भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
भृगुवर्य महाभाग श्रुत्वा वैताल एव सः ।।
प्रसन्नात्मा वचः प्राह भूपतिं ज्ञानसंपदम् ।। १ ।।
उज्जयिन्यां महाराज महाबल इति श्रुतः ।।
चंद्रवंशी नृपः प्राज्ञो वेदशास्त्रविशारदः ।। २ ।।
तस्य दूतो हरेर्दासः स्वामिकार्यकरः सदा ।।
भक्तिमाला प्रिया तस्य साधुसेवापरायणा ।। ३ ।।
तस्यां जाता रूपवती कन्या कमललोचना ।।
महादेवीति विख्याता सर्वविद्याविशारदा ।। ४ ।।
हरिदासं च सा प्राह शृणु तात वचो मम ।।
मत्तोऽधिको नरो यो वै तस्मै मां तु ददस्व भोः ।। ५ ।।
तथेत्युक्त्वा पिता राजन्राज्ञाहूतो गतः सभाम् ।।
नत्वा तं नृपतिः प्राह हरिदास शृणुष्व भोः ।। ६ ।।
तैलंगाधिपतिं गच्छ हरिश्चंद्रं महीपतिम् ।।
तस्य क्षेमं तथा ज्ञात्वा मां निवेदय मा चिरम् ।। ।। ७ ।।
इति श्रुत्वा द्विजः प्रागाद्धरिश्चंद्रं महामतिम् ।।
कुशलं वर्णयामास महाबलनृपस्य वै ।। ८ ।।
श्रुत्वा प्रसन्नहृदयो हरिश्चंद्रो महीपतिः ।।
श्वशुरस्तस्य नृपतेः स भूयो हर्षमागतः ।। ९ ।।
हरिदासं स पप्रच्छ कलेरागमनं कदा ।।
इत्युक्तः स तु तं प्राह न्यूहश्च भविताधिकम् ।। 3.2.5.१० ।।
यदा राज्यं कृतं तेन कलेरागममनं तदा ।।
ब्रह्मणोस्य मुखाज्जात ओंकारः सत्यपूजितः ।।११।।
द्वितीयास्याच्च विविधा भाषा लोक विमोहिनी ।।
जाता कलेर्हितार्थाय यमलोकहितैषिणी ।। १२ ।।
यदा धर्मं च वेदोक्तं विपरीतं हि दृश्यते ।।
कलिराज्यं तदा ज्ञेयं म्लेच्छा यस्य प्रियाः स्मृताः।। ।। १३ ।।
कलिनाऽधर्ममित्रेण सर्वे देवा निराकृताः ।।
पापस्यैव मृषा भार्या दुःखं तत्तनयः स्मृतः ।। १४ ।।
दुर्गतिस्तस्य चार्धांगी गेहेगेहे तदा भवेत् ।।
क्रोधवश्याः नृपाः सर्वे ब्राह्मणाः कामकिंकराः ।। १५ ।।
लोभवश्यास्तु धनिनो महत्त्वं शूद्रका गताः ।।
नार्यो लज्जाविहीनाश्च किंकराः स्वामिघातकाः ।। १६ ।।
निष्फला तु मही जाता कलौ प्राप्ते हि दृश्यते ।।
ये हरेः शरणं प्राप्तास्ते सर्वे मुदिताः कलौ ।। १७ ।।
इति श्रुत्वा हरिश्चंद्रो दत्त्वा तस्मै सुदक्षिणाम् ।।
स्वगेहं प्राप्तवान्राजा विप्रस्तु शिबिरं ययौ ।। १८ ।।
एतस्मिन्नंतरे तत्र ब्राह्मणो बुद्धिकोविदः ।।
स्वविद्यां दर्शयामास हरिदासाय धीमते ।। १९ ।।
विमानं शीघ्रगं नाम देव्या दत्तं महोत्तमम् ।।
मंत्रजापात्समुद्भूतं कामजं विस्मयप्रदम् ।। 3.2.5.२० ।।
तस्मिन्ददर्श कन्यार्थे तदा विप्रो विमोहितः ।।
वरित्वा तं स्वकन्यार्थं ततः स्वपुरमागतः ।। २१ ।।
हरिदासस्य तनयो मुकुंदो नाम कोविदः ।।
पठित्वा स्वगुरुं प्राह वृणीष्व गुरुदक्षिणाम् ।। २२।।
गुरुराह च शिष्यं तं शृणु वाचं मुकुंद मे ।।
दापय स्वस्य भगिनीं मत्पुत्राय च धीमते ।।२३।।
तथेत्युक्त्वा मुकुंदस्तु स्वगेहं शीघ्रमाययौ ।।
तस्मिन्काले महादेवी द्रौणिशिष्यं द्विजं शुभम् ।। २४ ।।
वामनं वरयामास तं विप्रं शब्दवेधिनम् ।।
दक्षिणादिभिरभ्यर्च्य तांबूलेन विधानतः ।। २५ ।।
त्रयस्ते ब्राह्मणाः प्राप्ताः सुतार्थे गुणकोविदाः ।।
एतस्मिन्नन्तरे कामी राक्षसो दैवमोहितः ।। ।। २६ ।।
महादेवीं जहाराशु प्राप्तो विंध्याचले गिरौ ।।
तदा ते दुःखिनो भूत्वा विलेपुः कामपीडिता ।। २७ ।।
धीमान्नाम द्विजो विद्वांस्तान्प्राह गणकोत्तमः।।
विंध्याचले गिरौ बाला चास्ते क्रव्यादवश्यगा ।। २८ ।।
स्वविमाने समारोप्य तौ द्विजौ बुद्धिकोविदः ।।
विंध्याचले गिरौ प्राप्तः शब्दवेधी तदा धनुः ।। २९ ।।
समारोप्य शरेणैव जघानाशु स राक्षसम् ।।
कन्यां गृहीत्वा ते जग्मुरुज्जयिन्यां विमानगाः ।। 3.2.5.३० ।।
मिथो विवादवंतस्ते दृष्ट्वा कन्यां स्मरानुगाः ।।
कस्मै योग्या भवेत्कन्या भूप मे कृपया वद ।। ३१ ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा वचस्तस्य विक्रमो नाम भूपतिः ।।
प्रश्रयावनतः प्राह वैतालं रुद्रकिंकरम् ।। ३२ ।।
विदित्वा योऽवदत्कन्यां पितृतुल्यो द्विजो हि सः ।।
येन प्राप्ता विमानेन स तु तद्भ्रातृकः स्मृतः ।। ३३ ।।
हत्वा यो राक्षसं वीरं कन्यायोग्यो हि सोऽभवत् ।। ३४ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापर पर्याये कलियुगीयेतिहाससमुच्चये पंचमोऽध्यायः ।। ५ ।।

विज्ञानाद्युपरि टिप्पणी

तुलनीय- वेतालपञ्चविंशति