिकम् ।।
इत्युक्ते सति भूपाल शंखचूडश्च पन्नगः ।। ३५ ।।
तद्व्यालस्यैव दुःखेन दुःखितः शत्रुमाप्तवान् ।।
मां प्रभक्ष कृपासिंधो त्वदाहारार्थमागतम् ।। ३६ ।।
संत्यज्य मानुषं दिव्यं कुर्वाहारं महामते ।।
तदा प्रसन्नो गरुडो ददौ तस्मै वरत्रयम् ।।३७ ।।
जीमूतवाहनायैव विद्याधरसुताय च ।।
शंखचूडकुलं नाहं भक्षयिष्ये कदा चन ।। ३८ ।।
त्वं तु विद्याधरपुरे प्राप्य राज्यं महोत्तमम् ।।
सुभोजयित्वा लक्षाब्दं ततो वैकुण्ठमेष्यसि ।। ३९ ।।
इत्युक्त्वान्तर्दधौ देवः स पित्रा राज्यमाप्तवान् ।।
स्वपत्न्या सह राज्यांगं भुक्त्वा वैकुंठमाययौ ।। 3.2.15.४० ।।
इत्युक्त्वा स तु वैतालो नृपतिं प्राह नम्रधीः ।।
तेषां मध्ये महाराज कस्य प्राप्तं महाफलम् ।। ४१ ।।
।। राजोवाच ।। ।।
शंखचूडस्य संप्राप्तं जीवदानमहाफलम् ।।
नृपस्यैवोपकारं च स्वभावो विधिना कृतः ।। ४२ ।।
पतिव्रताप्रभावेन जीवदानेन भूपतेः ।।
सन्तुष्टो गरुडो जातस्तस्य किं तर्हि तत्फलम् ।। ४३ ।।
निर्भयः शंखचूडस्तु स्वशत्रुं प्रति चागमत् ।।
शरीरमर्पयित्वा तं ततः प्राप्तं महाफलम् ।। ४४ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेति हाससमुच्चये पंचदशोऽध्यायः ।। १५ ।।

तुलनीय - कथासरित्सागरे वेतालपंचविंशति

जीमूतवाहनोपरि टिप्पणी