भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
भो शौनक महाबुद्धे वैतालेन महीपतिः ।।
महाप्रवीणश्च मतस्तमाह स च भूपतिम् ।। १ ।।
राजन्कामपुरे रम्ये वीरसिंहो महीपतिः ।।
न्यायतो धर्मतश्चैव तत्र राज्यमचीकरत् ।। २ ।।
हिरण्यदत्तस्तत्रैव वैश्यो धनमदान्वितः ।।
कामालसा तस्य सुता रूपयौवनशालिनी ।। ३ ।।
अवसत्सुखतो नित्यं वसंते कुसुमप्रिया ।।
कदाचित्कुसुमार्थं वै वनं भ्रमरनादितम् ।। ४ ।।
गच्छन्तीं तां समालोक्य धर्मदत्तात्मजो बली ।।
सोमदत्त इति ख्यातः पस्पर्श मदनालसाम् ।। ५ ।।
सा तु तं निर्जने स्थाने प्रोवाच विनयान्विता ।।
कन्यकाहं महावीर त्यज मां धर्मतोद्य भोः ।। ६ ।।
विवाहे सति पूर्वं त्वां भजामि दशमेऽहनि ।।
अतो दशदिनस्यैवादेशं देहि दयानिधे ।। ७ ।।
तथेति मत्वा तां त्यक्त्वा निजगेहं समागतः ।।
कामालसा तु तद्ग्रामे पित्रा दत्ता वराय च ।। ८ ।।
मदपालाय वैश्याय मणिग्रीवसुताय च ।।
श्वशुरस्य गृहं गत्वा स्वमित्रं प्रत्यचिन्तयत् ।। ९ ।।
नवमेऽहनि तत्स्वामी गृहीत्वा कामिनीं बलात् ।।
कामातुरः स पत्नीं तामालिलिंग मदान्वितः ।। 3.2.9.१० ।।
अरुदत्सा तु तत्पत्नी मित्रवाक्येन कर्षिता ।।
तामुवाच तदा वैश्यः शांतिपूर्वमिदं वचः ।। ११ ।।
किं रोदिषि मदापूर्णे सत्यं कथय शोभने ।।
सा तु सत्यवती प्राह यथाजातं हि कानने ।। १२ ।।
यदि नायामि पार्श्वे त्वां सोमदत्त धनोत्तम ।।
तदा वैधव्यतां प्राप्य भजामि वृजिनं हि तत् ।। १३ ।।
इति वाक्येन बद्धाहं यास्याम्यद्य तदंतिके ।।
इति श्रुत्वा च तत्स्वामी तामाज्ञाप्य मुदान्वितः ।। १४ ।।
सुष्वाप सा तु तत्पार्श्वे ह्यगमत्कामविह्वला ।।
तदा चौरस्तु तां दृष्ट्वा सर्वाभरणभूषिताम् ।। १५ ।।
वचश्चोवाच लोभात्मा कुत्र यासि च सुन्दरि ।।
केनैवापेक्षिता रात्रौ सत्यं कथय भामिनि ।। १६ ।।
कामालसा तु तं चौरमुवाच मदविह्वला ।।
रक्षिता कामबाणेन स्वमित्रं प्रति यामि भोः ।। १७ ।।
चौरस्तामाह भोः सुभ्रूर्भूषण देहि मेऽबले ।।
चौरोऽहं ते धनग्राही सा श्रुत्वा वाक्यमब्रवीत् ।। १८ ।।
आलिंग्योपपतिं मित्रं तुभ्यं दास्यामि भूषणम् ।।
तथेत्युक्त्वा तु तेनैव सोमदत्तं समागता ।। १९ ।।
दृष्ट्वा तामब्रवीद्वैश्यः कथं याता स्मरालसे ।।
सत्यं कथय मे शीघ्रं तत्पश्चात्त्वां भजाम्यहम् ।। 3.2.9.२० ।।
कामालसा तु तच्छ्रुत्वा यथा जातं तथाऽब्रवीत् ।।
श्रुत्वा स ज्ञानहृदयो विष्णुदेवेन बोधितः ।। २१ ।।
मत्वा पतिव्रतां नारीं परिक्रम्य व्यसर्जयत् ।।
चौरस्तु कारणं श्रुत्वा विष्णुदेवेन बोधितः ।। २२ ।।
गेहे प्रवेशयामास तत्पतिर्यत्र तिष्ठति ।।
सा तु कामालसा देवी स्वपातिव्रत्य धर्मिणी ।। २३ ।।
बुभुजे विषयान्दिव्यान्देवदेवेन चोदितान् ।।
इत्युक्त्वा स तु वैतालो नृपतिं प्राह कोविदम् ।।
कस्य सत्यं स्मृतं श्रेष्ठं तेषां मध्ये वदस्व मे ।। २४ ।।
।। सूत उवाच ।। ।।
इत्युक्तः स तु भूपालो वैतालमिदमब्रवीत् ।। २५ ।।
चौरस्य सत्यता श्रेष्ठा यथा जाता तथा शृणु ।।
नृपभीत्या स वैश्यस्तु तां नारीं न तु भुक्तवान्।। २६ ।।
वैधव्यभीत्या सा देवी स्वमित्रं प्रति चागता ।।
धर्मभीत्या च तत्स्वामी स्वपत्नीं न तु भुक्तवान् ।। २७ ।।
चौरस्तु सत्यभीत्या वै त्यक्त्वा तां मुदमागतः ।। २८ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये नवमोऽध्यायः ।। ९ ।।

तुलनीय - वेतालपञ्चविंशति