भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
विप्रवर्य महाभाग शृणु गाथां मनोरमाम्।।
वैतालो भूपतिश्रेष्ठं पुनर्विक्रममब्रवीत् ।।१।।
वर्द्धवन्नगरे रम्ये नानाजननिषेविते।।
तत्राभवन्महीपालो रूपसेनो महाबलः ।। २ ।।
विद्वन्माला प्रिया तस्य पतिसेवापरायणा ।।
एकदा क्षत्रियः कश्चिन्नाम्ना वीरवरः स्मृतः ।। ३ ।।
पुत्रकन्यासपत्नीको वृत्त्यर्थं समुपागतः ।।
विनयावनतो भूत्वा रूपसेनं महीपतिम् ।। ४ ।।
किंचिच्छ्रुत्वा ददौ स्वर्णं सहस्रं प्रत्यहं नृप ।।
वीरसेनस्तु तल्लब्ध्वा वह्नौ तीर्थे द्विजातिषु ।।५।।
व्ययं कृत्वा तु तच्छेषं स कुल्ये भुक्तवान्स्वयम् ।।
एवं वर्षे गते राजन्राजलक्ष्मीः शिवाज्ञया ।।६।।
परीक्षार्थं स्मशाने च रोदनं बहु कुर्वती ।।
अर्धरात्रे तदा राजा बुद्ध्वा प्राह स्वसेवकम् ।। ७ ।।
गच्छ वीरवर त्वं वै यतोऽसौ श्रूयते रवः ।।
ज्ञात्वा तत्कारणं सर्वं मह्यं शीघ्रं निवेदय ।। ८ ।।
इति श्रुत्वा वीरवरः शस्त्रास्त्रकुशलो बली ।।
स तत्र गत्वा यत्रास्ते राजलक्ष्मीः शुभानना ।। ९ ।।
श्लक्ष्णं वचश्च तामाह किमर्थं रोदने स्थिता ।।
महत्कष्टं च किं प्राप्तं कारणं देवि मे वद ।। 3.2.3.१० ।।
इति श्रुत्वा राजलक्ष्मीर्वीरसेनं तमब्रवीत् ।।
राजलक्ष्मीं च मां विद्धि रूपसेनस्य भूपतेः ।। ११ ।।
मासान्ते प्रलयं यास्ये तस्माच्छोचामि भो बलिन् ।।
स आह शृणु भो देवि त्वदल्पायुस्स मीरितम् ।।
केन पुण्येन दीर्घायुस्त्वं भवेः कारणं वद ।। १२ ।।
देव्युवाच ।।
महाबाहो महाप्राज्ञ यदि ते तनयस्य वै ।। १३ ।। ।।
कपालमर्पय त्वं च चंडिकायै तदानघ ।।
दीर्घायुर्भविता चाहं स्वामिकार्यं प्रसाधय।।१४।।
इति श्रुत्वा वीरवरो मंदिरं स्वयमागतः ।।
पत्नीं प्राह प्रसन्नात्मा सुतं देव्यै निवेदय ।। १५ ।।
तथेत्युक्त्वा तु सा साध्वी तनयं प्राह निर्भया ।।
राज्ञोऽर्थे तव देहं वै पुत्र पासि कुरुष्व तत् ।। १६ ।।
तथा मत्वा तु तत्पुत्रो भगिन्या मातृसंयुतः।।
चंडिकाभवनं प्राप्याब्रवीत्स्वपितरं तदा ।। १७ ।।
भोस्तात मे कपालं च चंडिकायै समर्पय ।।
दीर्घायुर्येन यत्नेन राजलक्ष्मीश्च तत्कुरु ।। १८ ।।
इति श्रुत्वा वीरसेनः शिरश्छित्त्वा समार्पयत् ।।
तस्यानुजा मृता तत्र तथा माता तथा पिता ।। १९ ।।
दृष्ट्वा तद्रूप सेनस्तु कारणं सर्वमादितः ।।
सेवकं सत्यसंधं च मत्वा तु स्वशिरोऽर्पयत् ।। 3.2.3.२० ।।
तदा प्रसन्ना सा देवी नृपमुजीव्य साब्रवीत् ।।
वरं वरय भूपाल यथेष्टं शीघ्रमाप्नुयाः ।। २१ ।।
स आह वीरसेनस्तु सकुलो जीवमाप्नुयात् ।।
तथेत्युक्त्वा तु सा देवी तत्रैवांतर्हिताभवत् ।। २२ ।।
रूपसेनः प्रसन्नात्मा स्वसुतां कामरूपिणीम् ।।
ददौ सुताय वैतालो नृपतिं प्राह विस्मितः।।
मुख्यस्नेहं कृतं केन तेषां मध्ये वदस्व मे ।।२३।।
।। राजोवाच ।।
मुख्यस्नेहं कृतं राज्ञा दासार्थे स्वतनुं ददौ ।।
स्वर्णस्नेही वीरवरो धमर्प्रीतिः पतिव्रता ।।
बंधुप्रीतिश्च भगिनी पितृस्नेही तु पुत्रकः ।। २४ ।।
महान्स्नेहः कृतो राज्ञा रूपसेनेन धीमता ।। २५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये तृतीयोऽध्यायः ।। ३ ।।

तुलनीय - वेतालपञ्चविंशति

वीरवर - शूद्रकोपरि टिप्पणी