भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
इति श्रुत्वा स वैतालो राजानमिदमब्रवीत् ।।
विदेहदेशे भूपाल नगरी मिथिलावती ।। १ ।।
गुणाधिपस्तत्र राजा धनधान्यसमन्वितः ।।
चिरंदेव इति ख्यातो राजन्यः कश्चनागतः ।। २ ।।
वृत्त्यर्थं मिथिलादेशे तत्र वासं चकार सः ।।
वर्षांते भूपतिः सोऽपि चतुरङ्गबलान्वितः ।। ३ ।।
मृगयार्थे वनं प्राप्तस्तत्र शार्दूलमुत्तमम् ।।
दृष्ट्वा तं चावधीद्राजा क्रोधताम्रेक्षणो वने ।। ४ ।।
व्याघ्र मार्गेण भूपालो वनान्तरमुपाययौ ।।
चिरंदेवस्तु तत्पश्चाद्गतः स गहने वने ।। ५ ।।
क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापपीडितः ।।
चिरंदेवमुवाचाशु भोजनं देहि मेऽद्य भोः ।। ६ ।।
इति श्रुत्वा स राजन्यो हत्वा हरिणमुत्तमम् ।।
संस्कृत्य प्रददौ राज्ञे तन्मांसं भूपतिप्रियम् ।। ७ ।।।
तुष्टो भूपस्तदा प्राह वरं वरय सत्तम ।।
वांछितं ते ददाम्याशु स होवाच महीपतिम्।। ८।।
त्वया सहस्रमुद्राश्च खादिता मम भूपते।।
गृहमानीय भूपाल ताः समर्पय मा चिरम्।।९।।
शतमुद्रास्तु मासान्ते मह्यं देहि कुटुंबिने।।
तथेत्युक्त्वा स नृपतिः स्वगेहं शीघ्रमाययौ।। 3.2.8.१०।।
एकस्मिन्दिवसे राजन्स च राजा गुणाधिपः।।
चिरंदेवं स्वभृत्यं च प्रेषयामास सागरे।।११।।
स गत्वा सागरतटे देवीमूर्तिं ददर्श ह।।
नाम्ना कुसुमदां देवीं मार्कण्डेयस्थलस्थिताम्।।१२।।
गन्धर्वतनयां सुभ्रूं पूजयित्वा प्रसन्नधीः।।
प्रांजलिः पुरतस्तस्थौ तदा देवी समागता। ।। १३ ।।
वरं वरय तं प्राह चिरंदेवस्तु चाब्रवीत् ।।
पाणिं गृहाण मे सुभ्रूस्त्वद्रूपेण विमोहितः ।।१४।।
इति श्रुत्वा तु सा देवी विहस्योवाच कामिनम् ।।
अद्य स्नानं विधेहि त्वं मत्कुण्डे देवनिर्मिते।।१५।।
तथेत्युक्त्वा गतस्तोये प्लावितो मिथिलां ययौ।।
स स्थितो भूपतिं प्राह कारणं विस्मयप्रदम्।।१६।।
गुणाधिपस्तु तच्छ्रुत्वा स्वभृत्येन समन्वितः।।
प्राप्तवान्मंदिरे देव्याः सा भूयः प्राह पुष्पदा।।१७।।
गांधर्वेण विवाहेन मां गृहाण गुणाधिप।।
इति श्रुत्वा नृपः प्राह यदि देवि वचो मम।।१८।।
पुण्यदे त्वं गृहाणाद्य तर्हि त्वां संभजाम्यहम्।।
तथेति मत्वा तं प्राह सत्वं कार्यं निवेदय।।१९।।
स होवाच शृणु त्वं भो मम भृत्यं चिरं सुरम् ।।
भज त्वं चपलापांगि देवि सत्यं वचः कुरु ।।3.2.8.२०।।
व्रीडिता तु कथां कृत्वा भूपतिं प्राह कामिनी।।
मां भजस्व दयासिंधो कामिनीं शक्रचोदिताम् ।। २१ ।।
चिरंदेवं तु संप्राप्य कामांधा त्वां समागता ।।
पुष्पदंतरुय? तनया गन्धर्वस्य शुभानना।।
शापिता देवदेवेन नरभोगकरी ह्यहम् ।।२२।।
इति श्रुत्वा स भूपालो धर्मात्मा शीलविग्रहः ।।
कथं भजाम्यहं सुभ्रूः स्नुषामिव सुधर्मिणीम् ।। २३ ।।
चिरंदेवस्तु राजन्यो मत्पुत्र इव वर्तते ।।
तस्य त्वं भोगिनी नारी शोभने भव सांप्रतम् ।। २४ ।।
लज्जिता सा तदा देवी स्नुषेवः च ववर्त वै ।। २५ ।।
इत्युक्त्वा भूपतिं प्राह वैतालो रुद्रकिंकरः ।।
सत्यं धर्मश्च कस्यैव जातस्तन्मे वदस्व भोः ।। २६ ।।
।। सूत उवाच ।। ।।।
भूपतिस्तं विहस्याह चिरंदेवस्य जायते ।।
सत्यं धर्मश्च वेताल शृणु तत्कारणं शुभम् ।। २७ ।।
नृपाणां परमो धर्मः सर्वोपकरणं स्मृतः ।।
कृतोपकारभृत्यस्य तेन तत्किं हि सत्यता ।। २८ ।।
भृत्येन च कृतं कर्म तच्छृणुष्व वदाम्यहम् ।।
विना वृत्तिं स्थितो गेहे भूपतेर्गुणशालिनः ।।
सेवा वृत्तिः कृता सर्वा यथान्यैर्न नरैः कृता ।। २९ ।।
पश्चाद्भूपतिना ज्ञातः संकटे बृहदागते ।।
चिरंदेवस्तु तस्माच्च कारणादधिको मतः ।। 3.2.8.३० ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टमोऽध्यायः ।। ८ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशतिः