भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
भृगुवर्य महाभाग वैतालो नृपमब्रवीत् ।।
राजन्पुष्पावती रम्या नगरी तत्र भूपतिः ।।
सुविचार इति ख्यातः प्रजापालनतत्परः ।। १ ।।
चन्द्रप्रभा तस्य पत्नी रूपयौवन शालिनी ।।
तस्यां जाता सुता देवी नाम्ना चन्द्रावली मता ।। २ ।।
कदाचित्स्वालिभिः सार्द्धं विपिनं कुसुमाकरम् ।।
आययौ तत्र वै विप्रं सुदेवं सा ददर्श ह ।।३।।
मोहिता चाभवद्देवी विप्रोपि पतितः क्षितौ ।।
कामबाणव्यथां प्राप्य गतप्राण इवाभवत् ।। ४ ।।
तस्यां गतायां सदने द्वौ विप्रौ तत्र चागतौ ।।
मूलदेवः शशी नाम्ना तत्र विद्याविशारदौ ।।५।।
तथागतं द्विजं दृष्ट्वा रूपयौवनशालिनम् ।।
पप्रच्छ कारणं सर्व येन मोहत्वमागतः ।। ६ ।।
स श्रुत्वा रोदनं कृत्वा सर्वं तस्मै न्यवेदयत् ।।
कृपालुर्मूलदेवस्तु तं स्वगेहमवाप्तवान् ।। ७ ।।
गृहे जप्त्वा महामंत्रं चामुण्डाबीजसंयुतम् ।।
कृतवान्गुटिके चोभे सुदेवाय समार्पयत् ।। ८ ।।
एकया सुंदरी कन्या द्वादशाब्दमयी शुभा ।।
द्वितीयया महावृद्धो मूलदेवस्तदाभवत् ।। ९ ।।
द्वौ गतौ राजसदने नृपमाशीर्भिरर्च्य तम् ।।
हेतुं निवेदयामास तच्छुणुष्व महामते ।।3.2.14.१०।।
नगरे तांत्रिके राजन्मद्गेहं सुन्दरोपमम् ।।
विलापध्वजनाम्ना वै राज्ञा संलुठितं बलात्।।१ १।।
पलायितौ सुतः पत्नी तावन्वेष्टुं समाययौ।।
इयं वधूर्महाराज मम तत्पुत्रभाविनी।।१२।।
यावदहं न गच्छामि स्वगेहे रक्ष धर्मतः ।।
इति श्रुत्वा स नृपतिश्चाहूय स्वसुतां तदा ।।
तस्यै समर्प्य तां पश्चात्स द्विजो गेहमाययौ ।। १३ ।।
सुदेवस्तु निशीथे वै रमणीं प्राह निर्भयः।।
कुतस्ते मन उद्विग्नं सत्यं कथय मे सखि ।।१४।।
साह मे हृदये नित्यं सुदेवो ब्राह्मणोत्तमः ।।
उषितस्तद्वियोगेन व्याकुलाहं सदा सखे ।।१५।।
सुदेवश्चाह भोः सुभूर्यदि ते ब्राह्मणोत्तमम् ।।
समर्पयामि तत्त्वं मे किं ददासि वदस्व भोः ।।
साह ते सर्वदा दासी भवामि द्विजभामिनि ।।१६।।
इति श्रुत्वा सुदेवस्तु मुखान्निष्कृष्य यंत्रकम् ।।
पूर्वदेहत्वमापन्नस्तया सार्द्धं समारमत् ।। १७ ।।
चतुर्मास्यो भवद्गर्भस्तस्मिन्काले तु भो नृप ।। ।। १८ ।।
अमात्यतनयो विप्रस्त्रीरूपं प्रति मोहितः ।।
तदा मरणसम्पन्नं ज्ञात्वा तं मदनालसम् ।। १९ ।।
मन्त्री स्नेहाच्च बहुधा सञ्चित्य हृदि पंडितैः ।।
तस्मै समर्पयामास तां नारीं मन्त्रसम्भवाम् ।। 3.2.14.२० ।।
साह भोमात्यतनय त्रिमासं तीर्थमण्डले ।।
संस्नाहि तर्हि मे योग्यो भविष्यसि तथा कुरु ।। २१ ।।
तथा मत्वा मंत्रिसुतो नम्रात्मा मदनालसः ।।
तीर्थांतरं गतः सोऽपि सुदेवस्तस्य योषितम् ।। २२ ।।
भूपकांतिं कामवशां चालिलिंग स कामुकः ।।
सा तु गर्भं दधाराशु द्विमासस्य द्विजेन वै ।। २३ ।।
सुदेवो मानुषो भूत्वा मूलदेवगृहं ययौ ।।
सर्वं निवेदयामास यथाजातं नृपालये ।। २४ ।।
मूलदेवः प्रसन्नात्मा शशिनं नाम मित्रकम् ।।
विंशद्वर्षतरं कृत्वा स्वयं वृद्धस्य रूपवान् ।। २५ ।।
राज्ञे निवेद्य तत्सर्वं वधूं मे देहि भूपते ।।
तदा तु स नृपो भीत्या तं प्राह श्लक्ष्णया गिरा ।। २६ ।।
मन्त्री राजकरो नाम तत्पुत्रो मदनालसः ।।
दृष्ट्वा तव वधूं रम्यां मुमोह मरणोन्मुखः ।। २७ ।।
स्वपुत्रस्य वियोगेन स मन्त्री च तथेदृशः ।।
तथाहं ब्राह्मणान्वृद्धान्पृष्ट्वा तस्मै च तामदाम् ।। २८ ।।
यथा प्रसन्नो हि भवान्कुरु त्वं च तथाविधम् ।।
मूलदेवस्तु नृपतिं प्रोवाच विषमुद्वमन् ।। २९ ।।
देहि भूप सुतां मह्यं तत्पुत्रस्य सुरताय वै ।।
तथैव मत्वा स नृपः सुतां चन्द्रावलीं शुभाम् ।। 3.2.14.३० ।।
दत्त्वा च वेदविधिना बहुधा द्रव्यसंयुताम् ।।
स्वयं चकार राज्यं वै ब्रह्मदोषविवर्जितः ।। ३१ ।।
शशी तु भूपतेः कन्यां गृहीत्वा स्वगृहं ययौ ।।
सुदेवस्तु तदा दुःखी मूलदेवमुवाच ह ।। ३२ ।।
मदीयेयं नृपसुता भोगपत्नी महोत्तमा ।।
तच्छ्रुत्वा मूलदेवस्तु विस्मितः स तथाकरोत् ।। ३३ ।।
इत्युक्त्वा नृपतिं प्राह वैतालो रुद्रकिंकरः ।।
कस्मै प्राप्ता नृपसुता धर्मतस्तद्वदस्व मे ।। ३४ ।। ।।
।। राजोवाच ।। ।।
पितामात्राज्ञया पुत्री देवानां सन्मुखे स्थिता ।।
यस्मै निवेदिता तस्मै सा योग्या धर्मतः सदा ।। ३५ ।।
शास्त्रेषु कथितं देव स्त्रीरत्नं सर्वदैव हि ।।
यथाक्षेत्रं भुवि ख्यातं बीजमन्त्रेन रोपितम् ।। ३६ ।।
तत्क्षेत्रं कृषिकारस्य बीजदातुर्न चैव ह ।।
तस्माद्वै राजतनया शशिनं वरयिष्यति ।। ३७ ।।
सुदेवस्य वै तनयो योग्यत्वं हि गमिष्यति ।। ३८ ।।
इति ते कथितं देव यथाशास्त्रेषु भाषितम् ।।
किं कृतं मन्त्रिपुत्रेण तथैव कथयस्व मे ।। ३९ ।।
इति श्रुत्वा स होवाच स पुत्रो मदनालसः ।।
वृन्दावनं शुभं प्राप्य राधाकुण्डे समागतः ।। 3.2.14.४० ।।
स स्नात्वा बहुला ष्टम्यां तत्पुण्येन नृपोत्तम ।।
भस्मसादभवत्पापं येन मोहत्वमागतः ।। ४१ ।।
स्मृत्वा स हृदि गोविंदं तुष्टाव श्लक्ष्णया गिरा ।। ४२ ।।
।। मदनालस उवाच ।। ।।
नमस्ते दयासिंधवे कृष्णदेव त्वयेदं ततं विश्वमम्भोधिरूपम् ।।
त्वयैकेन लीलार्थतो देवदेव प्रियाराधया सार्द्धमेतद्धि गुप्तम्।। ।। ४३ ।।
जगत्यन्तकाले त्वया कालमूर्त्या जगत्संहृतं वै नमस्तेनमस्ते ।।
मदीया च बुद्धिर्हृषीकेश शुद्धा यथा स्यात्तथैवेश शीघ्रं कुरु त्वम् ।। ।। ४४ ।।
इति स्तोत्रप्रभावेन देवदेवेन मोचिता ।।
कामपाशात्तस्य बुद्धिः स क्षत्री गृहमाययौ ।। ४५ ।।
रमणीं स्वां समालिंग्य ननन्द मुदितो नृप ।।
विप्रदोषविनाशाय हृदि संचिन्त्य बुद्धिमान्।।
सुदेवं स समाहूय स्वां स्वसारं ददौ मुदा ।। ४६।।
सुदेवस्तस्य भगिनीं क्षत्रियस्य मदातुराम् ।।
धर्मेणोद्वाह्य स्वगेहं प्राप्तवान्कामकिंकरः ।। ४७ ।।
इति ते कथितं भूप चरित्रं तस्य धीमतः ।।
मूलदेवस्य विप्रस्य तथान्यत्कथयाम्यहम्।। ।। ४८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्दशोऽध्यायः ।। १४ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशति