भविष्यपुराणम् /पर्व ३(प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०३

विकिस्रोतः तः

श्रीसूत उवाच।। ।।
शालिवाहनवंशे च राजानो दश चाभवन्।।
राज्यं पंचशताब्दं च कृत्वा लोकान्तरं ययुः।। १।।
मर्य्यादा क्रमतो लीना जाता भूमंडले तदा।।
भूपतिर्दशमो यो वै भोजराज इति स्मृतः ।।
दृष्ट्वा प्रक्षीणमर्य्यादां बली दिग्विजयं ययौ ।। २ ।।
सेनया दशसाहस्र्या कालिदासेन संयुतः ।।
तथान्यैर्ब्राह्मणैः सार्द्धं सिंधुपारमुपाययौ ।। ३ ।।
जित्वा गांधारजान्म्लेच्छान्काश्मीरान्नारवाञ्छठान् ।।
तेषां प्राप्य महाकोशं दंडयोग्यानकारयत् ।।४।।
एतस्मिन्नन्तरे म्लेच्छ आचार्य्येण समन्वितः।।
महामद इति ख्यातः शिष्यशाखासमन्वितः।।५।।
नृपश्चैव महादेवं मरुस्थलनिवासिनम्।।
गंगाजलैश्च संस्नाप्य पंचगव्यसमन्वितैः।।
चंदनादिभिरभ्यर्च्य तुष्टाव मनसा हरम्।।६।।
भोजराज उवाच।।
नमस्ते गिरिजानाथ मरुस्थलनिवासिने ।।
त्रिपुरासुरनाशाय वहुमायाप्रवर्त्तिने ।। ७ ।।
म्लेच्छैर्गुप्ताय शुद्धाय सच्चिदानन्दरूपिणे ।।
त्वं मां हि किंकरं विद्धि शरणार्थमुपागतम्।।८ ।।
।।सूत उवाच ।। ।।
इति श्रुत्वा स्तवं देवः शब्दमाह नृपाय तम् ।।
गंतव्यं भोजराजेन महाकालेश्वरस्थले ।। ९ ।।
म्लेच्छैस्सुदूषिता भूमिर्वाहीका नाम विश्रुता ।।
आर्य्यधर्मो हि नैवात्र वाहीके देशदारुणे ।। 3.3.3.१० ।।
बभूवात्र महामायी योऽसौ दग्धो मया पुरा।।
त्रिपुरो बलिदैत्येन प्रेषितः पुनरागतः ।। ११ ।।
अयोनिः स वरो मत्तः प्राप्तवान्दैत्यवर्द्धनः ।।
महामद इति ख्यातः पैशाचकृतितत्परः ।। १२ ।।
नागन्तव्यं त्वया भूप पैशाचे देशधूर्तके ।।
मत्प्रसादेन भूपाल तव शुद्धिः प्रजायते ।। १३ ।।
इति श्रुत्वा नृपश्चैव स्वदेशान्पुनरागमत्।।
महामदश्च तैः सार्द्धं सिंधुतीरमुपाययौ ।। १४ ।।
उवाच भूपतिं प्रेम्णा मायामदविशारदः ।।
तव देवो महाराज मम दासत्वमागतः ।। १५ ।।
ममोच्छिष्ठं सभुंजीयाद्यथा तत्पश्य भो नृप ।।
इति श्रुत्वा तथा दृष्ट्वा परं विस्मयमागतः ।। १६ ।।
म्लेच्छधर्मे मतिश्चासीत्तस्य भूपस्य दारुणे।।१७।।
तच्छ्रुत्वा कालिदासस्तु रुषा प्राह महामदम् ।।
माया ते निर्मिता धूर्त नृपमोहनहेतवे ।। १८ ।।
हनिष्यामि दुराचारं वाहीकं पुरुषाधमम् ।।।
इत्युक्त्वा स द्विजः श्रीमान्नवार्णजपतत्परः ।। १९ ।।
जप्त्वा दशसहस्रं च तद्दशांशं जुहाव सः ।।
भस्म भूत्वा स मायावी म्लेच्छदेवत्वमागतः।।3.3.3.२०।।।
भयभीतास्तु तच्छिष्या देशं वाहीकमाययुः ।।
गृहीत्वा स्वगुरोर्भस्म मदहीनत्वमागतम् ।। २१ ।।
स्थापितं तैश्च भूमध्ये तत्रोषुर्मदतत्पराः ।।।
मदहीनं पुरं जातं तेषां तीर्थं समं स्मृतम् ।। २२ ।।
रात्रौ स देवरूपश्च बहुमायाविशारदः ।।
पैशाचं देहमास्थाय भोजराजं हि सोऽब्रवीत्।।२३।।
आर्य्यधर्मो हि ते राजन्सर्वधर्मोत्तमः स्मृतः।।
ईशाज्ञया करिष्यामि पैशाचं धर्मदारुणम् ।। २४ ।।
लिंगच्छेदी शिखाहीनः श्मश्रुधारी स दूषकः ।।
उच्चालापी सर्वभक्षी भविष्यति जनो मम ।। २५ ।।
विना कौलं च पशवस्तेषां भक्ष्या मता मम ।।
मुसलेनैव संस्कारः कुशैरिव भविष्यति ।। २६ ।।
तस्मान्मुसलवन्तो हि जातयो धर्मदूषकाः ।।
इति पैशाचधर्मश्च भविष्यति मया कृतः ।। २७ ।।
इत्युक्त्वा प्रययौ देवः स राजा गेहमाययौ ।।
त्रिवर्णे स्थापिता वाणी सांस्कृती स्वर्गदायिनी ।। २८ ।।
शूद्रेषु प्राकृती भाषा स्थापिता तेन धीमता ।।
पंचाशदब्दकालं तु राज्यं कृत्वा दिवं गतः ।। २९ ।।
स्थापिता तेन मर्य्यादा सर्वदेवोपमानिनी ।।
आर्य्यावर्तः पुण्यभूमिर्मध्यं विंध्यहिमालयोः ।। 3.3.3.३० ।।
आर्य्य वर्णाः स्थितास्तत्र विंध्यान्ते वर्णसंकराः ।।
नरा मुसलवन्तश्च स्थापिताः सिंधुपारजाः ।। ३१ ।।
बर्बरे तुषदेशे च द्वीपे नानाविधे तथा ।।
ईशामसीहधर्म्माश्च सुरै राज्ञैव संस्थिताः ।। ३२ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये तृती योऽध्यायः ।। ३ ।।