सामग्री पर जाएँ

भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः २०

विकिस्रोतः तः

ग्रहोपद्रवोत्पातशान्तिवर्णनम्

।। सूत उवाच ।। ।।
दुर्निमित्तान्यथो वक्ष्ये शृण्वंतु मुनिसत्तमाः ।।
यस्य ये ग्रहदोषाः स्युस्तेषां शांतिं यथाक्रमात् ।। १ ।।
दिव्यंतरिक्षे भौमे चेत्येवं त्रिः परिकीर्तितम् ।।
ग्रहर्क्षाद्यैः कृतं दिव्यमान्तरिक्षं निबोध मे ।। २ ।।
उल्काहितो दिशो दाहः परिवेषस्तथैव च ।।
जलाशयानां वै कृत्यं भौमं तदपि कीर्तितम् ।। ३ ।।
भौमं चाल्पफलं ज्ञेयं दिव्यान्तरिक्षमेव च ।।
सप्ताहमफलं दद्याद्दैवं चापि च तत्क्षणात् ।। ४ ।।
देवानां हसनं चैव कल्कनं रुधिरस्रवः ।।
अकस्माद्व्यसनं तत्र यत्र निर्घातनिर्दयः ।।
सर्पाद्यारोहणं चैव दैवं तदपि कीर्तितम् ।। ५ ।।
ततो मेघात्समुत्पन्ना यदि वृष्टिः शिलातले ।।
सप्ताहाभ्यंतरे जीवमुत्पन्नं निष्फलं भवेत् ।। ६ ।।
एकराशिस्थिताः पापाः शनिभौमदिवाकराः ।।
पृथ्वी धूमाकुला तत्र रुदंति बहवो जनाः ।।७।।
अभिचारं गते जीवे शनौ च तत्र नागते ।।
तत्र पश्यति राजेन्द्रः को धरां धारयिष्यति।।८।।
सूर्यमपश्यनो द्वंद्वं दिग्दाहश्च तथैव च ।।
दर्शनं धूमकेतोश्च नक्षत्रे धूमदर्शनम् ।। ९ ।।
भूकम्प एव मासे च एकमासे तथा दिने ।।
राज्ञो जन्मदिने वाथ शक्रचापं दिनांतरे ।। 2.3.20.१० ।।
दर्शनं खरवातस्य ग्रहयुद्धस्य दर्शनम् ।।
मासत्रये तु ग्रहणमुल्कापातप्रपातनम् ।। ११ ।।
आकाशेऽप्यथ भूमौ च तत्र मण्डूकमेव च ।।
हरिद्रावृष्टिः पाषाणे सिंहबिल्वाकृतिर्यदि ।।
दर्शने राष्ट्रदुर्भिक्षमकरं नृपतिक्षयः ।। १२।।
चैत्रे कुम्भे नदीवेगदर्शने विप्लवो भवेत् ।।
अर्क स्याद्भुतमेतद्धि स्रुग्युक्तं श्रपयेच्चरुम् ।। १३ ।।
[]आकृष्णेनेति मन्त्रेण अथ वार्केण यत्नतः ।।
प्रासादतोरणं तत्र द्वारं३.४३ प्राकारवेश्म च ।। १४ ।।
धान्यसारं गवां सारं कूपे कुम्भप्रदर्शनम् ।।
आदित्यस्याद्भुतं विद्यात्कमलं जुहुयात्ततः ।।१५।।
सहस्रं जुहुयाद्वाथ ततः शांतिर्भवेद्ध्रुवम् ।।
विकृताः पक्षिणश्चैव पांडुकपोतकास्ततः ।। १६ ।।
श्वेतोलूको बृहंश्चैव द्रोणकाकश्च कोकिलः ।।
क्रौंचश्च वर्द्धनी चैव निपतंति गृहे यदि ।। १७ ।।
गृहे तस्य महोत्पातो भविष्यति न संशयः ।।
स्थूलभङ्गप्रग्रहणं प्ररोहणमथापि वा ।। १८ ।।
हाराः कटकटायंते जातस्य दंतसम्भवः ।।
हसता देवतानां च गात्रे स्वेदश्च जायते ।।
सर्पमण्डूकप्रसवः कुंभे वापि क्वचिद्भवेत् ।। १९ ।।
निमित्तान्येवमादीनि जायंते यस्य वेश्मनि ।।
षड्भिर्मासैश्च म्रियते गृहिणी च शुभा च या ।।2.3.20.२०।।
अशनिः पतते यत्र गृहे वज्रं च पादपे ।।
शुक्ला वह्निस्फुलिंगाश्च तस्य विद्धि महद्भयम् ।।२१।।
खर्जूर उदरावर्ते निकोचगरलेऽपि च ।।
फलिवृक्षे तिन्दुके च यत्र निर्जायते क्वचित् ।।२२।।
उद्याने देवगेहे च स्वगृहे चैत्यवृक्षके ।।
कुर्यादादित्यवारे वा अयुतं तिलपायसम् ।।
ततः शांतिर्भवेदाशु धेनुं दद्याच्च दक्षिणाम् ।। २३ ।।
पायसं तिलमुद्गौ च पुष्पं वा तालवृन्तकम् ।।
इक्षुमोदकपिण्याकाञ्जुहुयाद्रविमुद्दिशन् ।। २४ ।।
सिंहासनं रथच्छत्रं ध्वजश्चामरभूषिते ।।
अकस्माद्दृश्यते यत्र राज्ञो वान्यत्र कुत्रचित् ।। २५ ।।
नदयंति च सत्यस्योज्ज्वलनं स्त्रीपुरुषयोः ।।
आगमस्य च दृष्ट्वैव भंगः कटकटायनम् ।। २६ ।।
उपरिष्टाद्भवेद्यस्य महोत्पातो भवेदयम् ।।
चलत्वं चाधरस्यापि तथा कटकटायनम् ।। २७ ।।
रुदितं कोकिलस्यापि उलूकोप्यशुभं वदेत् ।।
राजामात्यविनाशाय महीं च तत्सुतोऽपि वा ।।
हस्तिनो मदयुक्ताश्च म्रियंते नात्र संशयः ।। २८ ।।
ताडीपूगादयो यत्र यमौ स्यातां प्रमादतः ।।
गेही तत्र विनश्येत सदारः पुत्रसंयुतः ।। २९ ।।
बद्धपुष्पे यदा पुष्पं फलं वा यदि दृश्यते ।।
अक्षतादर्शनात्तत्र सोमस्याद्भुतदर्शनम् ।।
दधि मधु घृतं चैव जुहुयादयुतं द्विजाः ।।2.3.20.३०।।
पालाशं सोममुद्दिश्य सोमस्य च भवेद्दिने ।।
[]इमंदेवा इति मंत्रेण सोमाय श्रपयेच्चरुम् ।।३१।।
उत्पतंति गृहे यस्य यवा माषाश्च पुष्कलाः ।।
दधिक्षीराज्यपाकेषु रुधिरं दृश्यते यदि ।।३२।।
अकस्माद्गृहदाहस्तु अनग्निज्वलनं यथा ।।
मेघहीना भवेद्विद्युद्वृषस्योद्गमनं तथा ।।३३।।
व्याधिलीना विनश्यंति निखिलाः पशुमानुषाः ।।
एवं सर्वाणि भूतानि भवंत्यकारके ध्रुवम् ।। ३४
राजामात्यविनाशाय गेहे गेही विनश्यति ।।
प्राणनाशाय विप्रायाहुत्या च प्रभवंति हि ।। ३५ ।।
दृष्ट्वा वाभद्रमत्युग्रं जुहुयादयुतं क्रमात् ।।
दधिमधुघृतैर्युक्तं खादिरोदुम्बरेऽपि च ।। ३६ ।।
[]अग्निर्मूद्धेंति मंत्रेण श्रपितं लोहितं चरुम् ।।
त्रिविप्रान्भोजयेद्दद्याद्दक्षिणां लोहितं ततः ।।
स्वर्णमंगारमुद्दिश्य ततः शांतिः प्रजायते ।। ३७ ।।
पुष्पं वा पातयेद्यत्र फलं वापि तथैव च ।।
दध्यन्नं च घृतैर्मिश्रं रौप्यं हिरण्यमेव च ।।३८।।
हस्त्यश्वमहिषा गावो दारापत्यधनानि च ।।
तुष्टेनांगारकेणैव सर्वमेतत्प्रदीयताम्।।
आंगारकेण मंत्रेण खादिरं चाक्षतैर्युतम्।। ।। ३९ ।।
दक्षिणां च यथाशक्ति दद्याद्विप्राय वा पुनः ।।
लोहितं च बलिं दद्यात्ततः संपद्यते शुभम् ।।2.3.20.४०।।
धावंति चोर्ध्वपुच्छाश्च गृहे गावः स्वयं यदि ।।
आरोहंति गृहं विप्राः सारमेयाश्च सूकराः।। ४१ ।।
गृहे यस्य भवंत्येते तस्य भार्या विनश्यति ।।
सर्वेषां वा भवेन्मृत्युर्वंध्या गौर्वा प्रजायते ।।४२।।
मिथ्यावादेन गेही च राज्ञा वादैश्च तिष्ठति ।।
अथ वा यद्गृहे गावो नर्दयंति हसंति च ।।४३।।
धरणीहननं यत्र द्वयोरास्कदनं तथा ।।
निमित्तान्येवमादीनि गोश्वजातानि सत्तमाः ।।४४।।
यस्य गेहे भवंत्येते नाशस्तस्य भवेद्ध्रुवम् ।।
मण्डूकसर्पकूष्मांडाः प्रसुवंति यथा स्त्रियः ।।४५।।
अकस्माद्यदि चैतानि बुधस्योत्पातलक्षणम् ।।
शांतिं तत्र प्रवक्ष्यामि यथा संपद्यते सुखम् ।। ४६ ।।
दधिमधुघृताक्तं च अपामार्गं तथा पुनः ।।
अयुतं बुधवारे च जुहुयाच्छ्रद्धया युतः ।। ४७ ।।
अंबकेति च मंत्रेण बुधाय श्रपयेच्चरुम् ।।
सुवर्णं बुधमुद्दिश्य गां च दद्यात्पयस्विनीम् ।। ४८ ।।
सुवर्णं पुष्पवृष्टिं च सुफलं चाक्षतं तथा ।।
गृहे प्रांगणके यस्य निपतंति कदाचन ।।४९।।
अलंकारयुतां वापि सर्वाभरणभूषिताम् ।।
गृहमध्ये तु यः पश्ये त्क्षीणामंतर्हितां स्त्रियम् ।। 2.3.20.५० ।।
अकस्मान्मालतीपुष्पं जातं स्यात्तस्य वा गृहे ।।
सोमाय न च संतुष्टः सर्वमेतत्प्रदृश्यते ।। ५१ ।।
धनं धान्यं तथा पुत्र ऐश्वर्यं च वरस्त्रियः ।।
सभृत्याश्च महिष्यश्च मरिष्यंति न संशयः ।।५२।।
श्रीश्चतेति च मन्त्रेण अपामार्गं तथा बुधः ।।
सहस्रं बुधवारे च जुहुयाद् घृतसंयुतम् ।। ५३ ।।
पयस्विनीं तथा गां च वासोयुगसमन्वितम् ।।
द्विजाय श्रद्धया दद्यात्ततः संपद्यते शुभम्।। ५४ ।।
रक्तस्रावो भवेद्यत्र तत्र ऋत्विक्प्रसूयते ।।
सिंहव्याघ्रगवादीनां धनहानिविपत्करः ।। ५५ ।।
एको वृषस्त्रयो गावः सप्ताष्ट नव दंतिनः ।।
संवत्सरेण तस्यैका प्रसूतिर्विहता पुनः ।। ५६ ।।
पुनःपुनर्व्रतं चाशु अकाले मैथुनं तथा ।।
गावो यत्र प्रसूयंते यमौ दोषकराविमौ ।। ५७ ।।
भुञ्जीकृतानि धान्यानि व्रीहयो यवतंडुलाः ।।
ग्राविमार्जारमंडूकाः स्थूणाभंगे च प्राङ्गणे ।। ५८ ।।
विकिरंति नखैर्भूमिं प्ररोहंति ग्रहं तथा ।।
गृहे यस्य प्रजायंते तस्या मृत्युर्न संशयः ।। ५९ ।।
षण्मासाभ्यन्तरे यत्र श्मशानं यास्यति ध्रुवम् ।।
कलहं ज्ञातिवैरं च व्याधिपीडा भविष्यति ।। 2.3.20.६० ।।
विप्रलापो मित्र नाश इष्टेष्वनिष्टदर्शनम्।।
भार्यापुत्रविनाशश्च भवेदेषु विनिश्चितम् ।। ६१ ।।
क्रियावंतं यदा कुर्वन्कुर्वीत गृध्रबिल्वके ।।
तदा राज्ञां विभ्रमश्च तथा गृहविनाशनम् ।। ६२ ।।
अमात्यवर्गाश्च पुरे राज्ञां राज्यपराङ्मुखाः ।।
बृहस्पतिं समुद्दिश्य गां च दद्यात्पयस्विनीम् ।। ६३ ।।
वारिमंडे च कूपे च वाप्यां च मधुकांजिके ।।
क्षीरं दधिघृतं चैव जातं यदि भविष्यति ।। ६४ ।।
अकस्मात्तत्र वृक्षश्च फलेन सह संयुतः ।।
गृहमध्ये प्रजायेत ततः संपद्यते शुभम् ।। ६५ ।।
बृहस्पतेस्तु तुष्टस्य सर्वमेतन्निदर्शनम् ।।
गौरं बृहस्पतेश्चैव प्रकुर्यात्प्रायदक्षिणाम् ।। ६६ ।।
अशुभं हि शुभेनैव शांतिं होमं च कारयेत् ।।
तत्रैव राक्षसं यत्र घटकं परिशोषणम् ।। ६७ ।।
केसरी शर्करा तैलं राजतं तांडवं स्थितम् ।।
माषभक्तं तथा धान्यं सुवर्णं रजतानि च ।। ६८ ।।
ताम्रं कांस्यं तथा लोहं सीसकं पित्तलं तथा ।।
स्थापितानीव दृश्यंते गृहे चैतानि यस्य वै ।। ६९ ।।
धननाशो भवेत्तस्य स्वर्ग भंगो ह्यथापि वा ।।
व्याधिपीडे तथा घोरे राजोपद्रवबंधने ।।
गजाश्वपशुभृत्यानां विनाशो जायते ध्रुवम् ।। 2.3.20.७० ।।
यस्यैतानि प्रदृश्यंते पर्वतः कनकानि च ।।
संपत्तस्य प्रजायेत निश्चला सुखदा सदा ।। ७१ ।।
दंतोत्तरेषु दंताश्च पंक्तिमाक्रम्य संस्थिताः ।।
तेऽपि दोषकराः सर्वे शला काकृतिनस्तथा ।।
उपदंताश्च सर्वे ते न ते दोषकराः क्वचित् ।। ७२ ।।
भांडे कुंभे यदा चैव श्रूयते घनगर्जितम् ।।
कंचुकानां गृहे चैव प्राकारः श्रूयते यदि ।। ७३ ।।
मूषिकानां मुखे चैव ज्वलंती यस्य पश्यति ।।
गेही तत्रैव नश्येत शुक्रस्याद्भुतदर्शनम् ।।७४।।
शांतिं तत्र प्रवक्ष्यामि यया संपद्यते शुभम् ।।
शमीपत्रं निर्मितं च यवैर्युक्तं गृहिण्यपि ।।
दधिमधुघृताक्तं च जुहुयाद्भार्गवे दिने ।। ७५ ।।
शुक्लवासोयुगं चैव गां च शुक्लां पयस्विनीम् ।।
सुवर्णं श्रद्धया चैव दद्याद्विप्राय दक्षिणाम् ।। ७६ ।।
देवागारे यदा भूमिर्लोहिता यस्य दृश्यते ।।
पुष्पिता दृश्यते लोके तत्र विद्धि महद्भयम् ।। ७७ ।।
राजा वा राजपुत्रो वा राज्यं वापि विनश्यति ।।
मंत्रिणो मंत्रिपुत्राश्च म्रियंते नात्र संशयः ।।७८।।
यत्र वा दृश्यते लोके गृहे यस्य सुपूजिताः ।।
पुष्पिताश्च गृहस्तंभाः शरीरं च घटस्तथा ।। ७९ ।।
हस्त्यश्वमहिषाश्चैव अजा गावस्तथैव च ।।
नित्यं स्वामिवधार्थाय पुष्पितां प्रवहंति च ।। 2.3.20.८० ।।
गृहे हंसो गृहे सम्यङ्मण्डूका जलचारिणः ।।
द्वारे प्रविश्य सर्पश्च प्रतिमायाः प्रकल्पनम् ।। ८१ ।।
अकस्माद्धटशब्दोपि यत्र कुत्रापि जायते ।।
स्रवंति प्रमदा यत्र भिन्नास्ते स्युर्नवांगिकाः ।। ८२ ।।
गृही तत्र विनश्येत सपुत्रपशुबांधवः ।।
धनुःखड्गधरा रात्रौ मध्याह्ने चान्द्रके तथा ।। ८३ ।।
उदितो दृश्यते व्योम्नि ज्वलितः पावकस्तथा ।।
मनुष्याङ्गनानां मरणं तथा स्याद्राष्ट्रविप्लवः ।। ८४ ।।
रससिद्धानि वस्तूनि सुराद्याश्चापि वा पुनः ।।
हस्तिनो मदयुक्ताश्च अश्वा धीरितहिंसकाः ।।
विनश्यंति सदा चैते शनेरद्भुतदर्शने ।। ८५ ।।
नगरे वा तथा ग्रामे जायन्ते तस्य वैरिणः ।।
दिवा वा यदि वा रात्रौ शनेरद्भुतदर्शनम् ।। ८६ ।।
मृगव्याघ्रादिरक्षांसि तथा गोमहिषा अपि ।।
उत्पतंति यदा चैते शनेरद्भुतमादिशेत् ।। ८७ ।।
निधिमंत्रं प्रवक्ष्यामि येन संपद्यते शुभम् ।।
जुहुयादयुतं सम्यक्सस्यांश्च समिधं द्विजाः ।। ८८ ।।
शन्नो देवीति मंत्रेण शुभार्थं शनिवासरे ।।
चरुं च श्रपयेत्तत्र समुद्दिश्य शनैश्चरम् ।। ८९ ।।
गां च नीलां ततो दद्याज्जीवद्वत्सां पयस्विनीम् ।।
वासोयुगं च विप्राय सुवर्णं रजतं तथा ।। 2.3.20.९० ।।
दत्त्वा तु श्रद्धया सम्यग्दक्षिणां शिरसि स्थिताम् ।।
विधिं होमावसाने तु ततः संपद्यते शुभम् ।। ९१ ।।
यदा द्वारे गोधिका च शंखिनी प्रविशेद्गृहम् ।।
तदाऽशुभं विजानीयाद्राजपीडा धनक्षयः ।।
अयुतं जुहुयात्सम्यक्ततः संपद्यते शुभम् ।। ९२ ।।
विना गर्जितमेघेन शिलावृष्टिः प्रजायते ।।
रक्तमिश्रा हि पांडुश्च पतन्ती यत्र दृश्यते ।। ९३ ।।
तत्र संदृश्यते चाभ्रं वृक्षा वातविवर्जिताः ।।
शक्रध्वजस्तथा चापं पतनं सुमनस्य च ।। ९४ ।।
दिवा शिवा पुरा रौति उलूको वा निशाचरः ।।
निशि निपत्य काकुत्स्थे प्रदेशे रौति वा वृषः ।। ९५ ।।
अधर्मप्रबला देशा राजा धर्मपराङ्मुखः ।।
अन्योन्यं च जिघांसंति गोब्राह्मणमथापि वा ।। ९६ ।।
गृहे गृही विनश्येच्च सपुत्रपशुबांधवः ।।
उत्सानं द्वारदेशेऽस्य मरणं राष्ट्रविभ्रमः ।। ९७ ।।
राज्यनाशो भवेद्राज्ञो मरणं वाहनस्य च ।।
विपरीतानि देशानि क्रमतः संभवंति हि ।। ९८ ।।
राहुणा ग्रस्तसूर्योऽपि निशि चाथ यदा दिवा ।।
तारकागणवच्चैव राज्ञां निधनकारकः ।। ९९ ।।
सहामात्या विनश्यंति स्वर्गे ये च सुदुर्जयाः ।।
परचक्रेण पात्यंते राजानो नात्र संशयः ।। 2.3.20.१०० ।।
छायाध्वजश्च गगने दृश्यते चेत्कदाचन ।।
दर्शनादेव राज्ञस्तु विनाशः सहराष्ट्रकैः ।। १०१ ।।
ज्वलितो दृश्यते यत्र पावकश्च सकृज्जले ।।
वज्रे शिरसि गात्रे वा जीवितं तस्य दुर्लभम् ।। १०२ ।।
द्वारोपांते तथा स्तंभे आग्निर्वा धूम एव वा ।।
पुरुषस्य तु तत्रैव मरणं जायते ध्रुवम् ।। १०३ ।।
गगनेऽशनिघातश्च शक्तिहस्तेन वा पुनः ।।
अब्दस्याभ्यंतरे तस्य मरणं नात्र संशयः ।।१०४।।
शिखावलयमध्ये तु सधूमः पावकोद्गमः ।।
दृश्यते नगरे मध्ये तत्रैवाद्भुतदर्शनम् ।। १०५ ।।
शवस्य नीयमानस्य उत्थानं वा प्रमादतः ।।
स्थापितस्य च लिंगस्य अन्यत्र गमनं तथा ।। १०६ ।।
निर्घातश्चापि भूकंपो निवातोल्काप्रदर्शनम् ।।
अकाले पुष्पिता वृक्षाः फलं चाकालसंभवम् ।। ।। १०७ ।।
अनिमित्तानि सर्वाणि दूरमागत्य निर्भरम् ।।
अनिमित्तस्य नाशो यः सैंहिकेयकृतस्य च ।। १०८ ।।
नराणामासनं चैव गवां वा मानुषीगिरा ।।
पक्षमात्रांतरे तस्य पुत्रस्य मरणं दिशेत् ।। १०९ ।।
अयुतं जुहुयात्तत्र राहुमुद्दिश्य यत्नतः ।।
शांतिमत्र प्रवक्ष्यामि यया संपद्यते शुभम् ।। 2.3.20.११० ।।
दधिमधुघृताक्तं च कुर्याद्दूर्वाक्षतं तथा ।।
कलायु इति मन्त्रेण जुहुयाद्रविवासरे ।। १११ ।।
चरुं च श्रपयेत्तत्र राहुमुदिश्य संश्रयात् ।।
होमं कुर्यात्ततो गां च कपिलां च पयस्विनीम् ।। ११२ ।।
अतसी तिलशंखौ वा वासोयुगमथापि वा ।।
श्रद्धया राहुमुद्दिश्य दद्याद्विप्राय दक्षिणाम् ।। ११३ ।।
दुरितस्य विनाशाय तस्य संपद्यते शुभम् ।।
दधिमधुघृतक्षीरेण वारुणेन च वारुणे ।। ११४ ।।
दृश्यते चाद्भुतं तेषु विशिष्टैर्दोषदर्शिभिः ।।
गृही तत्र विनष्टश्च भवेत्सपशुबांधवः ।।११५।।
दृश्यंते तत्र क्रौञ्चाश्च जंबुका गृध्रवायसाः ।।
दारुणं भीषणं घोरं नृत्यंति च हसंति च ।।१ १६।।
मैथुनानि च सर्वेषां यस्य वासे भवेद्यदि ।।
मृत्युस्तस्य भवेदाशु ईश्वरस्य च शासनात् ।। ११७ ।।
धूमकेतुर्यदा व्योम्नि ज्वलत्पावक सन्निभः ।।
स्थानात्स्थानांतरं याति भूमौ वा पतते भृशम् ।।
सबंधुरस्यते राजा परचक्रैः स पीडितः ।। ११८ ।।
दुर्भिक्षं मरणं चैव चिरं राष्ट्रे भविष्यति ।।
गावो मर्कटकुंभा व विशंते गृहवेश्मनि ।। ११९ ।।
गावश्च तस्य नश्यंति दारापत्यधनानि च ।।
अन्यस्य दोषो भवति गृहे यांति प्रमादतः ।। 2.3.20.१२० ।।
अब्दांतरे भवेन्मृत्युर्विरजा हि भविष्यति ।।
शांतिमत्र प्रवक्ष्यामि यया संपद्यते शुभम् ।। १२१ ।।
सप्ताश्वरथसंयुक्तं हेमच्छत्रविभूषितम् ।।
विप्राय मंडपं दद्याद्बिल्वपत्रमथापि वा ।। १२२ ।।
ऐंद्रेणैव तु मन्त्रेण होमः कार्यो द्विजातिभिः ।।
अकस्माच्छालतालाक्षखदिरोत्पलसेरकाः ।। १२३ ।।
गृहमध्ये प्रजायेत केतोरद्भुतदर्शनम् ।।
हंसो वा द्रोणकाको वा मयूरो वा गृहोपरि ।। १२४ ।।
गृहे तस्य महोत्पातः केतोरद्भुतदर्शनम् ।।
शांतिमत्र प्रवक्ष्यामि यया संपद्यते शुभम्।।१२५।।
दधिमधुघृताक्तं च जुहुयादयुतं कुशम्।।
[]त्र्यंबकं चेति मन्त्रेण केतवेभिवपे च्चरुम् ।। १२६ ।।
नीलां धेनुं सवत्सां च बहुक्षीरप्रदां तथा ।।
मृत्तिकां हेमवासश्च नानालंकारमेव च ।। १२७ ।।
दक्षिणां च प्रवक्ष्यामि यस्य नास्ति प्रतिक्रिया ।।
देवमुद्दिश्य दानेन होमेन चरुणा तथा ।। १२८ ।।
दक्षिणस्यां दिशि च्छायां यः पश्येदात्मनः स्वयम् ।।
स्वच्छायां पादुकस्यैव पश्येत्पञ्चशिरोद्वयम् ।। १२९ ।।
एवमेवैव यच्छिन्नं शिनष्टि च ततो हितम् ।।
शीघ्रं नाशमवाप्नोति सप्ताहान्नात्र संशयः ।। 2.3.20.१३० ।।
उच्चावचान्प्रवक्ष्यामि यथा शास्त्रेण चोदितम् ।।
काकमार्जारशूकानां कपोतानां विशेषतः ।।
मैथुनं दृश्यते यत्र तच्च राहोर्महाद्भुतम् ।। १३१ ।।
शनिमुद्दिश्य जुहुयादयुतं शनिवासरे ।।
पूजयेदर्कपुष्पेण शतेन जुहुयाच्चरुम् ।। १३२ ।।
कृत्वा तत्रैव पश्येत शनेरद्भुतदर्शनम् ।।
अष्टाविंशं चरुं कृत्वा ततः शांतिर्भवेद्ध्रुवम् १३३ ।।
भुजपदोस्तथा चक्षुःस्पंदने मरणं दिशेत् ।।
तत्तु सोमाद्भुतं विद्याद्वामदक्षिणतः क्रमात् ।। १३४ ।।
कृष्णपक्षे भवेद्वामे विपरीतेऽद्भुतं दिशेत् ।।
अनिष्टसूचकं यस्मात्तस्माच्छांतिं प्रकल्पयेत्।।१३५।।
शतार्द्धं रविमुद्दिश्य शान्त्यर्थे होममाचरेत् ।।
चरुपाकविधानेन यवैस्तिलसुसर्पिषा ।। १३६ ।।
पुस्तके यज्ञसूत्रं च असत्पात्रे चरौ तु वा ।।
शक्रवस्त्रप्रदग्धे च सूर्यस्याद्भुतदर्शनम् ।। १३७ ।।
हयमारं त्रिमध्वक्तं जुहुयादिष्टसिद्धये ।।
देवपुस्तकरत्नानि मणिकांचनमेव च ।। १३८ ।।
लोहितस्याद्भुतं विद्यात्सहस्रं च विशोधनम् ।।
देवागारे तथा गोधा शंखिनी प्रविशेत्क्वचित् ।। १३९ ।।
द्रोणकाको बकश्चैव उलूकद्वयमेव च ।।
रक्तकंठः कपोतश्च व्याघ्र एणश्च वा विशेत् ।। 2.3.20.१४० ।।
यस्य देवगृहं पश्येत्तस्य तस्यायुतं हुनेत् ।।
न चात्र गृहवैकृत्यं हसनं यदि दृश्यते ।।
संपत्तिसूचकं गेहे मरणं दुःखदर्शनम् ।। १४१ ।।
क्रंदने हतराज्येन गजाश्ववाहने क्वचित् ।।
सूर्यमुद्दिश्य जुहुयादयुतं सर्वसिद्धये ।। १४२ ।।
प्रमादात्कंपने हानिः स्वेदे जाते विपद्भवेत् ।।
क्षीरस्रावे च रुधिरे तत्र राज्ये महद्भयम् ।। १४३ ।।
गोच्छागौ वाथ गोमायुर्गृहोपरि प्रनृत्यति ।।
यदा रौति दिवा फेरुस्तदा नाशो भवेद्ध्रुवम् ।। १४४ ।।
श्वजंबुकावथ व्याघ्रो यथाशक्ति च धावति ।।
ईशाने महिषस्तद्वत्तदा देशे च विप्लवः ।। १४५ ।।
राहोरद्भुतमुदिश्य सहस्रं जुहुयाच्चरुम् ।।
वृक्षाद्भुतं यदा पश्येत्तत्र तस्यां परित्यजेत् ।।
यद्गृहेषु हुतं याति देशविप्लवमादिशेत् ।। ।। १४६ ।।
देशे वा नगरे ग्रामे आरण्यपशुबन्धनम् ।।
सर्पे वा विपरीतं च मांसपिंडमथापि वा ।।
तद्गृहे मरणं चैव देश विप्लवमादिशेत् ।। १४७ ।।
दिवाद्भुतेऽयुतं रात्रौ द्विगुणं च भवेद्ध्रुवम् ।।
द्विगुणं चापि संध्यायामर्धरात्रे चतुर्गुणम् ।। १४८ ।।
अकाले तत्र मरणमकाले गृहिणीमृतिः ।।
सौराद्भुतं विजानीयादशुभे वा विशोधनम् ।। १४९ ।।
एकैकस्यायुतं यत्र कुर्यात्तत्रैव होमयेत् ।।
सांगोपांगेन सहित मष्टावष्टौ हुतं च वा ।। 2.3.20.१५० ।।
अधिप्रत्यधिसहितं गृहपक्षेऽपि सत्तमाः ।।
तन्मानेन हुतं विप्रा कुर्यात्तत्रैव भूषणम् ।। १५१ ।।
एकैकस्याहुतं विप्रा अष्टावष्टौ हुतं च वा ।।
अधिप्रत्यधिदेवानां याश्चान्याश्चांगदेवताः ।। १५२ ।।
मानांतं च ददेत्पूर्णां दत्त्वा पूर्णां न होमयेत् ।।
वक्ष्ये ग्रहमखे मानं येन मानेन सिध्यति ।। १५३ ।।
अमानकरणे दोषस्तस्मान्मानं न हापयेत् ।।
पंक्तिचत्वारिंशदाद्यैश्चतुर्धा विभजेन्नरः ।। १५४।।
अनिष्टाय ततो दद्याच्चरुहोमं विभागशः ।।
अधिप्रत्यधिदेवानामष्टावष्ट ह्युदाहृतम् ।।१५५ ।।
[]त्र्यंबकादिषु मंत्रेषु होमत्रयमुदाहृतम् ।।
धनंजये तथा दद्याच्चरुहोमं विभागतः ।। १५६ ।।
आदित्यायाष्टावष्टावधिककल्पयेत्सुधीः ।।
शतहोमे तु सर्वत्र दशांगं कल्पयेन्नरः ।। १५७ ।।
अनिष्टाय युगांगं तु ग्रहेभ्यो ह्यंगनाय च ।।
अधिप्रत्यधिदेवानां तथैवांगं प्रकल्पयेत् ।। १५८ ।।
द्वौ तु दद्यात्त्र्यंबकाय तथा धनंजयाय च ।।
तत्र होमो नायकाय सर्वत्रैव विचक्षणः ।। १५९ ।।
सहस्रे चैव विंशांगे अनिष्टाय दशांशकम् ।।
पञ्चांशेन ग्रहाणां च पञ्चांशेन यवानपि ।। 2.3.20.१६० ।।
तत्रानिष्टे पंचशतं तस्यार्धं ग्रहवाग्यतः ।।
एकत्रिंशद्भवेन्मानम् ( ३१) अन्येषां तु चतुर्दश (१४) ।।१६१।।
ग्रहाधिकं होमयुगं तत्र भागे प्रकल्पयेत् ।।
अधातये च तिथ्यंगं पञ्चांगं यस्य चाद्भुतम् ।। १६२ ।।
ग्रहेभ्यश्चैव पंचांगं तत्र वांगं परानपि ।।
एकैकांगे भवेन्मानं षट्शतं षष्टिरेव च ।। १६३ ।।
अधिकं च भवेत्षष्टिर्दशमे भागशेषतः ।।
अनिष्टांशे त्रिसहस्रं त्रिशतं त्रिंशतं तथा ।। १६४ ।।
चतुःशतं ग्रहाणां च तथा सप्तशताधिकम् ।।
उपग्रहेभ्यो दद्याच्च पंचाशीत्यधिकं शतम् ।। १६५ ।।
तिथ्यंगभागः शेषेण ग्रहे सप्तशताधिकम् ।।
एकैकं तु ग्रहस्यैवमादित्याय युगं भवेत् ।। १६६ ।।
ग्रहांगे यः स्थितो भागो युगलं भागशेषतः ।।
त्र्यंबकाय च तद्दद्यात्तथा धनंजयाय च ।।१६७।।
शांतिके पौष्टिके काम्ये यदीच्छेत्सुखमात्मनः।।
ग्रहाणां चायुतं होमं त्र्यहसाध्येन होमयेत् ।। १६८ ।।
त्र्यहसाध्ये विधानं यत्पुरैवोदीरितं द्विजाः ।।
इदानीं प्रक्रमेणैव यो भागः स निगद्यते ।। १६९ ।।
पूर्वस्मिन्दिवसेऽनिष्टे सहस्रं त्रिशतोत्तरम् ( १३००) ।।
इतरेषां ग्रहाणां च प्रत्येकं तु शतं शतम्( १००) ।। 2.3.20.१७० ।।
अधिप्रत्यधिदेवानां पंचाशद्धोम उच्यते ।।
प्रथमेह्नि प्रदद्याच्च मिलित्वा त्रिसहस्रकम्( ३०००) ।। १७१ ।।
द्वितीयदिवसेऽनिष्टे द्विसहस्रमुदाहृतम् ( २०००) ।।
प्रति ग्रहेभ्यस्त्रिशतं दद्यादष्ट शताधिकम्( १०८) ।। १७२ ।।
उपग्रहेभ्यो दद्याच्च षोडशभ्यो यथाक्रमम् ।।
एकाशीतिं ददौ यत्नादशीतिं चांत्ययोर्द्वयोः ।। १७३ ।।
एवं द्वितीयदिवसे मिलित्वा षट्सहस्रकम् ( ६०००) ।।
अनिष्टाय त्रिशतं तु तृतीयदिवसे मतम्।।१७४।।
तत्प्रत्येकं ग्रहाणां च द्वाचत्वारिंशदुच्यते ।।
अधिप्रत्यधिदेवानां प्रत्येकं पंचत्रिंशकम् ।। १७५ ।।
तृतीयदिवसे दद्यान्मिलित्वैकसहस्रकम् ( १०००) ।।
आदित्याय युगं दद्यादेकं तु त्र्यंबकाय च ।। १७६ ।।
धनंजयाय होमैकमेकं चायुतमुच्यते ।।
तदर्धकं ग्रहेभ्यश्च इतरेभ्यस्तदर्धकम् ।। १७७ ।।
ग्रहाणां त्रिसहस्रं तु पंचानां च सहस्रकम् ।।
त्रिसहस्रभागशेषमादित्याय सहस्रकम् ।। १७८ ।।
त्र्यंबकाय तथा दद्यात्तथा धनंजयाय च ।।
षट्पादाधिक षटषट्कसहस्रपरिसंख्यया ।।
नवश्लोकशतोद्भूतं संपूर्णं स्याद्भविष्यकम् ।। १७९ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे विंशोऽध्यायः ।। २० ।।

इति तृतीयभागः समाप्तः ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्व समाप्तम्।।

।।श्रीवेङ्कटेश्वरार्पणमस्तु ।।

  1. वासं ३३.४३
  2. वासं ९.४०
  3. वासं ३.१२
  4. वासं ३.६०
  5. वासं ३.६०