भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
इत्युक्तस्स तु वैतालो महाकालेश्वरस्थितः ।।
शिवं मनसि संस्थाप्य राज्ञानमिदमब्रवीत्।।
विक्रमादित्यभूपाल शृणु गाथां मनोरमाम् ।।
वाराणसी पुरी रम्या महेशो यत्र तिष्ठति ।। २ ।।
चातुर्वर्ण्यप्रजा यत्र प्रतापमुकुटो नृपः ।।
महादेवी च महिषी धर्मज्ञस्य महीपतेः ।। ३ ।।
तत्पुत्रो वज्रमुकुटो मंत्रिणः सुतवल्लभाः ।।
षोडशाब्देऽथ संप्राप्ते हयारूढो वनं गतः ।।४।।
अमात्यतनयश्चैव बुद्धिदक्ष इति श्रुतः ।।
हयारूढो गतः सार्धं समानवयसा वने ।।५।।
स दृष्ट्वा विपिनं रम्यं मृगपक्षिसमन्वितम् ।।
मुमोद वजमुकुटः कामाशयवशं गतः ।। ६ ।।
तत्र दिव्यं सरो रम्यं नानापक्षिनिनादितम् ।।
तस्य कूले शिवस्थानं मुनिवृंदैः प्रपूजितम् ।। ७ ।।
दृष्ट्वा तत्र गतौ वीरौ परमानंदमापतुः ।।
एतस्मिन्नंतरे भूप करणाटकभूपतेः ।। ८ ।।
दंतवक्त्रस्य तनया नाम्ना पद्मावती मता ।।
कामदेवं नमस्कृत्य कामिनी कामरूपिणी ।।९।।
चिक्रीड सखिभिः क्रीडां सरोमध्ये मनोहरा ।।
तदा तु वज्रमुकुटो मन्दिरादागतो बहिः ।। 3.2.1.१० ।।
दृष्ट्वा पद्मावतीं बालां तुल्यरूपगुणान्विताम्।।
मूर्च्छितः पतितो भूमौ सा दृष्ट्वा तु मुमोह वै ।। ११ ।।
प्रबुद्धो वज्रमुकुटो मां पाहि शिवशंकर ।।
इत्युक्त्वा भूपतनयः पुनर्बालां ददर्श ह ।। १२
शिरसः पद्मकुसुमं सा गृहीत्वा तु कर्णयोः ।।
कृत्वा चखान दशनैः पादयोर्दधती पुनः ।। १३ ।।
पुनर्गृहीत्वा तत्पुष्पं हृदये संप्रवेशितम् ।।
इति भावं च सा कृत्वाऽऽलिभिः सार्धं ययौ गृहम् ।। १४ ।।
तीर्थार्थं च समं पित्रा संप्राप्ता गिरिजावने ।।
तस्यां गतायां स नृपो मारबाणेन पीडितः ।। १५ ।।
महतीं मानसीं पीडां प्राप्तवान्मोहमागतः ।।
उन्मादीव ततो भूत्वा खाद्यपानविवर्जितः ।। १६ ।।
ध्यात्वा पद्मावतीं बालां मौनव्रतमचीकरत् ।।
तदा कोलाहलो जातः प्रतापमुकुटांतिके ।। १७ ।।
कुमारः कां दशां प्राप्त इति हाहेति सर्वतः ।।
त्रिदिनांते मंत्रिसुतो बुद्धि दक्षो विशारदः ।। १८ ।।
अब्रवीद्वज्रमुकुटं सत्यं कथय भूपते ।।
स आह कारणं सर्वं यथा जातं सरोवरे ।। १९ ।।
तच्छ्रुत्वा बुद्धिदक्षश्च विहस्याह महीपतिम् ।।
महाकष्टेन सा देवी मित्रत्वं हि गमिष्यति ।। 3.2.1.२० ।।
करणाटकभूपस्य दंतवक्त्रस्य सा सुता ।।
पद्मावतीति विख्याता दधती त्वां स्वमानसे ।। २१ ।।
पुष्पभावेन ज्ञात्वाहं त्वां नयामि तदंतिके ।।
इत्युक्त्वा तस्य पितरं प्रतापमुकुटं प्रति ।। २२ ।।
आहाज्ञां देहि भूपाल यास्येहं कारणाटके ।।
त्वत्सुतस्य चिकित्सार्थं स वज्रमुकुटोऽचिरम् ।। २३ ।।
आयामि नाऽत्र सन्देहो यदि जीवयसे सुतम् ।।
तथेति मत्वा स नृपः प्रादात्पुत्रं च मन्त्रिणे ।। २४ ।।
हयारूढौ गतौ शीघ्रं दंतवक्त्रस्य पत्तने ।।
काचिद्वृद्धा स्थिता तत्र तस्या गेहं च तौ गतौ ।। २५ ।।
बहुद्रव्यं ददौ तस्यै बुद्धिदक्षो विशारदः ।।
ऊषतुर्मंदिरे तस्मिन्रात्रिं घोरतमोवृताम् ।। २६ ।।
प्रातःकाले तु सा वृद्धा गच्छती राजमन्दिरम् ।।
तामाह मन्त्रितनयः शृणु मातर्वचो मम ।। २७ ।।
पद्मावतीं च संप्राप्यैकांते मद्वचनं वद ।।
ज्येष्ठशुक्लस्य पञ्चम्यामिंदुवारे सरोवरे ।। २८ ।।
यो दृष्टः पुरुषो रम्यस्त्वदर्थे समुपागतः।।
इति श्रुत्वा ययौ वृद्धा पद्मं तस्यै न्यवेदयत् ।। २९ ।।
रुष्टा पद्मावती प्राह चंदनार्द्रांगुलीयिका ।।
गच्छ गच्छ महादुष्टे तलेनोरस्यताडयत् ।।3.2.1.३० ।।
अंगुलीभिः कपोलौ च तस्याः स्पृष्ट्वा ययौ गृहम् ।।
सा तु वृद्धा बुद्धिदक्षं सर्वं भावं न्यवेदयत् ।। ।। ३१ ।।
स मित्रं दुःखितं प्राह शृणु मित्र शुचं त्यज ।।
त्वामाह भूपतेः कन्या प्राणप्रिय वचः शृणु ।। ३२ ।।
त्वदर्थे ताडितं वक्षः कदा मित्रं भविष्यसि।।
श्रुत्वा तन्मधुरं वाक्यं रजो देहे समागतम् ।। ३३ ।।
रजस्वलांते भो मित्र तवास्यं चुंबितास्म्यहम् ।।
इति श्रुत्वा भूपसुतः परमानन्दमाययौ ।। ३४ ।।
त्रिदिनांते तु सा वृद्धा पद्मावत्यै न्यवेदयेत् ।।
त्वामुत्सुकः स भूपालस्तव दर्शनलालसः ।। ३५ ।।
तं भजस्वाद्य सुश्रोणि सफलं जीवनं कुरु ।।
इति श्रुत्वा महाहृष्टा सा मस्यार्द्रांगुलीयकम् ।। ३६ ।।
गवाक्षद्वारि निष्कास्य तले पृष्ठे च ताडिता ।।
तथैव वृद्धा तं प्राप्य मन्त्रिणं चाब्रवीद्वचः ।। ३७ ।।
प्रसन्नो बुद्धिदक्षश्च मित्रं प्राह शृणुष्व भोः ।।
पश्चिमे दिशि भोः स्वामिन्गवाक्षं तव निर्मितम् ।। ३८ ।।
अर्द्धरात्रे तु संप्राप्य भज मां कामविह्वलाम् ।।
श्रुत्वा तद्वज्रमुकुटः प्रियादर्शनलालसः ।। ३९ ।।
ययौ शीघ्रं महाकामी रमणीं तामरामयत् ।।
मासांते कामशिथिलो मित्रदर्शनलालसः ।। 3.2.1.४० ।।
पद्मावतीं प्रियां प्राह शृणु वाक्यं वरानने ।।
येन प्राप्तवती मह्यं त्वं सुभ्रूः सुरदुर्लभा ।। ४१ ।।
तन्मित्रं बुद्धिदक्षश्च किं नु तिष्ठति सांप्रतम् ।।
आज्ञां देहि प्रिये मह्यं दृष्ट्वायास्यामि तेंऽतिकम् ।। ४२ ।।
इति श्रुत्वा वचस्तस्य निष्ठुरं कुलिशोपमम् ।।
मिष्टान्नं सविषं कृत्वा मंत्रिणे सा न्यवेदयत् ।। ४३ ।।
तदा तु बुद्धिदक्षश्च चित्रगुप्तप्रपूजकः ।।
ज्ञात्वा तत्कारणं सर्वं न तु भक्षितवान्स्वयम् ।। ४४ ।।
एतस्मिन्नन्तरे प्राप्तो भूपतिस्त्वरयान्वितः ।।
विवेकवन्तं मित्रं तं दृष्ट्वा प्राह रुषान्वितः ।। ४५ ।।
कस्मान्न खादितं मित्र भोजनं मत्प्रियाकृतम् ।।
विहस्य बुद्धिदक्षस्तु सारमेये ददौ हि तत् ।। ४६ ।।
भुक्त्वा स मरणं प्राप्तः स दृष्ट्वा विस्मितो नृपः ।।
स्त्रीचरित्रं च विज्ञाय स्नेहं त्यक्त्वाऽब्रवीत्तु तम् ।।४७।।
मित्र गच्छ गृहं शीघ्रं मया त्यक्ता च पापिनी ।।
स आह शृणु भूपाल गच्छ शीघ्रं प्रियांतिकम् ।।४८।।
तदलंकारमाहृत्य त्रिशूलं कुरु जानुनि ।।
प्रसुप्तां त्यज भो मित्र याहि त्वं मा विचारय ।। ४९ ।।
इति श्रुत्वा ययौ भूपस्तथा कृत्वा समागतः ।।
स्वमित्रेण ययौ सार्धं स्मशाने रुद्रमण्डपे ।। 3.2.1.५० ।।
शिष्यं कृत्वा नृपं तं स योगिरूपो हि भूषणम् ।।
विक्रयार्थं ददौ तस्मै स्वमित्राय स बुद्धिमान् ।। ५१ ।।
स वज्रमुकुटो मत्वा तदाज्ञां नगरं गतः ।।
चोरोयमिति तं मत्वा बद्ध्वा राज्ञो हि रक्षिणः ।। ५२ ।।
शीघ्रं निवेदयामासुर्दन्तवक्त्रस्तमब्रवीत् ।।
क्व प्राप्तं भूषणं रम्यं सर्वं कथय पूरुष ।। ५३ ।।
जटिलः प्राह भो राजन्श्मशाने मद्गुरुः स्थितः ।।
तेन दत्तं विक्रयार्थं भूषणं स्वर्णगुंठितम् ।। ५४ ।।
इति श्रुत्वा स नृपतिस्तूर्णमाहूय तद्गुरुम् ।।
भूषणं पृष्टवान्राजा योगी प्राह शृणुष्व भोः ।। ५५ ।।
स्मशाने संधितं मंत्रं मया योगिस्वरूपिणा ।।
पिशाची प्रापिता काचित्तस्याश्चिह्नं मया कृतम् ।। ५६ ।।
वामजानुनि शूलेन तया दत्तं हि भूषणम् ।।
ज्ञात्वा तत्कारणं राजा सुता निष्कासिता गृहात् ।। ५७ ।।
स वज्रमुकुटस्तां तु गृहीत्वा गृहमाययौ ।।
विहस्य प्राह वैतालः शृणु विक्रमभूपते ।। ५८ ।।
कस्मै पापं महत्प्राप्तं चतुर्णा मे वदाधुना ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा वचस्तस्य विक्रमो नाम भूपतिः ।। ५९ ।।
विहस्य भार्गवं प्राह प्राप्तं पापं हि भूपतेः ।।
मित्रकार्यममात्येन स्वामिकार्यं च रक्षिभिः ।। 3.2.1.६० ।।
भूप पुत्रेणार्थसिद्धं कृतं तस्माच्च भूपतेः ।।
महत्पापं च संप्राप्तं तेनासौ नरकं गतः ।। ६१ ।।
रजोवतीं सुतां दृष्ट्वा न विवाहेत यो नरः ।।
स पापी नरकं याति षष्टिवर्षसहस्रकम् ।। ६२ ।।
गांधर्वं च विवाहं वै कामिन्या च कृतं यया ।।
तस्या विघ्नकरो यो वै स पापी यमपीडितः ।। ६३ ।।
अदृष्टदोषां यः कन्यां विवेकेन विना त्यजेत् ।।
स पापी नरकं याति लक्षवर्षप्रमाणकम् ।। ६४ ।।
इति श्रुत्वा? स वैतालो धर्मगाथां नृपेरिताम् ।।
प्रसन्नहृदयः प्राह भूपतिं धर्मतत्परम् ।।६५ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये नाम प्रथमोऽध्यायः ।। १ ।।

[सम्पाद्यताम्]

मुकुटोपरि टिप्पणी

तुलनीय - वेतालपंचविंशतिः