भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
वैतालस्तु महाभाग राजानमिदमब्रवीत् ।।
गौडदेशे महाराज वर्धनं नाम वै पुरम् ।। १ ।।
गुणशेखर आख्यातो भूपालस्तत्र धर्मवान् ।।
तन्मन्त्री निर्भयानन्दो जैनधर्मपरा यणः ।। २ ।।
कदाचिद्भूपतिर्यातो मन्दिरे गिरिजापतेः ।।
पूजयामास तं देवं सर्वव्यापिनमीश्वरम् ।। ३ ।।
वृश्चिकस्तत्र संप्राप्य ददंश नृपतिं रुषा ।।
तत्कष्टेन स भूपालो मूर्छितः पतितो भुवि ।। ४ ।।
तदा तु निर्भयानन्दो विषमुत्तार्य तस्य वै ।।
भूपतिं वर्णयामास जैनधर्म परायणः ।। ५ ।।
शृणु राजन्महाभाग शत्रून्षण्मानसाधमान् ।।
कामः क्रोधस्तथा लोभो रतिर्हिंसा च तृष्णिका ।।
रजोगुणाच्च ते जातास्तेषां भेदाः पृथक्पृथक् ।। ६ ।।
मोहो दंभो मदश्चैव ममताशा च गर्हणा ।।
तमोगुणाच्च ते जातास्तैरिदं पूरितं जगत् ।। ७ ।।
कामी विष्णुस्तथा रुद्रः क्रोधी लोभी विधिस्तथा ।।
दंभी शक्रो यमो मोही मदी यक्षपतिः स्वयम् ।। ८ ।।
माया वश्याश्च ते सर्वे तर्हि तत्पूजनेन किम् ।।
षट्शत्रुभिर्जितो यो वै स जिनो मुनिभिः स्मृतः ।। ९ ।।
न जितः स जिनो ज्ञेयोऽद्वैतवादी निरंजनः ।।
तस्य ध्यानेन भावेन मोक्षवंतो नराः सदा ।। 3.2.10.१० ।।
तत्प्रसादाय यो धर्मः शृणु मे वसुधाधिप ।।
गोपूजनेन ते देवास्तुष्टिं यान्ति सदैव हि ।। ११ ।।
अतो गोपूजनं शुद्धं हिंसा सर्वत्र वर्जिता ।।
मदपानेन सर्वात्मा जिनः क्लेशं समाप्नुयात् ।। १२ ।।
तस्मान्मांसं च पानं च वर्जितं सर्वदैव हि।
न्यायेनोपार्जितं वित्तं भोजयेच्च बुभुक्षितान् ।। १३ ।।
रविरात्मा जिनस्यैव तत्प्रकाशे हि भोजयेत् ।।
इत्येवं वर्णयित्वैनं मंत्री गेहमुपाययौ ।। १४ ।।
तथैव मत्वा स नृपो जिनधर्मं गृहीतवान् ।।
कियता चैव कालेन वेदमार्गो हि लंघितः ।। १५ ।।
तदा तु दुःखिता राज्ञी शिवस्य शरणं ययौ ।। १६ ।।
वरदानेन रुद्रस्य पुत्रो जातो महोत्तमः ।।
धर्मराज इति ख्यातो वेदव्रतपरायणः ।। १७ ।।
गुणशेखर एवासौ पंचत्वे निरयं ययौ ।।
धर्मराजस्तदा राज्यं कृतवान्धर्मतः स्वयम् ।। १८ ।।
तस्य धर्मप्रभावेण तत्पिता स्वर्गमाप्तवान् ।।
त्रयः पत्न्योभवंस्तस्यगुणरूपा महोत्तमा ।। १९ ।।
वसंतसमये राजा ताभिः सह वनांतरे ।।
संयातो रमयामास पुष्पभ्रमरनादिते ।। 3.2.10.२० ।।
श्रमितः स तु भूपालो राज्ञीभिः सह मोदितः ।।
सरोवरे स्नापितवान्मदाघूर्णितलोचनः ।। २१
गृहीत्वा कुसुमं पाद्मं करे राज्ञ्यै समार्पयत् ।।
पदि हीनत्वमायाता पतता कुसुमेन वै ।।२२ ।।
दुःखितः स तु भूपालो राज्ञीं तामचिकित्सयत् ।।
रात्रौ प्राप्ते द्वितीया तु चन्द्रशीलेन मोहिता ।। २३ ।।
अपतद्व्याकुलीभूत्वा शुद्धं पादमभूत्ततः ।।
पतितायाश्च शब्देन तृतीया ज्वरिताऽभवत् ।। २४ ।।
तस्या मूर्च्छा तदा क्षीणा द्वितीयाया अजायत ।।
नृपस्पर्शेन सा सुभ्रूर्ज्वरतापं विहाय च ।। २५ ।।
प्रभाते सुंदरे जाते स ताभिर्गृहमाययौ ।।
इत्युक्त्वा स तु वैतालो भूपतिं प्राह नम्रधीः ।।
आसां मध्ये महाराज का श्रेष्ठा सुकुमारिका ।।२६।।
।।राजोवाच।। ।।
तृतीया सुकुमारी च तासां मध्ये महोत्तमा।।
वायुप्रकृतितश्चासौ पद्मपुष्पेण खंजिता।।२७।।
शीतांशुना द्वितीया तु मूर्च्छिता कफभावतः ।।
शब्दमात्रेण संतापो यस्यां जातो हि सोत्तमा ।।२८।।
विहस्याह पुनर्देवो भवभक्तं महीपतिम् ।।
जैनधर्मः प्रधानो हि वेदधर्मोथ वा वद ।।२९।।
स होवाच प्रधानोऽसौ वेदधर्मः सनातनः।।
अष्टौ श्रेण्यो हि तस्यैव ब्रह्मणोव्यक्तरूपिणः।।3.2.10.३०।।
शूद्रो वैश्यस्तथा क्षत्री ब्राह्मणो ब्रह्मचर्यकृत् ।।
गेही वन्यो यतिश्चैव क्रमाच्छ्रेष्ठाः प्रकीर्तिताः ।। ३१ ।।
यः कृत्वा दारसंसर्गं यतिवद्वर्तते गृही ।।
स पापी नरकं याति यावदाभूतसंप्लवम् ।। ३२ ।।
गृहेषु यतिवद्धर्मो जैनशास्त्रे प्रकीर्तितः ।।
पाखण्डः स स्मृतः प्राज्ञैर्वर्जनीयो हि सर्वदा ।। ३३ ।।
इति श्रीभविष्ये महापुराणे चतुर्युगखंडापरपर्याये कलियुगी येतिहाससमुच्चये दशमोऽध्यायः ।।१०।।

तुलनीय - वेतालपंचविंशति