भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
चित्रकूटगिरेर्देशे परिहारो महीपतिः ।।
कलिंजरपुरं रम्यमक्रोशायतनं स्मृतम् ।। १ ।।
अध्यास्य बौद्धहंता स सुखितोभवदूर्जितः ।।
राजपुत्राख्यदेशे च चपहानिर्महीपतिः ।। २ ।।
अजमेरपुरं रम्यं विधिशोभासमन्वितम् ।।
चातुर्वर्ण्ययुतं दिव्यमध्यास्य सुखितोऽभवत् ।। ३ ।।
शुक्लो नाम महीपालो गत आनर्तऽमंडले ।।
द्वारकां नाम नगरीमध्यास्य सुखितोऽभवत् ।। ४ ।। ।
।। शौनक उवाच ।।
तेषामग्न्युद्भवानां च ये भूपा राज्यसत्कृताः ।।
तान्मे ब्रूहि महाभाग सूतो वाक्यमथाब्रवीत् ।। ५ ।।
गच्छध्वं ब्राह्मणाः सर्वे योगनिद्रावशो ह्यहम् ।।
तच्छुत्वा मुनयः सर्वे विष्णोर्ध्यानं प्रचक्रिरे ।। ६ ।।
पूर्णे द्वे च सहस्रान्ते सूतो वचनमब्रवीत् ।।
सप्तत्रिंशशते वर्षे दशाब्दे चाधिके कलौ ।। ७ ।।
प्रमरो नाम भूपालः कृतं राज्यं च षट्समाः।।
महामदस्ततो जातः पितुरर्धं कृतं पदम् ।।८।।
देवापिस्तनयस्तस्य पितु स्तुल्यं कृतं पदम् ।।
देवदूतस्तस्य सुतः पितुस्तुल्यं स्मृतं पदम् ।। ९ ।।
तस्माद्गंधर्वसेनश्च पंचाशदब्दभूपदम् ।।
कृत्वा च स्वसुतं शंखमभिषिच्य वनं गतः ।। 3.1.7.१० ।।
शंखेन तत्पदं प्राप्तं राज्यं त्रिंशत्समाः कृतम् ।।
देवांगना वीरमती शक्रेण प्रेषिता तदा ।। ११ ।।
गंधर्वसेनं संप्राप्य पुत्ररत्नमजीजनत् ।।
सुतस्य जन्मकाले तु नभसः पुष्पवृष्टयः ।। १२ ।।
पेतुर्दुंदुभयो नेदुर्वांति वाताः सुखप्रदाः ।।
शिवदृष्टिर्द्विजो नाम शिष्यैस्सार्द्धं वनं गतः ।। १३ ।।
विंशद्भिः कर्मयोगं च समाराध्य शिवोऽभवत् ।।
पूर्णे त्रिंशच्छते वर्षे कलौ प्राप्ते भयंकरे ।। १४ ।।
शकानां च विनाशार्थमार्यधर्मविवृद्धये ।।
जातश्शिवाज्ञया सोऽपि कैलासाद्गुह्यकालयात् ।। १५।।
विक्रमादित्यनामानं पिता कृत्वा मुमोद ह ।।
स बालोऽपि महाप्राज्ञः पितृ मातृप्रियंकरः ।। १६ ।।
पञ्चवर्षे वयःप्राप्ते तपसोऽर्थे वनं गतः ।।
द्वादशाब्दं प्रयत्नेन विक्रमेण कृतं तपः ।। १७ ।।
पश्चादम्बावतीं दिव्यां पुरीं यातः श्रियान्वितः ।।
दिव्यं सिंहासनं रम्यं द्वात्रिंशन्मूर्तिसंयुतम् ।। १८ ।।
शिवेन प्रेषितं तस्मै सोपि तत्पदमग्रहीत् ।।
वैतालस्तस्य रक्षार्थं पार्वत्या निर्मितो गतः ।। १९ ।।
एकदा स नृपो वीरो महाकालेशश्वरस्थलम् ।।
गत्वा सम्पूजयामास देवदेवं पिनाकिनम् ।। 3.1.7.२० ।।
सभा धर्ममयी तत्र निर्मिता व्यूहविस्तरा ।।
नानाधातुकृतस्तम्भा नानामणिविभूषिता ।।२१।।
नानाद्रुमलताकीर्णा पुष्पवल्लीभिरन्विता ।।
तत्र सिंहासनं दिव्यं स्था पितं तेन शौनक ।। २२ ।।
आहूय ब्राह्मणान्मुख्यान्वेदवेदांगपारगान् ।।
पूजयित्वा विधानेन धर्मगाथामथाऽशृणोत् ।। २३ ।।
एतस्मिन्नन्तरे तत्र वैतालो नाम देवता ।।
स कृत्वा ब्राह्मणं रूप जयाशीर्भिः प्रशस्य तम् ।। २४ ।।
उपविश्यासने विप्रो राजानमिदमब्रवीत् ।।
यदि ते श्रवणे श्रद्धा विक्रमादित्यभूपते ।। २५ ।।
वर्णयामि महाख्यानमितिहाससमुच्चयम् ।। २६ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापर पर्याये कलियुगसंभूतरविशशिवंशभूपवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।।
इति प्रथमखंडः संपूर्णः ।। १ ।।

अग्रिम पुटं

वेतालोपरि टिप्पणी